________________
१७६
साहित्यदर्पणैः।
( दशमः
कत्वे वा 'समुदितं पदं वाचकम्"प्रकृतिप्रत्ययौ स्वस्वार्थबोधकौ'इति मतद्धयेऽपि वत्यादिक्यजाद्योः साम्यमेव । इति ।
यच्च-केचिदाहुः, 'वत्यादय इवाद्यर्थेऽनुशिष्यन्ते' क्यङादयस्त्वाचाराद्यर्थे ।' इति, तदपि
तथा सति अप्रकृत्यर्थतया तत्राख्यातार्थानन्वयापत्तेः, प्रत्ययानां प्रकृत्यान्वितस्त्रार्थबोधकत्वनियमात् , 'अनुगच्छती' त्यादौ अनुभवादिप्रत्ययापत्तेश्च, न विशिष्टार्थों गौरवात् । तथा च-धातोरेव विद्यमानत्वादिवाचकस्यास्तु लक्षणा । ननु उपसर्गास्तात्पर्यग्राहका इत्येषामस्तु द्योतकत्वम्, इति चेत् ! एतत् इवादिष्वपि, 'चैत्रमिव मैत्रं पश्यती'त्यादौ सादृश्यविशिष्ट चत्रपदलक्ष्यम् इवशब्दश्च तात्पर्यग्राहक इति, 'उपास्यते गुरुः' इत्यादौ चोपासना किमुपसर्गार्थो विशिष्टस्य वा धातुमात्रस्य । नाद्यः, तथा सति-स्वार्थफलव्यधिकरणव्यापारवाचकत्वरूप सकर्मकत्वस्यासधातोरुपासनारूपफलवाचकत्वाभावादनापत्तेः, ततः कर्मणि लकारो न स्यात् । एवम्-‘साक्षात् क्रियते दयिता','अलक्रियते देवः', 'उरीक्रियते सिद्धा. न्त' इत्यादौ अपि धातोस्तदर्थे कर्मणि लकारसिद्धये तत्तदर्थवाचकत्वं वाच्यम् , इत्युपसर्गवदेव द्योतकत्वममीषाम् । यद्यपि कृधातोः सकर्मकत्वमेवास्ति अथापि एष्वर्येषु सकर्मकता न भवेत् । अन्यथा-'वायुर्विकुरुते' इत्यादौ आत्मनेपदोपपत्तिनस्यात्, 'अकम्मेकाच । ११३१४५ इत्यनेनाकम्मकत्व एवात्मनेपदविधानात् । तथा-'शरैरुनरिवोदीच्यानुद्धारष्यन् रसा निव।' इत्यादौ उस्रादिपदस्योस्रादिसदृशपरत्वेनोस्रादिसदृशैरुस्रादेरुद्धरणक्रियां प्रति कारणत्वाभावात् । इवार्थसादृश्यान्वायत्वेन करणीभूतशरविशेषणत्वविरहाच्च । इति । इवादीनामपि द्योतकत्वमेवेति वैयाकरणानां सिद्धान्तः, विस्तरस्तु तत्तदाक रग्रन्थेषु स्वयमूह्यः। एवं वाचात्वस्यानिश्चित्वेनोक्तमर्थ दूषयित्वा तथास्वीकारेऽपि प्रौढवादेन दोषं निर्दिशति-वाचकस्वे । 'इवादीना' मिति शेषः । वा । 'समुदितं प्रकृतिप्रत्ययसमुदायरूपम् । पदम् । वाचकम् । तथा च प्रकृत्यान्वितप्रत्ययार्थप्रतिपाकत्वं वाचकम् । इति निष्कृष्टोऽर्थः ।' 'प्रकृतिप्रत्ययौ । स्वस्वार्थबोधको 'क्रमेणे'ति शेषः ।' इति मतदये। अपि। वत्यादिक्यजाद्यो । आदिपदाभ्यामेव कल्पवादेः, क्यडादेव ग्रहणम् । साम्यम् । एव । इति । 'वोध्यमिति शेषः। इदं तत्त्वम्-नैयायकादय इवादीनां निपातत्वेऽपि वाचकत्वमेवाङ्गीकुर्वन्ति, तथाहि-उपसर्गाणां द्योतकत्वमेव, अन्यथा-'उपास्यते गुरुः,' 'पारभूयते शत्रुः' इत्यादौ धात्वर्थासनभवनक्रिययोरकर्मकतया कर्मलकारोपप त्तिर्न स्यात् । इवादीनां तु बाचकत्वमेव, वाधकाभावात् । निपातमात्रस्य द्योतकत्याङ्गीकारे तु अव्ययानामपि द्योतकत्वमेव स्यात्, न च इष्टापत्तिः, स्वरादीनां स्वातन्त्र्येण प्रयोगानापत्तेः । अथवं वाचकत्वाङ्गीकारेऽपि इववत्यादेः क्यचक्या डादेश्चसमुदितं पदं वाचकम् । 'प्रकृतिप्रत्ययौ स्वस्वार्थबोथको' इति उभयविधाभ्यां मताभ्यामपि साम्यमेव, उभयत्र न्यायस्य तुल्यत्वात् । अत्राहु:-निपातमात्रस्य द्योतकत्वं वाचकत्वं च, न केवलमुपसर्गाणां द्योतकत्वम, इवादीनां वा वाचकत्वम्, वैषम्ये बीजाभावात् । तथा हि-समुदितं पदं वाचकम् ,' 'प्रकृतिप्रत्ययौ स्वस्वार्थबोधको ।' इति नयेन च द्योतकत्वेनाभिमतानामपि वाचकत्वापत्तेः, वाचकत्वेनाभिमतानां पुनर्निपातानां द्योतकत्वापत्तेः ।' इति । काव्यप्रकाशव्याख्याकारा अपि-अत एवाहुः, 'ननु 'नारीयते' इत्यादौ कथमौपम्यप्रतिपादकप्रयोगाभावः, क्यङादीनामेव तदर्थविहिततया तत्कर्मक्षमत्वात् । अथैषां प्रत्ययत्वेनास्वतन्त्रतया प्रयोगाभावेन वा न सम्यगौपम्यप्रतीतिरिति चेत् । तहि वतिकल्पवादावपि तथैव प्रसज्येत । नहि प्रत्ययतया तद्धितान्ययोः कश्चिद्विशेषः । कल्पबादयइवादितुल्यादय औपम्यवाचकाः, क्यङादयस्तु द्योतका एवेत्यपि न,इवादीनामपि वाचकत्वे संदेहात् । अस्तु वा वाचकत्वम् तथाऽपि 'समुदितमेवं पदं वाचकम' 'प्रकृतिप्रत्ययौ स्वस्वार्थवाचकौ' इति मतद्वयेऽपि वत्यादिक्यङाद्योः साम्यमेवेति, सत्यमेवम् , अथाऽपि प्राचीनोपरोधनियन्त्रितोऽयमाचार्यों विद्वानपि ईदृशानि दुर्यशःसङ्कुचितानि सङ्कटानि प्रविशतीत्यत्र किं ब्रूमः' इति । . प्रकारान्तरेण परमतं समाधाय पुनः स्वमतं द्रढयितुं खण्डयति-यत् । च । केचित् 'नारीयते' इत्यादौ वाचकलुप्तात्वमेव समाधत्सवः । आहुः । ‘वत्यादयः' । आदिना कल्पबादेर्ग्रहणम् । इवाद्यर्थे सादृश्याद्यर्थे । अनुशिष्यन्तेऽनुशासनेन नियम्यन्ते । क्यादयः । आदिना क्यजादेर्ग्रहणम् । तु ( इदं च व्यवच्छेदकम् )। आचाराद्यर्थे । 'अनशिष्यन्ते' इति पूर्वतोऽन्वेति । 'अतोऽत्र 'नारीयते' इत्यादौन धर्मलुप्तात्व' मिति शेषः ।' इति । तत । अपि ।