Book Title: Sahitya Darpan Nam Alankar Sandarbh
Author(s): Vishvanathak Viraj, Shivdutta Kavi
Publisher: Kshemraj Krushnadas Shreshthi

View full book text
Previous | Next

Page 750
________________ साहित्यदर्पणः। [दशमः उदाहरणम्'मुखमिन्दुर्यथा पाणिः पल्लवेन समः प्रिये । वाचः सुधा इवोष्ठस्ते बिम्बतुल्यो, मनोऽश्मवत् ॥९१॥' श्रोत्यास्तद्धितेऽसम्भवात् पञ्चविधात्वमेवावस्थितम् । तथा च-लुप्तोपमेयं धर्मलोपे श्रौती समासगता वाक्यगता चेति द्विधा, आर्थी पुनः तद्धितसमासवाक्यगतत्वेन विधेति पञ्चविधेति निष्कृष्टोऽर्थः ॥७१॥ विस्तरभयादाह-उदाहरणम् । 'यथे'ति शेषः । 'हे प्रिये ! यथा। इन्दुः 'तथे ति शेषः। ते तव । मुखम् । ' एवं परस्तादपि । 'भाती'ति शेषः । पल्लवेन किसलयेन नवपत्रेणेति यावत् । समः सदृशः । तव-पाणिः । 'पाणी पल्लवाभ्यां समौ' इति पाठः साधीयान् । 'कोमलौ' इति शेषः । सुधा इव । तव-वाचः। 'मधुरा' इति शेषः। बिम्बसुल्यो बिम्बफलसदृशः । तव-ओष्ठोऽधरः। 'रक्त'इति शेषः । अश्मवदामना पाषाणेन तुल्यम् । तव-मनः कठिन मिति शेषः । इदम्बोध्यम्-'मुखमिन्दुर्यथे' त्यत्र मुखमुपमेयम्, इन्दुरुपमानम्, यथा धर्मवाचकम्, उपमानोपमेययोश्चाहादकत्वाद्य नुगतं मानस्य च साधारणधर्मस्यानुपादानम्, तस्मात् धर्मलोपः, यथापदस्य चासमस्तत्वाद्वाक्यगतात्वमस्याः। 'पाणिः पल्लवेन समः' इत्यत्र पाणिरुपमेयम्, पल्लव उपमानम्, समश्च धर्मवाचकः, कोमलत्वरूपस्य धर्मस्य चानुपादानात् समपदेन च समासाभावाद्वाक्यगता धर्मलुप्ताऽऽर्थी । 'वाचः सुधा इवे' त्यत्र वागुपमेयम् , सुधोपमानम्, इव च धर्मवाचकम् ,तस्य च पूर्वपदेन समस्तत्वात् माधुर्यधर्मस्य चानुपादानात्समासगा धर्मलुप्ता श्रौती। 'ओष्ठस्ते बिम्बतुल्यः' इत्यत्रौष्ठ उपमेयम्, बिम्बमुपमानम्, तुल्यपदं च तेन समस्यमानं धर्मवाचकम्, रक्तिमरूपस्य धर्मस्य चानुपादाममिति समासगता धर्मलुप्ता ऽऽर्थी । 'मनोऽश्मव'दित्यत्र 'मन उपमेयम्, अश्मोपमानम्, तुल्यार्थो वतिश्च धर्मवाचकः, तस्य च तद्धितीयत्वात् तद्धितगा धर्मस्य च काठिन्यस्यानुपादानात् धर्मलुप्ताऽऽथीं । इति । श्लोकश्छन्दः ॥९१ ॥" यथा वा-"धन्यस्यानन्यसामान्यसौजन्योत्कर्षशालिनः । करणीय वचश्वेतःसत्यं तस्यामृतं यथा' इत्यत्र वाक्यगा श्रौती धर्मलुप्ता, "आकृष्टकरवालोऽसौ साम्पराये परिभ्रमन् । प्रत्यर्थिसेनया दृष्टः कृतान्तेन समः प्रभुः ॥" इत्यत्र वाक्यगा धर्मलुप्ताऽऽर्थी । “लद्धा सादेणचिरं सुरवंदिपरिग्गहे णिसाअरवणा।सीआ रक्खसवसई दिठिविसघरं विसोसहि ब्व उपणीआ॥" इत्यत्र समासगा धर्मलुप्ता श्रौती । “अग्घाइ छिवइ चुंबइ ठवेइ हिअअंमि जणिअरोमंचो। जाआकवीलसारसाइ पहिउ महुअउप्फोइं॥" इत्यत्र समासगा धर्मलुप्ताऽऽर्थी । "मुखममृतद्युतिकल्पं कपोलदेशो मुकुरदेश्यः । तस्या दशा:विलासाः कुवलयदलदामदेशीयाः ॥” इत्यत्र तद्धितगा धर्मलप्तार्थी । अत्र कौस्तुभकारा:-"ननु तद्धिते धर्मलुप्ता श्रौती कुतो नोच्यते इति चेत्, न । 'तत्र तस्येव'। ५। १। ११६ इति सूत्रेण विहितस्य वतेः प्रयोगे हि श्रौती सम्भवति न च धर्मलोपः सम्भवति,उपमेये उपमानसम्बन्धबोधकस्य तस्य साधारणधर्मप्रयोग विनाऽनुपपत्तेः। न हि 'मधुरायामिव सुघ्ने प्राकार' इति सम्भवति, सप्तम्यर्थाद्यनन्वयापत्तेः । किन्तु मधुरावत् सुन्ने इत्येव । तस्मात् षष्ठयर्थसम्बन्धविशेषणस्य सप्तम्यर्थाधारत्वविशेषणस्य साधारणथर्मरूपस्य प्रयोग विना इवार्थवतेरसम्भवान्न तद्धिते श्रौती धर्मलुप्ता । ननु मा । भूदिवार्थकवतियोगे धर्मलुप्ता श्रौती, तथाऽपि-इवार्थकतद्धितान्तरे सा दुरा । तथा हि-'इवे प्रतिकृतौ ॥' ५।३।९६। इत्यधिकारे कुशाग्राच्छः ।' ५। ३। १०५ इति सूत्रेण कुशाग्रमिवेति कुशाग्रीया बुद्धिरित्यत्र छप्रत्ययविधानेन एतादृश' स्थले तत्सम्भवात् इति चेत् ! अत्राहुः-'इवे प्रतिकृतौ'। ५।३ । ९६ इत्यधिकारे विहिताः प्रत्ययास्तुल्यार्था एव । 'कुशाग्रतुल्या बुद्धिरित्यभेदान्वयदर्शनात् तस्य सादृश्यमात्रार्थत्वे तद्वत् परत्वाभावेन उपमेयसामानाधिकरण्यासम्भवात् । न च इवार्थे तद्विधानेन तदविरोधादिति । अथ सादृश्यादिपदप्रयोगे श्रौत्यार्थी वा यथा-"परस्पराक्षिसादृश्यमदूरोज्झितवर्त्मसु । मृगद्वन्द्वेषु पश्यन्तौ स्यन्दनाबद्धदृष्टिषु ॥” इत्यादाविति चेत् ! अत्र दीक्षिताः । "श्रौत्येवेयम्, ध्यन्प्रत्यय. प्रकृतिभुतेन सदृशशब्देन सादृश्यवदभिधानेऽपि भावप्रत्ययस्य प्रकृत्यर्थताऽवच्छेदकशक्ततया तदुक्तसादृश्यस्यैव वाक्यार्था १ "लब्धा स्वादेन चिरं सुरवन्दीपरिग्रहे निशाचरपतिना। सीता राक्षसवसतिं दृष्टिविषग्रहं विषौषधीवोपनीता॥" इति संस्कृतम् २ 'आजिघ्रति स्पृशति चुम्बति स्थापयति हृदये जनितरोमाञ्चः । जायाकपोलसदृशानि पथिको मधुक पुष्पाणि ॥' इति संस्कृतम् ।

Loading...

Page Navigation
1 ... 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910