________________
साहित्यदर्पणः।
[दशमः
उदाहरणम्'मुखमिन्दुर्यथा पाणिः पल्लवेन समः प्रिये । वाचः सुधा इवोष्ठस्ते बिम्बतुल्यो, मनोऽश्मवत् ॥९१॥'
श्रोत्यास्तद्धितेऽसम्भवात् पञ्चविधात्वमेवावस्थितम् । तथा च-लुप्तोपमेयं धर्मलोपे श्रौती समासगता वाक्यगता चेति द्विधा, आर्थी पुनः तद्धितसमासवाक्यगतत्वेन विधेति पञ्चविधेति निष्कृष्टोऽर्थः ॥७१॥
विस्तरभयादाह-उदाहरणम् । 'यथे'ति शेषः । 'हे प्रिये ! यथा। इन्दुः 'तथे ति शेषः। ते तव । मुखम् । ' एवं परस्तादपि । 'भाती'ति शेषः । पल्लवेन किसलयेन नवपत्रेणेति यावत् । समः सदृशः । तव-पाणिः । 'पाणी पल्लवाभ्यां समौ' इति पाठः साधीयान् । 'कोमलौ' इति शेषः । सुधा इव । तव-वाचः। 'मधुरा' इति शेषः। बिम्बसुल्यो बिम्बफलसदृशः । तव-ओष्ठोऽधरः। 'रक्त'इति शेषः । अश्मवदामना पाषाणेन तुल्यम् । तव-मनः कठिन मिति शेषः । इदम्बोध्यम्-'मुखमिन्दुर्यथे' त्यत्र मुखमुपमेयम्, इन्दुरुपमानम्, यथा धर्मवाचकम्, उपमानोपमेययोश्चाहादकत्वाद्य नुगतं मानस्य च साधारणधर्मस्यानुपादानम्, तस्मात् धर्मलोपः, यथापदस्य चासमस्तत्वाद्वाक्यगतात्वमस्याः। 'पाणिः पल्लवेन समः' इत्यत्र पाणिरुपमेयम्, पल्लव उपमानम्, समश्च धर्मवाचकः, कोमलत्वरूपस्य धर्मस्य चानुपादानात् समपदेन च समासाभावाद्वाक्यगता धर्मलुप्ताऽऽर्थी । 'वाचः सुधा इवे' त्यत्र वागुपमेयम् , सुधोपमानम्, इव च धर्मवाचकम् ,तस्य च पूर्वपदेन समस्तत्वात् माधुर्यधर्मस्य चानुपादानात्समासगा धर्मलुप्ता श्रौती। 'ओष्ठस्ते बिम्बतुल्यः' इत्यत्रौष्ठ उपमेयम्, बिम्बमुपमानम्, तुल्यपदं च तेन समस्यमानं धर्मवाचकम्, रक्तिमरूपस्य धर्मस्य चानुपादाममिति समासगता धर्मलुप्ता ऽऽर्थी । 'मनोऽश्मव'दित्यत्र 'मन उपमेयम्, अश्मोपमानम्, तुल्यार्थो वतिश्च धर्मवाचकः, तस्य च तद्धितीयत्वात् तद्धितगा धर्मस्य च काठिन्यस्यानुपादानात् धर्मलुप्ताऽऽथीं । इति । श्लोकश्छन्दः ॥९१ ॥"
यथा वा-"धन्यस्यानन्यसामान्यसौजन्योत्कर्षशालिनः । करणीय वचश्वेतःसत्यं तस्यामृतं यथा' इत्यत्र वाक्यगा श्रौती धर्मलुप्ता, "आकृष्टकरवालोऽसौ साम्पराये परिभ्रमन् । प्रत्यर्थिसेनया दृष्टः कृतान्तेन समः प्रभुः ॥" इत्यत्र वाक्यगा धर्मलुप्ताऽऽर्थी । “लद्धा सादेणचिरं सुरवंदिपरिग्गहे णिसाअरवणा।सीआ रक्खसवसई दिठिविसघरं विसोसहि ब्व उपणीआ॥" इत्यत्र समासगा धर्मलुप्ता श्रौती । “अग्घाइ छिवइ चुंबइ ठवेइ हिअअंमि जणिअरोमंचो। जाआकवीलसारसाइ पहिउ महुअउप्फोइं॥" इत्यत्र समासगा धर्मलुप्ताऽऽर्थी । "मुखममृतद्युतिकल्पं कपोलदेशो मुकुरदेश्यः । तस्या दशा:विलासाः कुवलयदलदामदेशीयाः ॥” इत्यत्र तद्धितगा धर्मलप्तार्थी । अत्र कौस्तुभकारा:-"ननु तद्धिते धर्मलुप्ता श्रौती कुतो नोच्यते इति चेत्, न । 'तत्र तस्येव'। ५। १। ११६ इति सूत्रेण विहितस्य वतेः प्रयोगे हि श्रौती सम्भवति न च धर्मलोपः सम्भवति,उपमेये उपमानसम्बन्धबोधकस्य तस्य साधारणधर्मप्रयोग विनाऽनुपपत्तेः। न हि 'मधुरायामिव सुघ्ने प्राकार' इति सम्भवति, सप्तम्यर्थाद्यनन्वयापत्तेः । किन्तु मधुरावत् सुन्ने इत्येव । तस्मात् षष्ठयर्थसम्बन्धविशेषणस्य सप्तम्यर्थाधारत्वविशेषणस्य साधारणथर्मरूपस्य प्रयोग विना इवार्थवतेरसम्भवान्न तद्धिते श्रौती धर्मलुप्ता । ननु मा । भूदिवार्थकवतियोगे धर्मलुप्ता श्रौती, तथाऽपि-इवार्थकतद्धितान्तरे सा दुरा । तथा हि-'इवे प्रतिकृतौ ॥' ५।३।९६। इत्यधिकारे कुशाग्राच्छः ।' ५। ३। १०५ इति सूत्रेण कुशाग्रमिवेति कुशाग्रीया बुद्धिरित्यत्र छप्रत्ययविधानेन एतादृश' स्थले तत्सम्भवात् इति चेत् ! अत्राहुः-'इवे प्रतिकृतौ'। ५।३ । ९६ इत्यधिकारे विहिताः प्रत्ययास्तुल्यार्था एव । 'कुशाग्रतुल्या बुद्धिरित्यभेदान्वयदर्शनात् तस्य सादृश्यमात्रार्थत्वे तद्वत् परत्वाभावेन उपमेयसामानाधिकरण्यासम्भवात् । न च इवार्थे तद्विधानेन तदविरोधादिति । अथ सादृश्यादिपदप्रयोगे श्रौत्यार्थी वा यथा-"परस्पराक्षिसादृश्यमदूरोज्झितवर्त्मसु । मृगद्वन्द्वेषु पश्यन्तौ स्यन्दनाबद्धदृष्टिषु ॥” इत्यादाविति चेत् ! अत्र दीक्षिताः । "श्रौत्येवेयम्, ध्यन्प्रत्यय. प्रकृतिभुतेन सदृशशब्देन सादृश्यवदभिधानेऽपि भावप्रत्ययस्य प्रकृत्यर्थताऽवच्छेदकशक्ततया तदुक्तसादृश्यस्यैव वाक्यार्था
१ "लब्धा स्वादेन चिरं सुरवन्दीपरिग्रहे निशाचरपतिना। सीता राक्षसवसतिं दृष्टिविषग्रहं विषौषधीवोपनीता॥" इति संस्कृतम् २ 'आजिघ्रति स्पृशति चुम्बति स्थापयति हृदये जनितरोमाञ्चः । जायाकपोलसदृशानि पथिको मधुक पुष्पाणि ॥' इति संस्कृतम् ।