________________
५५३ . . साहित्यदर्पणः।
[दशमःइत्यादौ शब्दश्लेषेऽपि अर्थालङ्कारत्वं तवापि प्रसज्यति । इत्युभयत्रापि शब्दालङ्कारत्वमेव । यत्र तु शब्दपरिवर्तनेऽपि न तथा श्लेषत्वखण्डना, तत्र'स्तोकेनोन्नतिमायाति स्तोकेनायात्यधोगतिम् । अहो सुखदृशी वृत्तिस्तुलाकोटेः खलस्य च।।८४॥'
इत्यादावर्थश्लेषः।
अस्य चालङ्कारान्तरविविक्तविषयताया असम्भवाद् विद्यमानेष्वलङ्कारान्तरेष्वपवादनेन तद्धाधकतया तत्प्रतिभोत्पत्तिहेतुत्वम् । इति केचित् (प्राहुः ) । इत्थमत्र विचार्यते-समासोक्त्य
शब्दस्य । 'स्वराभेदा'दिति शेषः । अभिन्नप्रयत्नोच्चार्यत्वेन । अर्थालङ्कारत्वेऽर्थालङ्कारत्वस्वीकारे । 'प्रतिकूलतामुपगते हि विधौ।' इत्यादौ 'शब्दश्लेषे' इति शेषः । शब्दभेदे शब्दयोर्विधुविधि', इत्येतयोः शब्दयोर्भेदे । अत्र सत्यर्थे सप्तमी । अपि । 'अभिन्नप्रयत्नोच्चार्यत्वेने ति शेषः । अर्थालङ्कारत्वमर्थालङ्कारतास्वी. कारः । तव । अत्र प्रतिवादित्वमुद्दिश्यैकवचनम्, अन्यथा-'केचि'दित्युपक्रम्य 'तेषां' 'युष्माकम्' इत्येव वक्तुमयोक्ष्यत । अपि । प्रसज्यति । इति । उभयत्र सभङ्गेऽभङ्गे चेत्यर्थः । अपि । शब्दालङ्कारत्वम् । एव । इदमभिहितम्समासभेदे स्वरभेदस्तस्मिन् पुनः सति प्रयत्नभेद इति शब्दभेदे सभङ्गोऽस्तु शब्दलषः, किन्तु यदीममेव नयमनुसृत्य विधा' वित्यादौ शब्दश्लेषत्वं गवेष्यते न तवसावुपपद्यते, तथा हि-अत्र समासाभावात् स्वराभेदे प्रयत्नाभेदः,तत्सत्त्वे पुनः शब्दाभेदे शब्दश्लेषो न सम्भवति शब्दानेकत्वे तच्छेषानुपपत्तेः । तस्मात्-'स्वराभेदात्' इत्यादि यदुक्तं न तत् सङ्गच्छते । इति ।
नन्वेवं सति सर्वत्रैवास्तां शब्दश्लेषः, कथं वा कुत्रचिदर्थश्लेषोऽपि भवेत् इत्यर्थश्लषस्य सावकाशतां दर्शयति-यत्र यस्मिन् । तु । शब्दपारवत्तने । 'कृते' इति शेषः । अपि । तथा। श्लेषत्वखण्डनाश्लेषत्वस्य श्लेषस्य ख भङ्गोव्याघात इति यावत्, इति तथोक्ता । श्लिष्यतीति श्लेषस्तत्त्वं श्लेषत्वम् । नतु श्लेषणं श्लेषस्तत्त्वं श्लेषत्वम् भावाद्भावप्रत्ययावश्यकत्वाभावात् । न 'सम्भवती'ति शेषः । तत्र
'स्तोकेनाल्पेनाल्पद्रव्यमानहासेनेत्येकत्रार्थः, अन्यत्राल्पोद्योगसार्थक्येनेत्यर्थः। उन्नतिमुन्नमनमूर्ध्वगमनमुन्नतवद्वा स्वस्वरूपस्याविश्चिकीर्षामित्यर्थः । आयाति प्राप्नोति । स्तोकेन । अधोगतिम्। आयाति ! इत्येवम्-तुलाकोटेस्तुलायाः कोटिरेकदेशस्तस्य । च तथा । खलस्य दुर्जनस्य । वृत्तिर्वर्त्तनं जीवनं वा । अहो आश्चर्यम् । सुसदृशी । नितान्तं सहशत्वमधिगतेति भावः । सदृशशब्दस्य वाच्यलिङ्गत्वात्स्त्रीप्रत्ययः । अत्राल्पेन द्रव्यहारीन, तुलाकोटेरूवंगमन. मिष खलस्याल्पलाभादिनाऽहङ्काराविष्कारः क्षणादेवाधःपाताय, अल्पेनैव पुनद्रव्यातिरेकेण तुलाकोटेरधःस्थानमिव खलस्य पुरुषार्थविपर्यासादिनाऽवमानावमननमपि क्षणिकम् । इत्यर्थो व्यङ्गः ॥ ८४ ॥'
इत्यादौ । अर्थश्लेषः ‘शब्दपरिवृत्तिसहत्वा'दिति शेषः ।
ननु श्लेषस्यालङ्कारान्तराणां च परस्परं बाध्य बाधकत्वेनानुस्यूतत्वमेव, केषाञ्चित् लेषविषयत्वात, श्लेषस्यैवं केषाचिद्विषयत्वाच, तस्मानायं पृथग्व्यपदेश्यः इति परमतमाह-अस्य चेत्यादिना ।
अस्य श्लेषालङ्कारस्य । च पुनः । अलङ्कारान्तरविविक्तविषयताया अलङ्कारान्तरा विविक्त विषयता तस्याः। , 'पञ्चमी विभक्तेः' २।३ । ४२ इति पश्चमी । विविक्तो विषयो येषां तेषां भावस्तत्ता । असम्भवात् । विद्य मानेषु स्वस्वविषयविशेषमहिम्नाऽपरिहयेषु । अत्र विषये सप्तमी। अलङ्कारान्तरेषु । अपवादत्वेनापवाद्यत्वेनापवादकत्वेनति वा । अपवाद्यते इति, अपवादयतीति वाऽपवादस्तेन । अकर्तरि च कारके सज्ञायाम् ।' ३।३ । १९ ति घञ् 'नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः ।' ३।१ । १३४ इति पचादित्वादच् वा। अत्राभेदे तृतीया । तद्धाधकतया तानि अलङ्कारान्तराणि बाधकानि यस्येति तत्तया तेषां बाधक इति तस्य भावस्तत्ता तयेति वा । अत्र हेतौ तृतीया । तत्प्रतिभोत्पत्तिहेतुत्वं तेषां प्रतिभेति, सैवोत्पत्तिहेतुर्यस्य तस्य भावस्तत्त्वमिति, तत्प्रतिभाया उत्पत्तिहेतुस्तत्त्व. मिति वा ।' इतीत्येवम् । केचिदपसिद्धान्ततयोपेक्षणीयाभिधाना उद्भटादय इति यावत् । प्राहः । इदमभिहितम्-केषा चिद्विषयं श्लषोऽभिनिविशते, श्लेषस्य विषयं केचिदिति नायमलष्कारान्तरेभ्यो विविक्तः,तेष्वेव बाध्यबाधकत्वाभ्यामंतस्य स्थितेः । येन नाप्राप्ते य आरभ्यते स तस्य बाधकः' इति च नयः । येनेति कतरि तृतीया । नञ् द्वयं प्रकृतं दढयतुम् ।