________________
परिच्छेदः ]
रुचिराख्यया व्याख्येया समेतः। १७७ न; न खलु क्यादय अचारमात्रार्थाः, अपि तु सादृश्याचारार्थाः । इति । तदेवं धर्मलोपे दश. प्रकारा लुप्ता।
८५ उपमानानुपादाने द्विधा वाक्यसमासयोः। उदाहरणम्"तस्या मुखेन सदृशं रम्यं नास्ते न वा नयनतुल्यम् ।" अत्र मुखनयनप्रतिनिधिवस्त्वन्तरयोर्गम्यमानत्वादुपमानलोपः । अत्रैव च 'मुखेन सदृश
न । 'युज्यते' इति शेषः । कुत इत्याह-न खलु । क्यङादयः । आदिना क्यजादेग्रहणम् । आचारमावार्था आचारार्थस्यैव प्रतिपादकाः । अपितु । सादृश्याचारार्थाः सादृश्यान्विताचारार्थप्रतिपादकाः । इदमभिहितम्-'उपमानादाचारे।' ३ । १ । १० इत्यतः 'कर्तुः क्यङ् सलोपत्र ।' ३।। ११ इत्यत्र 'उपमाना' दित्यनुवर्तते । तथा च-उपमानार्थककर्तपदोत्तरमाचारार्थे क्यड्प्रत्ययः स्यात् इति स्थूलार्थः सम्पद्यते । आचारश्चाचरणम्, तच प्रकृते उपमेयस्योपमानताबोधनम्, प्रकृतरुपमानार्थकत्वोपपत्तये इवार्थवाचकता तत एव क्यङ् सम्पद्यते । तथा च-उपमानार्थकात कत्र्तृपदादुत्तरमिवार्थानुगताचरणाथै क्यङ्प्रत्ययः स्यादिति वास्तविकोऽर्थः । एवम्-क्यङ इवार्थकस्वोपपत्तौ धर्मलोप एव पर्य्यवसीयते । इति ।
उपसंहरति-तदेवमित्यादिना । स्पष्टम् । श्रौती धर्मलुप्ता, आर्थी धर्मलुप्ता च,तत्राद्या समासगा वाक्यगा चेति द्विविधा, अन्या पुनः, तद्धितगा समासगा वाक्यगा चेति त्रिविधा, सम्मिलिताः पुनः पञ्च विधा धर्मलुप्तायाः । तथाआधारक्यचि, कर्मक्यचि, कर्तरि क्यडि, कर्मणमुलि, कर्तृणमुलि च; इत्येवं पञ्च विधा अन्याधर्मालुप्तायाः । सम्मेलने च स्फुटं दश भेदाः । इति भावः ।
उपमामलुप्तां निर्दिशति-८५उपमानानुपादाने उपमानवाचक्रपदानुपादाने उपमानवाचकस्य पदस्थापयुक्तत्वेऽवाव्यत्येवेति यावत् । 'लुप्तोपमा' इति शेषः । वाक्यसमासयोक्येि समासे च । 'सम्भवतीत्यस्माद्धेतो रिति शेषः द्विधा । तथा च-उपमानलुप्ता, वाक्यगा समासगा चेति द्विविधा ।
उदाहर्तुमुपक्रमते- उदाहरणमित्यादिना । स्पष्टम् ।
"तस्याः । मुखेन । सदृशम् । रम्यं रमणीयम् । न । आस्ते । तस्याः-नयनतुल्यं नयनाभ्यां तुल्यम् । वा। 'रम्य'मिति पूर्वतोऽनुषज्यते । न । 'आस्ते' इति शेषः । 'भुवनत्रितये सदशी वरवर्णिन्या यया न भव्या वा' इति शेषः । आांगीतिश्छन्दः ॥" यथा वा-“यस्य तुलामधिरोहसि लोकोत्तरवर्णपरिमलोद्दारैः । कुसुमकुलतिलक ! चम्पक ! न वयं तं तु जानीमः ॥” इति, अत्र हि-'यत्तुलनामधिरोहसि' इत्याद्यचरणनिर्माणे समासगात्वम् । 'उपमाऽभावेन सादृश्याभावस्य पर्यवसानात्, सादृश्यपर्यवसानस्य चोपमाजीवितत्वादलङ्कारान्तरमेव न तपमानलुप्तेति न शनीयम्, 'यस्य तुला ( यत्तुलना ) मधिरोहसि न तं जानीम इत्युक्त्याऽस्माकमसर्वज्ञत्वादस्मदगोचरः कश्चित्तवोपमानं भविष्यतीति सादृश्यपर्यवसानमस्तीत्युपमानलुप्तैवेयम् । उदाहरणसङ्गतिं दर्शयति-अत्र 'तस्या मुखेन सदृशं रम्य नास्ते' इत्युदाहरणे । मुखनयनप्रतिनिधिवस्त्वन्तरयोर्मुखसदृशस्य नयनसदृशस्य चान्यस्य वस्तुनः । गम्यमान त्वादुबुध्यमानत्वात्। उपमानलोपः।अयम्भावः-अत्र मुखं नयने चोपमानम्,उपमानं च नोपात्तम्, रम्यमिति साधारणो धर्मः सदृशेनासमस्तात् पूर्वत्र वाक्यगा, परत्र तुल्यपदेन समस्तात्समासगा । 'सदृशं तुल्य'मिति पदाभ्यां सामान्यत उपमानोक्तावपि विशेषतोऽनभिधानादुपमानलुप्तेयम् । वस्त्वन्तरस्य विशिष्य केवलमनुपादानमिति उपमानलोपव्यवहारः । एतेन-'अनन्वयोऽत्र' इति वदन्तः परास्ताः । इति । ननु 'तस्या मुखं यथेदं रम्यं नास्ते' इत्येवं श्रौतीत्वेऽप्यस्याः सम्भवे कथं द्विविधमेवास्था इत्याशङ्कशाह-अत्र 'तस्या मुखेन सदृशं रम्यं नास्ते' इत्युदाहरणे । एव 'किं पुनः परो'