________________
१७४
[ दशमः
साहित्यदर्पणः। 'धम्मलोपे लुप्ते ति अनुषज्यते । क्यचू-क्यङ्-णमुलः कलापमते णिण्णायिणमः । क्रमेणोदाहरणम्"अन्तःपुरीयसि रणेषु, सुतीयसि त्वं पौरंजन, तव सदा रमणीयते श्रीः । दृष्टः प्रियाभिरमृतातिदर्शमिन्द्रसञ्चारमत्र भुवि सञ्चरसि क्षितीश ॥"
इत्यत्र 'अन्तःपुरीयसी' त्यत्र सुखविहारास्पदत्वस्य, 'सुतीयसी' स्यत्र स्नेहनिर्भरत्वस्य च साधारणधर्मस्य लोपः। एवमन्यत्र ।
बोधसौकय्यार्य-किञ्चिदाह-'धर्मलोपे । लुप्ता धर्मलुप्तोपमेति भावः' इति 'पूर्वत' इति शेषः। अनुषज्यते । क्यचादीनां कलापमतानुसारेण सज्ञान्तरमाह-क्यच-क्या-णमुलः । 'ए' ति शेषः । कलापमते कलापव्याकरणसिद्धान्ते । णिण्णायिणमाणिण-णायि-णमः । 'इत्युच्यन्ते' इति शेषः । ।
उदाहर्त्तमाह-क्रमेण । उदाहरणम् । थथे' ति शेषः । 'हे क्षितीश क्षितेः पृथिव्या ईशस्तत्सम्बुद्धौ तथोक्त! पृथ्वीपते इति यावत् । त्वम् । रणेषु समरेषु प्रतिद्वन्द्वितयोपस्थितेषु वीरजनेविति यावत् । अन्तःपुरीयसि अन्तःपुरेऽबलागहेऽबलाजने इति यावत् इवाचरसीति भावः । 'उपमानादाचारे' ।३।१।१० इति सूत्रस्थेन 'अधिकरणाचेति वक्तव्यम्' इति वार्तिकेनोपमानवाचका दन्तःपुरे' इत्यधिकरणादाचारेऽर्थे क्यच् । तुल्यत्वमाचारश्च क्यच्प्रत्ययार्थः । आचारश्चात्राधिकरणत्वान्वययोग्यक्रिया । सा च-प्रकृते सञ्चाररूपा ग्राह्या । व्युत्पत्तिवैशिष्टयेन तुल्यतायाः प्रकृत्यर्थे आचारस्याख्यातार्थाऽन्वयः । तथा च-अन्तःपुरतुल्येषु रणेषु (अबलासदृशेषु वीरजनेषु मध्ये ) सञ्चारकर्तेत्यन्वयावगमः । पौरं पुरे प्रकृतिमण्डले भव इति तम् । 'तत्र भवः ।' ४।३।५३ इत्यण् । जनम् । सुतीयसि सुतमिवाचरसीति भावः । 'उपमानादाचारे।' ३।१।१० इति सत्रेणोपमानवाचकात् 'सुत' मिति कर्मपदादाचारेऽर्थे क्यच् । अत्र चाचारो मननम् , तथा च-प्रकृतिमण्डलं सुततुल्यं मन्यसे इति भावः । श्रीः सम्पद्राज्यलक्ष्मीरिति यावत् । सदा । तव । रमणीयते रमणीवाचरतीत्यर्थः । 'कतः क्यडू सलोपश्च ।।३।१।११ इति सूत्रेणोपमानवाचकात् 'रमणी'ति पदादाचारेऽर्थे क्यंङ् । क्यडो डिवादात्मनेपदम् । अत्राचारो वर्त्तनम् । तथा च-रमणीतुल्या श्रीवर्तत इति भावः । प्रियाभिः । अमृतातिदर्शममतद्युतिरिवेत्यर्थः । दृष्टः । 'उपमाने कर्मणि च ।' ३।४।३५ इति सूत्रेणोपमानवाचके 'अमृतधुति'मितिकर्मपदे उपपदे 'दृश्' धातो वे णमुल । 'कृन्मेजन्तः । १।१।३९ इति सूत्रेणाव्ययसञ्ज्ञा । 'कषादिषु यथाविध्यनुप्रयोगः ।' ३।४।४९ इति सूत्रेण'कषादिषु मध्ये यस्माद्धातोर्णमुल विहितस्स एव धातुरनुप्रयोक्तव्य' इति 'दृष्ट' इति 'दृश्' धातोरेवानुप्रयोगः । अत्र मनोज्ञत्वादिरूपः साधारणो धर्मः । दर्शनं चानुभवनम् । तथा च-अमृतद्युतितुल्यो मनोहरोऽनुभूत इति भावः । अवास्याम् । भुवि पृथ्व्याम्। इन्द्रसञ्चारम् इन्द्रः स्वर्गाधिष्ठाता स इवेत्यर्थः । सञ्चरसि । अत्रापि 'उपमाने कर्मणि च।' ॥४॥४५ इति सूत्रेण चकारानुवर्तिते उपमानवाचके 'इन्द्र' इति कर्तपदे उपपदे सम्पूर्वकाचरते वे णमुल् । स च 'तमर्थ सेसेनसेअमेनकसेकसेन....।' ३।४।९ इत्यादिसूत्रमहाभाष्यगतेन 'अव्ययकृतो भावे भवन्ति' इति वाक्येन भावे एव । सञ्चरणं चाप्रतिहतैश्वर्य्यतया वर्तनम् । तथा च-इन्द्रतुल्योऽप्रतिहतैश्चर्यों भूलोके सञ्चरसीति भावः । वसन्ततिलक वृत्तम् । अत्र विवृतिकारा:-"केचित्तु-'क्यचक्यडोरर्थ आचारः, तस्यात्र विद्यमानत्वात् धर्मलोपोदाहरणमेतन्न भवति ।' इत्याहः, तन्नः आचारस्य साधनत्वेऽपि प्रकृते सादृश्यहेतुत्वेन विवक्षणात्, उपदर्शितधर्माणां सादृश्यहेतत्वेन झटिति प्रतीयमानत्वात् 'चन्द्रायते शुक्रुचाऽपि हंस' इत्यादौ सत्यपि आचारे 'शुकरुचे' ति साधारणधर्मप्रयोगदर्शनाचाचारस्याख्यातार्यान्वितत्वेन निराकाङ्क्षतया क्यचक्यडोरर्थे सादृश्येऽभेदान्वयसम्भवेन सादृश्यहेतुत्वायोगाच्च ।' इति ॥ ९३ ॥"
ननु कस्मिन्नंशे को लुप्तो धर्म इत्याशङ्कयाह-इत्यत्र । 'अन्तः पुरीयसि' इत्यत्र 'अंशे' इति शेषः । सुख. विहारास्पदत्वस्य 'साधारणधर्मस्य लोप' इति परेणान्वयः । 'सुतीयसि' इत्यत्र । च । स्नेहनिर्भरत्वस्य । साधारणधर्मस्य । लोपः । एवम् । अन्यत्र रमणीयते' इत्यत्र अत्यन्ताधीनत्वस्य, उपभोगसाधनत्वस्य वा 'अमतातिदर्श' मित्यत्र मनोज्ञत्वादिरूपस्य, 'इन्द्रसञ्चार' मित्यत्र विभवातिशयत्वस्य च साधारणधर्मस्य लोप ऊह्यः इति भावः ।