________________
परिच्छेदः ]
रुचिराख्यया व्याख्यया समेतः।
१५३
प्रस्तुतमशंखादौ द्वितीयार्थस्यानभिधेयतया नास्य गन्धोऽपि, विद्धन्मानस...' इत्यादौ श्लेषगर्भ रूपके 'मानस' शब्दस्य चित्त खरोरूपोभयार्थत्वेऽपि रूपकेण श्लेषो बाध्यते, सरोरूपस्यैवार्थस्य. विश्रामधामतया प्राधान्यात्, श्लेषे हि अर्थद्रयस्यापि समकक्षत्वम्, 'सन्निहितवालान्धकारा भास्वन्मूर्तिश्च' इत्यादौ विरोधाभासेऽपि विरुद्धार्थस्य प्रतिभातमात्रस्य प्ररोहाभावान श्लेषः । एवं
आपेश्च भावे क्तः । तथा च-यद्विषय एव य आरभ्यते स तं बाधते, अन्यश्चतस्य बाध्य इति येषां विषय एव श्लेष आर. भ्यते तानलङ्कारान् श्लेषो बाधते, ये च श्लेषविषय एव स्वयमारभ्यन्ते ते श्लेषं बाधन्ते श्लेषश्च तेषां बाध्य इति स्थितम्। इत्युद्भटादीनां मतम् । इति । अथ तदेव तावत् स्पष्टं विवृणोति-इत्थमनेन प्रकारेण । अत्रास्मिन् श्लेषविषय इति भावः । विचार्यते विचारः क्रियते 'तैरेवेति शेषः । समालोक्यप्रस्तुतप्रशंसादौ 'उपोढरागेण विलोलतारकं तथा गृहीतं शशिना निशामुखम्। यथा समस्तं तिमिरांशुकं तया पुरोऽपि रागाद्गलितं न लक्षितम्॥' 'नितरानीचोऽस्मीति त्वं खेदं कूप! मा कदाऽपि कृथाः।अत्यन्तसरसहृदयो यतः परेषां गुणग्रहीताऽसि॥'इत्यायुदाहरणायां समासोक्तावप्रस्तुतप्रशंसायां पायोक्तौ चेति भावः।आदिपदेन पायोक्तेर्ग्रहणात् । अत्र सति सप्तमी द्वितीयार्थस्य द्वितीयश्चन्द्रातिरिक्तनायकादिप्रत्यायकश्वासावर्थस्तस्याअनभिधेयतयाऽभिधया प्रतिपाद्यमानत्वस्याभावादिति भावः।अस्य श्लेषत्यागन्धो लक्षणायाsल्पसम्पर्कः । अपि किं पुनः साक्षात् सम्बम्धः।न नैवास्ति।इदमभिहितम् । समासोक्त्यादौ यो हि द्वितीयोऽर्थः स केवलं व्यन्जनयाऽवगम्यते, तस्मान्न तत्रास्य सम्भवः, उभयोरर्थयोर्वाच्यत्वे एवैतस्य स्वीकारात् । यत्त्वाहुः-'अयमतिजरठाः प्रकामगुरिलघुविलम्बिपयोधरोपरुद्धाः । सततमसुमतामगम्यरूपाः परिणतदिकरिकास्तटीबिभर्ति ॥' अत्र हि ( यः ) समासोक्त्युदाहरणे वृद्धवेश्यावृत्तान्तः प्रतीयते तत्राभङ्गश्लेषः, इति सर्वेषामभिमतम्। एवं च-अप्रकृतार्थो न व्यङ्ग्यः ।'इति, तत्प्रमत्तजल्पितम्, अन्यथा 'प्रतीयते' इति तत्राभङ्गश्लेष' इति च कथं सङ्गच्छेत। न च श्लेषो नाम द्वयोः सम्बन्धः ।' इति वक्तं शक्यम् । ‘एवं च अप्रकृतार्थो न व्यङ्गय इति विरोधात् । एवं च-'समासेक्तिः परिस्फूतिः प्रस्तुतेऽप्रस्तुतस्य चेत् ।' इत्यनभिधाय 'अभिधानं समासोक्तिः प्रस्तुतेऽप्रस्तुतस्य चेत् । इत्येवाभिधेयत्वं प्रसज्येत । यत्तु-‘एवं चान्योऽन्यसन्नि धानबलादित्यर्थकेनोक्तार्थकेनेदं बोधितं यत् प्रकृतार्थे नियामकद्वयसत्त्वात् प्रथममुपस्थितिः, द्वितीयेऽपि शब्दान्तरसनि. धिरूपनियामकमात्रसरवेन तस्याप्युपस्थितिः, किन्तु पश्चात् । ...तरं व्यसनामनङ्गीकृत्य तेषां शक्युल्लासादिहेतुत्वकरुपनमेव ।' इत्युक्तम्, तस्य मारीचवटूरे पातः । इति । 'विद्धन्मान स...' इत्यादौ 'विद्वन्मानसहंसवैरिकमलासकोचदीप्तधेत दुर्गामार्गणनीललोहितमरुत्सीकारवैश्वानर । सत्यप्रीतिविधानदक्षविजयप्राग्भावभीम प्रभो ! सानाज्यं वरवीर वत्सरशतं वैरिञ्चमुच्चैः क्रियाः ॥' इत्यादावित्यर्थः । श्लेषगर्भ श्लेषो गर्भे यस्य तत्र । रूपके 'रूपकं रूपितारोपाद्विषये. निरपहवे।' इति वक्ष्यमाणलक्षणेऽलङ्कारे । 'मानस'शब्दस्य । चित्तसरोरुपोभयार्थत्वे चित्तसरोरूपरूप्यरूपकोभयार्थत्वे इत्यर्थः । अपि । रूपकेण । श्लेषः। बाध्यते नतु श्लेषेण रूपकमिति शेषः । कुत इत्याह-सरोरूपस्य। एव नतु चित्तरूपस्यापि । अर्थस्य मानसपदार्थस्येत्यर्थः । विश्रान्तिधामतया विश्रान्तेः प्रतीतिपर्यवसानस्य धामास्पदमिति तस्य भावस्तत्ता तयेति तथोक्तया। प्राधान्यात । प्राधान्ये हेतुमाह-हि यतः। श्लेषे 'सती'ति विशेषः । अर्थदयस्य । अपि । समकक्षत्वं परस्परनिरपेक्षतया प्रधानत्वम् । तथा च-श्लेषो नामार्थयोर्द्वयोरपि साम्यम्, रूपक पुना रूप्यार्थमात्रप्राधान्यम् । तस्मादिह रूपकेण श्लेषो बाध्यते, नतु श्लेषेण रूपकमिति निष्कृष्टम् । तत्रागीशा अयाहः'अर्थयोरसमकक्षत्वाभावोपपादकं समकक्षत्वं परस्परनिरपेक्षतया प्रधानत्वम् । तथा च-अर्थव्यस्य समकक्षत्वे श्लेषस्य विषयः सम्भवति। प्रकृते तु उद्देश्यविधेयभावेन गुणप्रधानापेक्षितयाऽतुल्यकक्षत्वाद्रूपकेण श्लेषो बाध्यते । अन्यथा-श्लिष्टपरम्परितरूपकस्य निर्विषयताऽऽपत्तरिति भावः ।' इति । ननु द्वयोरप्यर्थयो: समकक्षत्वे श्लेषस्य प्राधान्यानीकारे विरोथ. स्योच्छेदः, तत्रापि अर्थयोः समकक्षत्वादित्याशङ्कयाह-सन्निहितबालान्धकारा सन्निहितो बालोऽल्पः केश एवेति वाऽन्धकारो यत्र सा । चापि । भास्वन्मूर्ति खतो मूर्तिर्भास्वती मूर्तिर्यस्या इति सेति वा ।' इत्यादौ 'पुनरिति शेषः । विरोधाभासे विरोधमाभासयतीति तस्मिन् सतीत्यर्थः । अपि । विरुद्धार्थस्य सनिहितवालान्धकारत्येऽपि भास्वन्मूर्त्तित्वाभिधानरूपस्येति भावः । प्रतिभातमात्रस्य प्रतिभात एवेति तस्य तथोक्तस्य । प्ररोहाभावात प्ररो.
* २०