________________
१५४ साहित्यदर्पणः।
(दशम:पुनरुक्तवदाभासेऽपि । तेन 'येन ध्वस्तमनोभवेन' इत्यादौ प्राकरणिकयोः 'नीताना...' इत्यादावप्राकरणिकयोरेकधर्माभिसम्बन्धात् तुल्ययोगितायाम्,
'स्वेच्छोपजातविषयोऽपि न याति वक्तुं देहीति मार्गणशतैश्च ददाति दुःखम् । मोहात् समुत्क्षिपति जीवनमप्यकाण्डे कष्टं प्रसूनविशिखः प्रभुरल्पबुद्धिः॥ ८५॥' इत्यत्र प्राकरणिकाप्राकरणिकयोरेकधर्माभिधम्बन्धाद्दीपके,
_ 'सकलकलं पुरमेतजातं सम्प्रति सुधांऽशुविम्बमिव' इत्यादौ चोपमायां विद्यमानायामपि श्लेषस्यैतद्विषयपरिहारेणासम्भवात, एषां च श्लेष.
हस्य वस्तुतयाऽवस्थानस्याभावस्तस्मात् । अलेषान न सम्भवतीत्यर्थः । न चैवं विरोधाभासस्योच्छेद इति भावः। आहुश्च तर्कवागीशा:-'प्रतिभातमात्रस्य पदार्थस्मृतिविषयस्यैव प्ररोहाभावादयोग्यत्वेन शब्दाननुभवात् । तथा च-अर्थद्वयस्य शब्दतोऽनुभवेऽपि श्लेषस्य विषयसम्भवादुत्सर्गत्वम्,विरोधाभासस्यायोग्यतया शब्दतोऽनुभवाभावऽपि विषय इत्यपवादः त्वमिति भावः।' इति । एवं यथा विरोधे द्वितीयार्थस्य प्रतिभातमात्रस्य प्ररोहाभावान श्लेषस्तथेत्यर्थः । पुनरुक्तवदाभासः। अपि न सम्भवतीति शेषः । तेन समासोक्त्यादौ श्लेषस्य प्रसङ्गाभावादेव बाध्यत्वाभाव इत्यनेन हेतुनेति भावः । 'येन ध्वस्तमनोभवेन'इत्यादौ 'लोके' इति शेषः । प्राकरणिकयोः प्रकरणप्राप्तयोः शिवहरिरूपयोर. थयोः । 'पाया'दित्यत्रोपयोगित्वेन प्रकृतयोरित्यर्थः । 'नीतानां''इत्यादौ श्लोक'इति शेषः । अप्राकरणिकयो. पद्ममृगविशेषरूपयोरुपमानत्वेनाप्राकृतयोरर्थयोरित्यर्थः । एकधर्माभिसम्बन्धादेको धर्मों गुणक्रियाद्यन्यतमरूपस्तस्याभिसम्बन्धः संयोगस्तस्मात् । पूर्वत्र पालनरूपैकक्रियासम्बन्धात्, परत्र पुनराकुलीभावादिरूपैकगुणसम्बन्धादिति भावः । तुल्ययोगितायां 'पदार्थानां प्रस्तुतानामन्येषां वा यदा भवेत् । एकधर्माभिसम्बन्धः स्यात्तदा तुल्ययोगिता ॥'इ माणलक्षणेऽलङ्कारविशेष इत्यर्थः । 'विद्यमानायामपी' त्यग्रिमेणान्वयः ।
'स्वेच्छोपजातिविषयो स्वच्छया निजकामनयोपजाताः सम्पन्ना विषयाः कामिजनरूपाणि लक्ष्याणि यस्य से इति, यद्वा स्वेच्छं यथेष्टमुपजाता उपपन्ना विषया लक्ष्याण्युपभोगसाधनानीति यावद् यस्य सः । देही शरीरी 'देहि' इति वा पदच्छेदः । दानं कुरुष्वेत्यर्थः । इति । वक्तुम् । न 'योग्यता मिति शेषः । याति । मार्गणशर्गिणानां घाणानामुपायानां वा शतानीति तैः । अत्र करणे तृतीया । च तथा । दुःखं पीडाम् । ददाति । मोहात् । जीवनं 'कामिजनस्येति 'प्रजाजनस्येति वा शेषः। अपि । अकाण्डेऽकाले। समुत्क्षिपति हरति । अतः- प्रसूनविशिखः प्रसूनानि पुष्पाण्येव विशिखा बाणा यस्य सः, काम इत्यर्थः । 'तथेति शेषः । अल्पबुद्धिरल्पा मन्दा बुद्धिर्यस्य सः । प्रभः । इति-कष्टम् । इदमत्र निष्कृष्टम्-कामो मूढः प्रभुश्चातिकष्टप्रदः, तत्र कामोऽनङ्गत्वान देहवानिति वक्तुं शक्यते, अथापि-मार्गणशतैः कामिजनान् दुःखाकरोति, न केवलं दुःखाकरोति किन्तु तेषां जीवनमप्यकाण्डे एव संशयं नयति, मढः प्रभुः सेव्यमान्योऽप्यनेकसाधनैर्दुःखाकरोति, अपराधभ्रममात्रे त्वकाले जीवनं चापहरतीति ॥ अत्र निर्बोधराजसंवकस्योक्तिरियम् । अत्र वसन्ततिलकं छन्दः । तल्लक्षणं चोक्तं प्राक् ॥ ८५ ॥
इत्यत्र । प्राकरणिकाप्राकरणिकयोरुपमेयोपमानत्वाभ्यां प्रकृताप्रकृतयोः प्रभुस्मरयोरित्यर्थः । एकधर्माभिसम्बन्धात्स्वेच्छोपजातविषयत्वादिरूपैकधर्मसम्बन्धात् । दीपके 'अप्रस्तुतप्रस्तुतयोर्दीपकं तु निगद्यते ।' इति वक्ष्यमाणलक्षणेऽलङ्कारविशेष । विद्यमानायामपी ति वक्ष्यमाणस्य 'लिङ्गव्यत्ययेनाविद्यमानेऽपी'ति योज्यम् 'एशत । परम । सम्प्रति वर्तमानसमये । सुधांशबिम्बं सुधांशोबिम्बमिति तथोक्तम् । इव । सकलकलं कलकलेन सह वर्तत इति सकलाः कला यत्र तदिति वा । जातम् । 'नक्षत्राधिकृतत्वं दधति करा यस्य सर्वत्र ॥' इति शेषः । अत्रार्याछन्दः, लक्षणं चोक्त प्राक् ।' इत्यादौ । च पुनः । उपमायां 'साम्यं वाच्यमवैधयेवाक्यैक्य उपमाद्वयोः।' इति वक्ष्यमाणलक्षणेऽलङ्कारविशेषे । विद्यमानायाम् । अपि । श्लेषस्य तदाख्यस्यालद्वारस्येत्यर्थः । एतद्विषयपरिहारेणैतेषां तुल्ययोगिताऽऽद्यलङ्काराणां विषया उदाहरणानि तेषां परिहार: परित्यागस्तेन, तुल्ययोगितायुदाहरणानि परित्यज्येति भावः । असम्भवात । एषां तुल्ययोगिताऽऽद्यलकारा.