________________
परिच्छेदः ]
रुचिराख्यया व्याख्यया समेतः।
-'तत्र तस्येव ।' ५।१२११६ इत्यनेनेवाथै विहितस्य वरुपादाने। तुल्यादयस्तु-'कमलेन तुल्यं मुखम्' इत्यादावुपमेय एव, 'कमलं मुखस्य तुल्यम्' इत्यादावुपमान एव, 'कमलं मुखं च तुल्यम्' इत्यादावभयत्रापि विश्राम्यन्तीत्यर्थानसन्धानादेव साम्यं प्रतिपादयन्तीति तत्सतावे आर्थी। एवं-'तेन तुल्यं क्रिया चेदतिः।' ५।१।११५ इत्यनेन तुल्यार्थे विहितस्य वरुपादाने ।
८० दे तद्धिते समासेऽथ वाक्ये दे श्रौती आर्थी च । उदाहरणम्
'सौरभमम्भोरुहवन्मुखस्य कुम्भाविव स्तनौ पीनौ।। हृदयं मदयति वदनं तव शरदिन्दुर्यथा बाले ! ॥ ८९॥'
-एवं यथा यथाऽदिपदानामुपादाने तथा । 'तत्र तस्येव ।५।१।११६ इत्यनेन 'सप्तमीसमर्थात् षष्ठीसमर्थाच्च इवार्थे वतिप्रत्ययो भवतीत्यर्थकेन सूत्रेण । इवाथै उपमाऽर्थे । विहितस्य प्रतिपादितस्य । वतेः। उपादाने ।
अपि' इति शेषः । 'श्रौत्युपमे' ति पूर्वतोऽन्वेति । तथा च-'पद्मवत्त्वन्मुखे कान्ते ! भान्ति...' 'चन्द्रवत्त्वन्मुखस्यापि सुषमा सुभगा सदा' इत्यादौ च क्रमेण सप्तम्यन्तात् पद्मशब्दात्, षष्ठयन्ताच्चन्द्रशब्दाच विहितौ वतिप्रत्ययौ पद्म इव चन्द्रस्येवेत्यर्थ चावगमयतः । इति निष्कृष्टोऽर्थः । नमु तुल्यादीनामपि योगे तर्हि श्रौत्येव किन्न भवेत् ? इत्याश
याह-तल्यादयः। 'शब्दा' इति शेषः । आदिना-समानादीनां प्रहणम् । तु । 'कमलेन । तुल्यं सदृशमित्यर्थः । मुखम् । 'सुभगाया' इति शेषः ।' इत्यादौ । उपमेये मुखादिपदार्थे । एव । 'न तूपमाने' इति शेषः । 'अपि विश्राम्यन्ती' ति परेणानुषज्यते । 'कमलम् । मुखस्य 'कान्ताया' इति शेषः । तुल्यम्।' इत्यादौ। उपमाने कमलादिपदार्थे । एव 'न तूपमेये' इति शेषः । 'अपि विश्राम्यन्ती' ति परतोऽनुषज्यते । 'कमलम् । मुखं कान्तामुखम् । च । तुल्यम् ।' इत्यादौ । उभयत्रोपमेये उपमाने च कमलादौ मुखादौ चेति यावत् । अपि । विश्राम्यन्ति व्याप्रियन्ते । इति अतः कारणात् । अर्थानुसन्धानात षष्ठयाद्यर्थानुसन्धानमाश्रित्य । एक सादृश्यमपमेयादिना साधर्म्यमिति यावत् । प्रतिपादयन्ति बोधयन्ति । इति । तत्सदावे तुल्यादिशब्दानामुपस्थितौ । आर्थी । अयम्भावः-उपमानोपमेययोः साधारणधर्मसम्बन्धरूपाया उपमायाः शाब्दबोधविषयत्वं श्रौतत्वम् , उपमानोपमेययोः साधारणधर्मसम्बन्धरूपायाश्च तस्या आर्थबोधविषयत्वमार्थत्वम्, अत एव-श्रौत्यां तस्यां यथेवादीनामुपलब्ध्यनन्तरमेवोपमानोपमेययोः साधारणधर्मसम्बन्धावगमः । आर्थो पुनः षष्ठयाद्यर्थानुसन्धानोत्तरम् । इति । 'मधुरः सुधावदधरः' इत्यादावप्यस्या एव आर्थ्याः सद्भावमुदाहतुकामस्तावत् तत्सङ्गतिं दर्शयति-एवम् । तेन तय क्रिया चेदतिः। ५।।११५ इत्यनेन तृतीयासमर्थात् तुल्यमित्यर्थे वतिः प्रत्ययो भवति, यत्तुल्यं क्रिया चेत् सा भवतीत्यर्थकेन सूत्रेण । तुल्यार्थे । विहितस्य । वतेः। उपादाने 'आर्थी' ति शेषः । एवं च-पूर्णोपमा श्रौत्यार्थी चेति दिभेदा, तत्राद्या यथेवादिप्रयोगे इवार्थस्य वतेोपादाने, अन्या पुनः तुल्यादीनां शब्दानां तुल्यार्थ वा विहितस्य वरुपादाने । इति निष्कृष्टोऽर्थः ।।
एवं द्विविधाया अस्याः प्रत्येक तद्धितसमासवाक्यगतत्वेन त्रैविध्यं व्यवस्थापयन् पड़िधत्वं निर्दिशति-८० वे इत्यादिना ।
८० डे श्रौती आर्थी चेति द्विविधा पूर्णोपमेत्यर्थः । तद्धिते । समासे । अथ । वाक्ये 'सम्भवति तस्मात्तयोः प्रत्येक त्रैविध्यमि' ति शेषः ।
सन्देहापनयनाय-द्वे इति सूत्रस्थं पदं व्याचष्टे-ढे इत्यादिना। स्पष्टम् । ते चोदाहर्तकाम आह-उदाहरणं 'तयोः क्रमेण यथे' ति शेषः । 'सौरभ'मित्यादि।
हे बाले। तव । मुखस्य । अम्भोरुहवत् अम्भोरुहं कमलं तस्येवेत्यर्थः । सौरभम् । तष-स्तमौ कुचौ। कुम्भाविध कलशाविव । पीनौ पुष्टौ । तव-वदनं मुखम् । यथा । शरन्दिन्दुः शारदश्चन्दः । तथेलि शेषः ।