Book Title: Sahitya Darpan Nam Alankar Sandarbh
Author(s): Vishvanathak Viraj, Shivdutta Kavi
Publisher: Kshemraj Krushnadas Shreshthi

View full book text
Previous | Next

Page 743
________________ परिच्छेदः ] रुचिराख्यया व्याख्यया समेतः । ७७ साम्यं वाच्यमवैधर्म्यं वाक्यैक्य उपमा द्वयोः ॥ ६७ ॥ १६५ ७७ वाक्यैक्ये वाक्यस्यैकत्वे एकस्मिन् वाक्ये सतीति यावत् । द्वयोः प्रसिद्धयोरुपमानोपमेययो: । अवैधर्म्य विरुद्धधम्मक्तिशून्यम् । वाच्यमभिधया प्रतिपाद्यम् । साम्यं साधर्म्यम् । उपमा तन्नामाऽर्थाङ्कारः । एकवाक्यगतत्वे सति प्रसिद्धोपमानोपमेययोर्वैधर्म्याविषयमेवादिपदवाच्यं यत् साधर्म्य तदुपमेत्यर्थः । तत्र एकवाक्यगतत्वे सतीत्यनेन 'गिरिरिव गजराजोऽयं गजराज इवोच्चकैर्विभाति गिरिः । निर्झर इव मदधारा मदधारेवास्य निर्झरः स्रवति ॥ ' इत्यादेर्व्यवच्छेदः । एकपदं च वाक्यान्तरव्यावर्त्तकं, न तु एकपदव्यावर्त्तकं, तेन 'शशिमुखी' त्यादावेकपदत्वेऽप्येषा । प्रसिद्धेत्यनेन "सरसीयं सुभगेव स्फुरति च लावण्यवल्लभं सलिलम् । वदनमिवाम्भः प्रभवं शफरीनयने यथा तथा यस्याः ॥' इत्यादेः, उपमानोपमेस्यनेन “वदनमिवास्या वदनं नयने नयने इवाद्भुते स्फुरतः । लावण्यमिवाङ्गानां लावण्यं वाऽपि सन्नद्धम् ॥" इत्यादेः, वैधये विषय मित्यनेन 'अमृतनिधानं सहसा सन्तापप्रशमकर्म्मणि प्रथितम् । शशिमण्डलमिव वदनं तन्निशि चेदं दिवाऽपि ते सुमुखि । इत्यादेः, वाच्यमित्यनेन 'अपि सुभगे तव वदनं श्यामान् केशान् दधानमालोक्य । मुग्धा अमी चकोरा हन्त विलोकय कथन्नु नृत्यन्ति ||" इत्यादेवेति बोद्धव्यम् । अथ उपमानं नाम सादृश्यप्रतियोगि, उपमेयं पुनः सादृश्यानुयोगिते एव 'साधारणधवत्त्वेन सिद्धः पदार्थ उपमानम्, तद्धर्म्मवत्तया कविसंरम्भगोचर उपमेयम् इति, 'उत्कृष्टगुणवत्तयसम्भाव्यमानमुपमानम्, अपकृष्टगुणवत्तया सम्भाव्यमानमुपमेयम्' इति' 'उत्कृष्टगुणवत्तया प्रसिद्धमुपमानम्, अपकृष्टगुणवत्तय, प्रसिद्धं चोपमेयम्' इति चान्ये आहुः । उपमानोपमेययोरनुगतो धर्म्मः साधर्म्यम्, साम्यं सादृश्यं साधारणो धर्म इत्यन, र्थान्तरम् । तथा च 'अम्बुजमित्र तव वदनं विकसति मित्रावलोकनं यावत् । मधुपानां स्पृहणीयं विमुखं दोषाकरीयरुः ॥ इत्यादौ स्फुटमुपमा अम्बुजवदनयोरुपमानोपमेययोर्विकसत्त्वादिरूपस्य साम्यस्येवादिपदवाच्यत्वात् इयं च - "उप मैका शैलूषी सम्प्राप्ता चित्रभूमिकाभेदान् । रञ्जयति काव्यरङ्गे नृत्यन्ती तद्विदां चेतः ॥" इत्युक्तदिशा 'वदनं वदनमिव' 'कमलमिव वदनं वदनमिव कवलम्' 'कमलमवलोक्य वदनं स्मरामि', 'वदनमेव कमलम्' 'वदनकमलेन मधुप उन्माद्यते ' ' किमिदं वदनम् उत कमलम्' 'वदनं विलोक्य मधुपा अनुनयन्ते,' 'कमलमिति मधुपाः, सुधानिधिरिति चकोरास्तव वदने रज्यन्ति' 'कमलमिदं न वदनम्' 'वदनमिदं न कमलम्', 'कमलमिदम्', ' वदनेन ते शशिकमले विजिते', 'मित्रं दृष्ट्रा त्वद्वदनं कमलं च हृष्यति', 'त्वद्वदन एवाहं रज्यामि, कमले एवं मधुपो रज्यति', 'सलिले कमलम्, स्थले त्वद्वदनम्', 'मित्रमण्डलं त्वद्वदनस्य विकाशकम्', 'त्वद्वदनं कमलं च सदा ss (s) लिंगणं मोदयतः', 'त्वद्वदनस्य पुरः कमलं न किञ्चित्' इत्यनन्वयो - पमेयोपमास्मरण - रूपक - परिणामस न्देह - भ्रान्तिम- दुलेखा - पहुति - निश्चयोत्प्रेक्षाऽ- तिशयोक्ति- तुल्ययोगिता - दीपक - प्रतिवस्तूपमा दृष्टान्त - निदर्शना-व्यतिरेक-सहोक्ति-समासोक्ति - परिकर - श्लेषा - प्रस्तुतप्रशंसादीनामभिनयं दर्शयन्ती सहृदयहृदयमनुरञ्जयन्तीत्येका सर्वेष्वर्थालङ्कारान्तरेषु प्रधानभूताsत एवं प्रथमं निरूपणीया, अस्याश्च 'सरखी - न्दुकलाऽम्भोजदम-काञ्चनवल्लरी | स्वर्णयष्टि-स्तडि - दीपज्वालाश्च योषितः समाः ॥ रोचना कनकं विद्युद्धरिद्रा च वराटकः । हेमकेतक - चाम्पेयौ रम्भा - चास्यास्तनूसमाः ॥ तमो- जीमूत - शैवाल - बर्ह - नीलाश्मचामरैः । इन्दीवरार्कजाबीचि - मधुपैश्च कचः समः ॥ अर्द्धचन्द्रो हेमपस्तथा भालस्य साम्ययुक् । वल्ली -स्मरधनु- वचिभृङ्गाली - पलवा भ्रुवोः ॥ चन्द्रादशौ कपोलस्य, मुखस्येन्द्वजदर्पणाः । तिलपुष्पं च नासायाः, कम्बोः कण्ठः स्मृतस्तथा ॥ अब्ज - तत्पत्र - शफरी - मृग - तन्नेत्रखञ्जनैः । नेत्रं चकोर - तन्नेत्र - केतकालि - स्मराशुगैः ॥ प्रवाल- बिम्ब- बन्धूकपल्लवैरधरोष्ठकौ । मुक्ता माणिक्य - नारङ्गकुन्ददाडिमको रकैः ॥ ताराचन्द्रकरैर्दन्ता वाग्घंसशुककिन्नरैः । वीणावेणुमृदङ्गैस्तु पिकेन स्वरसौभगम् ॥ विसवल्ली मृणालैव वाहुः पाणिस्तु पङ्कजैः । प्रवालपवाभ्यां च नखास्त्विन्दुकलासमाः ॥ कुन्दकोरकतुल्याश्च वर्ण्याः सहृदयोत्तमैः ॥ पूगाजतत्कोरकवित्वतालगुच्छेभकुभाचलकुम्भचकैः । सौवीरजम्बीरकबीजपूरसमुद्रछोलङ्गफलैरुरोजः ॥ नाभी रसातला वत्तैहदकूपनदादिभिः । वली तटिन्या तदूपैः पृष्टं काञ्चनपकैः ॥ सूच्यग्रतलशून्याणुत्रेदिसिंहादिभिः समः । मुष्टिग्राह्यो भवेन्मध्यो जघनं पुलिनोपमम् ॥ पीटप्रस्तरभूचकैर्नितम्बः परिवर्ण्यते । ऊहस्तु हस्तिहस्तेन कदल्या करभेण च ॥ चरणः पल्वाम्भोजस्थलपद्मप्रवालकैः । पूर्णेन्दु

Loading...

Page Navigation
1 ... 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910