________________
परिच्छेदः ] रुचिराख्यया व्याख्यया समेतः ।
१७५ इह च यथाऽदितुल्यादिविरहात् श्रौत्यादिविशेषचिन्ता नास्ति । इदं च-केचित् , औपम्यप्रतिपादकस्येवादेर्लोपमुदाहरन्ति । तदयुक्तम् । क्यच्क्यङादेरपि तदर्थविहितत्वेन औपम्यप्रतिपादकत्वात् । ननु क्यङादिषु सम्यगौपम्यप्रतीतिर्नास्ति, प्रत्ययत्वेन अस्वतन्त्रत्वाव, इवादिप्रयो. गाभावाच्च; इति वाच्यम्,कल्पवादावपि तथाप्रसङ्गात् । न च कल्पवातीनामिवादितुल्यतया औपम्य. स्य वाचकत्वम्, क्यजादीनां तु द्योतकत्वम् । इवादीनामपि वाचकत्वे निश्चयाभावात्, वाच.
यथा वा क्रमेण-"भूधरीयति पयोधरद्वये चन्द्रमस्यति मुखे तवाद्य दृक् । विद्रुमीयति रदच्छदान्तरे दर्पणीयति कपोलमण्डले ॥", "धर्मागमापगमकालसमुत्सुकानां हृमण्डली सपदि दण्डकबर्हियूनाम् । कादम्बिनीयति तनूं रथुनन्दनस्य सौदामिनीयति मुदा जनकेन्द्रजाताम् ॥", "चन्द्रश्चण्डकरायते, मृदुगतिर्वातोऽपि वज्रायते, माल्यं सूचिकुलायते, मलयजालेपः स्फुलिङ्गायते । आलोकं स्तिमितायते, विधिवशात् प्राणोऽपि भारायते, हा हन्त प्रमदावियोगसमय: संहारकालायते॥', "सांवर्तिकतीक्ष्णद्यतिदर्श पश्यति सुधाकरं बाला । विरहेण निधिविधायं निदधाति स्तनगतं नखाई ते ॥" "त्वद्विप्रयोगदहनज्वरदह्यमाने ये ये गुणा हृदि वसन्ति पुरो मृगाक्ष्याः । ते वह्निमध्यविलसद्विसतन्तुनाशं नष्टत्रपाधृतिवि. वेकमुखाः समस्ताः ॥” इत्यादि।
ननु लुप्तायाः श्रौत्यार्थीत्वात् अत्र का नौती का वाऽऽर्थीत्याशङ्कयाह-इह 'अन्तःपुरीयती'त्यादौ । च यथाssदितुल्यादिविरहात् । श्रौत्यादिविशेषचिन्ता श्रौतीयमार्थीयमिति विभज्य प्रदर्शनविचारः । न । अस्ति 'अनतिप्रयोजनीयत्वात् ।' इति शेषः । 'वस्तुतस्तु-यथा तुल्यार्थविहितस्य वोंगे आर्थीत्वम्, तथाऽत्रापि तुल्यार्थविहितक्यचक्यडोयेंगे आर्थीत्वम् ।' इति च विवृतिकाराः । ननु 'वादेलोपे समासे सा काधारक्यचि क्यङि । कर्मकोंर्णमुलि' इत्युक्तदिशाऽत्र वाचकलुप्तैव गदितुं योग्या, कथं पुनस्त्वया धर्मलुप्ता गदितेत्याशङ्कयोत्तरयितुमाह-इदं चेत्यादि ।
केचित् काव्यप्रकाशकारादय इति भावः । इदम् 'अन्तःपुरीयती'त्युदाहरणम् । च । औपम्यप्रतिपादकस्य। इवादेः। लोपम् । उदाहरन्त्याहुः । तत् । अयुक्तंन युक्तिसङ्गतम् । कुत इत्याशङ्कयाह क्यचक्यङादेः । आदिपदेन णमुलो ग्रहणम् । अपि । तदर्थविहितत्वेन तुल्याद्यर्थे विधानात् । औपम्यप्रतिपादकत्वात् प्रतिपाद. नात् । अयम्भावः-'अन्तःपुरीयसी त्यत्र यथा धर्मलुप्तोदाहृता, तथैव एतस्यैव च्छायाभूते "पोरं सुतीयति जनं, समरान्तरेऽसावन्तः पुरीयति विचित्रचारित्रचञ्चुः । नारीयते समरसीम्नि कृपाणपाणेरालोक्य तस्य चरितानि सपत्नसेना ॥" इत्यादौ वाचकोपमा काव्यप्रकाशकारैरुदाहृता, तदुदाहरणं च न युक्तम्, यथा आर्थ्यां पूर्णोपमायां समादियोगे न वाचकलुप्तात्वम्, तथैव-अत्रापि तदर्थे वस्तुतः तत्स्थाने विहितस्य क्यजादेर्योगात् । नन् क्यजादौ साधर्म्यवाचकानामिवादीनां प्रयोग इव साधर्म्यप्रत्यायकत्वासम्भवाद्वाचकलुप्तात्वमेव कुतो नेत्याशङ्कामुन्मूलयति-ननु क्यङादिषु 'प्रत्ययेषु सत्सु इति शेषः । सम्यक् । औपम्यप्रतीतिः साधर्म्यस्य प्रत्ययः । प्रत्ययत्वेन 'क्यजादे'रिति शेषः । अस्वतन्त्रत्वात 'प्रकृतिप्रत्ययौ सहाथै ब्रूतः' इति नयेन स्वातनयेणार्थबोधकत्वविरहादिति भावः । इवादिप्रयोगाभावात् । च । न। अस्ति । अतः औपम्यप्रतिपादकलोप एवात्रानुमेय' इति शेषः ।" इति । न वाच्यम् । अयम्भाव:-यत्र यत्रेवादिः तत्र तत्र साधय॑स्य सम्यक्प्रत्ययः, यत्र नैवं तत्र नैवम् । यथा-क्यजादीनां योगे । तस्मात्-अत्रौपम्यप्रतिपादकाभावस्य स्फुटत्वाद्वाचकलुप्तात्वमेव वक्तमुचितम् इति; कुत इत्याशङ्कयाह-कल्पबादौ । आदिना-देश्यादीनां ग्रहणम् । अपि 'नतु केवलं क्यजादौ प्रयुक्ते' इति शेषः । तथाप्रसङ्गात सम्यगौपम्यप्रतीत्यभावापत्तेः । इदमभिहितम्-'ईषदसमाप्तौ कल्पब्दे. श्यदेशीयरः ।' ५।३।६७ इति सूत्रेण विहितस्य कल्पप्प्रत्यपस्य 'विषकल्पं मन' इत्यादिसामानाधिकरण्येन निर्देशाकिञ्चदपरिसमाप्तिविशिष्टोधर्म्यर्थः । किञ्चिदपरिसमाप्तिश्च यत्किञ्चिन्यूनसमस्तधर्मसम्बन्धरूपोपमैव । तथा च-'इवादेर्लोप' इति न पार्य्यते, तत्र धर्मलोप एव गदितुं क्षमत्वात् । इति । ननु-'कमलमिवास्य वदन' मित्यादौ उपमालक्षणसङ्गत्यनुरोधेन इवादेरुपमावाचकत्वं स्वीकार्यमित्यभिप्रेत्याह-इवादीनाम् । 'वाचकत्वेन स्वीक्रियमाणानाम् । अपि 'किं पुनरन्येषां निपाताना'मिति शेषः । वाचकत्वे । निश्चयाभावात् सिद्धान्तानक्यात् । इदं तत्त्वम्-सर्वेषामेव निपातानां द्योतकत्वम्, तच तात्पर्यग्राहकत्वम् । ईश्वरमनुभवती' त्यादौ अनुभवादिः प्रतीयमानो न धात्वर्थः, 'भवती' त्यत्राप्यापत्तेः, नोपसार्थः,