________________
१६८
साहित्यदर्पणैः।
[दशमः७९ इयं पुनः ॥ ६८॥
श्रौती यथेववाशब्दा इवार्थो वा वतिर्यदि ॥
आर्थी तुल्यसमानाद्यास्तुल्यार्थों यत्र वा वतिः ॥ ६९ ॥ यथेववादयः शब्दा उपमानानन्तरप्रयुक्ततुल्यादिपदसाधारणा अपि श्रुतिमात्रेण उपमानो. पमेयगतसादृश्यलक्षणसम्बन्धं बोधयन्तीति तत्सद्भावे श्रौत्युपमा, एवं
तद्भिन्नत्वे सति तद्गतभूयोधर्मवत्त्वम्, प्रकृते च तस्य व्यङ्गयत्वं,शब्देन साक्षादप्रतिपादनात् । यत्तु विश्वेश्वरेणोक्तम् 'वाचकधर्मसमत्वप्रतियोग्यनुयोगिनां ग्रहे पूर्णा ।' इति, तत्र-वाचकेतिपदसमभिव्याहारेण समत्वादीनामपि वाच्यत्वमवधेयम् । अन्यथा-लक्ष्यव्यङ्गयोपमयोरपि वाचकोपादाने लक्ष्यव्यङ्गयत्वोपपत्तिरेख न सम्पत्स्यते । इति ।
उक्तायाः पूर्णोपमाया एव द्वैविध्यं लक्षयति-७९ इयमित्यादिना ।
७९ इयं निरुक्तलक्षणापूर्णोपमेत्यर्थः । पुनः । यदि । यथेववाशब्दाः यथा-इव-वा-इत्येते शब्दाः । अत्र बहु. वचनं 'व' इत्यस्यापि उपलक्षकम् । तथाच- पङ्कजदलानि व समुत्स्फुरन्ति तासां सुनेत्रयुग्मानि।' इत्यादावपि पूर्णोपमात्वमक्षतम् । 'मणी वोष्ट्रस्य लम्बेते प्रियो वत्सतरौ मम ।' इत्यादौ तूत्प्रेक्षव, वत्सतरयोर्मण्योश्च उपमेयोपमानभावाप्रसिद्धेः।। एवम्-'शात्रवं च पुपर्यशः ।' इत्यादावपि नोपमा, मधुपानस्योपमेयतायाः शत्रुयशःपानस्य चोपमानताया अप्रसिद्धः । अत:-'शात्रवं व पपुर्यशः ।' इत्युपलभ्यमान एव पाठः साधीयान् । इति दिक् । इवार्थः । वाऽथवा । वतिः। 'तदे' ति शेषः । श्रौती श्रूयत इति श्रुतिः, तया साक्षादेवोपलभ्यमानोपमानोपमेयसम्बन्धेति तथोक्ता । यत्र । सुल्यसमानाद्याः । आद्यपदेन समसदृशादीनां ग्रहणम् । वाऽथवा।तुल्यार्थस्तुल्यार्थे विहितः । वतिः। 'स'ति शेषः । आर्थी । अस्या आर्थत्वं च-पदार्थान्तरानुसन्धानापेक्षया प्रतीयमानोपमानोपमेयसम्बन्धवत्त्वात् । विश्वेश्वरोऽप्याह'स्यादिव यथाऽऽदियोगे वताविवपदार्थे च सा श्रौती । तुल्यादिकपदयोगे वतौ तदर्थेऽपि चार्थी सा ॥' इति । तथा च-यथाशब्दस्येवशब्दस्य वाशब्दस्य वशब्दस्य 'तत्र तस्येव ।' ५।१।११६ इत्यनेन सप्तमीसमर्थात् षष्ठीसमर्थाद्वा
हितस्य वतेवों योगे सेव पूणों श्रौतीति व्यपदिश्यते, यत्र तु तुल्यसमानसदृशादीनां 'तेन तुल्यं क्रिया चेद्वतिः ।' ५। १।११५ इत्यनेन वा तुल्यार्थे विहितस्य बतेश्च योग: साऽऽर्थीति व्यपदिश्यते इति निष्कर्षः ॥ ६९ ॥ ____ तदेव सुबोधयितुं सूत्रार्थ विशदयति-यथेववाऽऽदयः । आदिना 'व' इत्यस्य प्रहणम् । शब्दाः । उपमाना. नन्तरप्रयुक्ततुल्यादिपदखाधारणा उपमानस्योपमानभूतपदस्यानन्तरं परं प्रयुक्तं यत् तुल्यादिपदं तस्य साधारणाः सदृशाः । अपि । श्रुतिमात्रेण स्वोपलब्धिमात्रेण । उपमानोपमेयगतसादृश्यलक्षणसम्बन्धमुपमानोपमेययो. गतं यत्सादृश्यं तदेव लक्षणं यस्य तादृशो यः सम्वन्धस्तं तथोक्तम् । बोधयन्ति ज्ञापयन्ति । इति अस्मात् कारणात् । तत्सद्भावे तेषां यथेववावशब्दानां सद्भावस्तस्मिन् सति । श्रौती । उपमा। तदेव विवृतिकारा अप्याहुः-'यद्यपि यथाऽऽदयः शब्दा उपमानवाचकात् पदात् परं प्रयुज्यमानस्य तुल्यादिपदस्य साधारणाः (तदुपमानोपमेयगतसाधर्म्यबो. धकाः ), तथापि श्रुतिमात्रेण स्वोपलब्धिमात्रेण नतु पदार्थान्तरानुसन्धानापेक्षयोपमानोपमेयवृत्तिसाधय बोधयन्तीति हेतोस्तेषां यथाऽऽदिशब्दानां सद्भावे (प्रयोगे ) श्रौती उपमेत्यर्थः । अव्ययानामन्विताभिधानस्वीकारात् यथा-'घटो न पटः' इत्यादौ नजपदं पदार्थोपस्थितिमन्तरेणैव पदार्थोपस्थितेः प्रागेव समभिव्याहृतपदार्थयोरन्वितं भेदं बोधयति, तथा-'कमलमिव मुखम्' इत्यादाविवादिपदमपि श्रवणमात्रेण समभिव्याहृतपदार्थयोरन्वितं साधर्म्य बोधयति । अन्विताभिधानवादिमते हि-अखण्डवाक्यस्याखण्डवाक्याथै शक्तिरेकाऽतिरिक्ता कल्प्यते, प्रथमं तयैव वाक्यार्थबोधो जायते, पश्चात् शक्त्या लक्षणया वा प्रत्येकपदार्थोपस्थितिरिति भावः। अव्ययानामभिहितान्वयाङ्गीकारेऽपि अव्ययातिरिक्तनामार्थयो-- रभेदातिरिक्तसम्बन्धेन साक्षादन्वयास्वीकारादव्ययार्थस्य नामार्थेन साक्षादेवान्वयः सम्भवतीत्यव्ययपदेनोपमानोपमेयभावेऽपि साधारणधर्मोपस्थापनेन विभक्त्यर्थप्रतिसन्धानापेक्षेति बोध्यम् ।' इति । 'चन्द्रवद् दृशि ते सुधा।' इत्यादावप्येषैवेत्याह