________________
परिच्छेदः]
रुचिराख्यया व्याख्या समेतः। ८४ आधारकर्मविहिते द्विविधे च क्यचि क्यङि ।
कर्मकोंर्णमुलि च स्यादेवं पञ्चधा पुनः ॥ ७२ ॥
न्वयित्वादि"त्याहुः । न्यायपञ्चाननादयस्तु-'यत्पदार्थविशेषणस्योपमानत्वनियमस्तत्रैव श्रौती, इवादिविशेषणीभूतस्य चन्द्रादेरुपमानत्वनियमात् । सादृश्यादिपदविशेषणस्य च नोपमानत्वनियमः । 'चन्द्रसादृश्य'मित्यादौ तथात्वेऽपि'चन्द्रमुखयो:सादृश्य'मित्यादौ व्यभिचारात्' । इत्याहुः । तस्मात्-धर्मलुप्तायाः पञ्च भेदाः स्थिताः। अत्र दीक्षिताः द्विवेऽपि धम्मलुप्ता दृश्यते । यथा-पटुपटारेति । 'प्रकारे गुणवचनस्य । ८।१। १२ इति सूत्रेण सादृश्ये द्विर्भावविधानात् पटुसदृश इत्यर्थः । वस्तुतोऽपटावयं प्रयोगः, न चेयं वाक्यगा, 'कर्मधारयवदुत्तरेषु ।' ८।१।८१ इति सूत्रेण तत्रैकपद्यविधानात्, नापि समासगा, वास्तवसमासत्वाभावात् । इति, तन्न; आतिदेशिकसमाससाधारण्येनैवात्रोपमाविभागकरमेनातिदेशिककर्मधारयवद्भावेऽपि समासगायामेव तदन्तर्भावसत्त्वात् । अत एव-'पटुपटुरित्यादौ समासत्वप्रयुक्ताः, पुंवद्भावान्तोदात्तत्वादयोऽपि सिद्धयन्ति । केचित्तु ( रसगङ्गाधरकारादयस्तु ) 'वाचकधर्मलुप्तायामेतद्भेदस्याधिक्यम्, न तु केवलधर्मलुप्तायाम्, न चात्र द्विर्भावस्य सादृश्यवाचकस्य सत्त्वान्न वाचकलोप इति वाच्यम्, सादृश्ये द्योत्ये द्विर्भवत. इति दर्शनात्, द्विर्भावस्य वाचकताया भाष्यकैयटविरुद्धत्वात्' इत्याहुः। तन्न। द्योतकत्वेऽप्युभयलुप्तत्वासम्भवात् । अन्यथाइवादीनां द्योतकत्वपक्षे चन्द्र इवेत्यादावपि लुप्तोपमानत्वप्रसङ्गात् । पदान्तरेण तादृशार्थबोधे सहकारित्वरूपस्य द्योतकस्य सत्त्वे तद्वाचकत्वस्य पदान्तरे स्वीकारस्यावश्यकत्वाच्च । यदीयमेकलुप्ता, यदि वा द्विलुप्ता, उभयथाऽपि समासमध्येऽन्तभीवान्न दोषः । इति तत्त्वम् ।" इति । रसगङ्गाधरकारा एवमाहुः-"यच्चाप्यदीक्षितैरस्मिन्नेव प्रस्तावे "धर्मलुप्ता वाक्यसमासतद्धितेषु दर्शिता, द्विभावेऽपि दृश्यते । 'पटुपटुर्देवदत्त' इत्यत्र प्रकारे गुणवचनस्य ।'८1१1१२ इति सादृश्ये द्विर्भावविधानात् ।" इति निगदितं तत्तुच्छम् , अत्र च वाचकस्याप्यनुपादानाद्वाचकधर्मलुप्तायामेतदाधिक्यमुद्भावयितुमुचितम्, नतु धर्मलुप्तायाम्, धर्ममात्रलुप्ताया एव धर्मलुप्ताशब्देन तैर्विवक्षणात् । अन्यथा-एकलुप्तास्वेव द्विलुप्तानां त्रिलुप्तायाश्च ग्रहणात् पृथगुपादानमसम्बद्धमेव स्यात् । न चात्र वाचकस्य द्विर्भावस्यैव सत्त्वान्नास्ति लोपः, अपि तु धर्ममात्रस्येति वक्तु शक्यम्, द्विर्भावस्य सादृश्यत्वोक्तेभांष्यकैयटादिविरुद्धत्वात् । तदुक्तं कैयटेन-'प्रकारे गुणवचनस्य ।' ८।१।१२ इति सूत्रे सिद्धं त्विति प्रतीकमादाय 'द्विवचनस्य प्रकृतिः स्थानी इति तदर्थो विशिष्यते, न तु प्रकारः, तत्र सर्वस्य गुणवचनत्वाद्वयभिचाराभावात् । तद्रहणाद्गणवचनो यः शब्दो निर्घातस्तस्य सादृश्यद्योत्ये द्वे भवत इति सूत्रार्थः।' इति सूत्रार्थः । इति ।" ____ अत्र च नागेशभट्टा रसगङ्गाधरस्यैव मर्मप्रकाशाख्यायां व्याख्यायाम्, “सूत्रार्थ"इति प्रतीकमुपादायाहु:-"द्विर्भावस्य साहस्यद्योतकत्वेऽपि शक्तत्वरूपवाचकत्वाभावाद्वाचकलोप इति तव हृदयम् । तत्तु-इवादेोतकतानये 'चन्द्र इव मुख'मि. त्यत्र'चन्द्रसुहृन्मुख'मित्यत्र च वाचकलुप्ताव्यवहाराभावाय सादृश्यतद्विशिष्टान्यतरबोधकाभावस्यैव वाचकलुप्ताव्यवहारप्रयोजकत्वस्य वाच्यत्वेन द्योतकस्यापि बोधकत्वानपायेन नास्ति वाचकलोप इति तदाशयात् (अथ दीक्षिताभिप्रायात् ) अबोध.. लकमिति चिन्त्यमिदम् ।" इति ।।
पुनरन्यान् धर्मलुप्तायाः पञ्च भेदानिर्दिशति-८४आधारकर्मविहिते आधारोऽधिकरणं स च कर्म च ताभ्यां विहितस्तस्मिन् अधिकरणात् कर्मणश्च परस्तात् विहिते इत्यर्थः । अत एव-द्विविधे । च । क्यचि क्यच्प्रत्यये । अस्यैव 'ईय' इति सज्ञान्तरम् । तथा च-अधिकरणे क्यच् ( ईय ) प्रत्यये, कर्मक्यच् (ईय) प्रत्यये च सतीति निष्कृष्टोऽर्थः । क्यङि 'कर्तुर्विहिते' इति शेषः । अस्यैव 'आयी' ति सज्ञाऽन्तरम् । तथा च-कर्तुर्विहिते क्यति (आयि ) प्रत्यये सतीत्यर्थः । कर्मक!ः कर्म च कर्ता च तयोः, कर्मणि करि चेत्यर्थः । 'उपपदयोर्विहिते' इति शेषः । च । णमुलि । तथा च-कर्मकोंरुपपदयो: सतोर्विहिते णमुलि प्रत्यये चेत्यर्थः । एवम् इत्येवम् । पुनः । 'धर्मलुप्ता' इति पूर्वतोऽनुषज्यते । पञ्चधा पञ्चविधा । स्यात् ॥७२॥