________________
२७८ साहित्यदर्पणः।
[दशम:मित्यत्र 'मुखं यथेदम् ।' 'नयनतुल्यम्' इत्यत्र 'दृगिव' इति पाठे श्रीपि सम्भवती-त्यनयोर्भेदयोः प्रत्येकं श्रौत्यार्थीत्वभेदेन चतुर्विधत्वसम्भवेऽपि प्राचीनानां रीत्या द्विप्रकारत्वमेवोक्तम् ।।
८६ औपम्यवाचिनो लोपे समासे विपि च द्विधा ॥७३॥ क्रमेणोदाहरणम्
'वदनं मृगशावाक्ष्याः सुधाकरमनोहरम् ।' 'मर्दभति अतिपरुषं व्यक्तं निनदन महात्मनां पुरतः।'
ति शेषः । च । 'मुखेन सदृश'मित्यत्र 'अंशे' इति शेषः । 'मुखं यथेदम्' इति पाठे परिवृत्त' इति शेषः । 'नयनतुल्यम्' इत्यत्र 'अंश' इति शेषः । 'दृगिव' इति पाठे। 'परिवृत्त' इति शेषः । श्रीती। अपि । 'आर्थी तु तथा सम्भवत्येव' इति शेषः । सम्भवति । इति । अनयोः 'वाक्यसमासगतया द्वयो' रिति शेषः । भेदयोः । प्रत्येकम् । श्रौत्यार्थीत्वभेदेन श्रौतीत्वेना त्वेन चेति भावः । चतुर्विधत्वसम्भवे । अपि । प्राचीनामां काव्यप्रकाशकारादीनाम् । रीत्या मार्गेण । द्विप्रकारत्वम् । एव । उक्तम् । अयम्भाव:-'तस्या मुखेन सदृशं रम्यं नास्ते न वा नयनतुल्यम्' इत्यत्र यथावाक्यगता समासगता चेति द्विविधोपमानलुप्ताऽऽर्थी, तथा'तस्या मुखं यथेदं रम्यं नास्ते न वा न तादृगिव ।' इति पाठवतो वाक्यगा समासगा च सैवार्थीति अस्याश्चातुर्विध्येऽपि द्वैविध्याभिधाम प्राचीनानामनुरोधात् । प्राचां ह्येष सिद्धान्तः 'नेयं श्रौती' इवादिपदानामुपमानानन्तर्यनियमेनोपमानपदं विनाअन्वयाबोधकत्वात् ।' इति । यद्यपि-इवेन नित्यसमासविधानस्येवोपमानानन्तर्यमिवादीनामवस्थितिनि. यमस्याग्रहमात्रमूलत्वम् , तथाऽपि किं प्राचां दूषणगवेषणया? । इति । अत्राहु:-'कथमियमुपमानलुप्ता, 'सुधाकरस्य सदृश' मित्यादौ सुधाकरस्योपमानताया इव 'मुखस्य सदृश'मित्यादावपि मुखादेः उपमानताया एवाभिधानं किन स्वीक्रियते ? इति चेत् ! 'मुखस्य सदश' मित्यादौ मुखप्रतियोगिकसादृश्यानुयोगीति नार्थः । किन्तु-मुख निष्ठसादृश्यप्रतियोगीत्येव; मुखस्य प्रकृततया तदुत्कर्षायोपमेयत्वस्यैवाभिधित्सितत्वात् । यद्यपि-'सुधाकरस्य सदृश'मित्यादावपि एवं समाधातुं शक्यते, तथाऽपि-सर्वस्य सुधाकरादेरुपमानतयैव प्रसिद्धिरिति बोध्यम् । अत एव प्रदीपकारैरप्युक्तम् 'अत्र विशेषत उपमानं नोपात्तम्, चिन्त्यमेतत्' इति, अस्यायम्भाव:-प्रकृततया काव्यस्यैव (मुखस्यैव ) उपमेयत्वमुत्कर्षाय, इत्यसङ्गतम्, खनिष्ठसादृश्यप्रतियोगिनिषेथस्यैव स्वप्रतियोगितादृश्यानुयोगिनिषेधस्यापि उत्कर्षपर्यवसायिवात् । यथा- रक्षांसीति पुराऽपि संशणुमहे वीरस्तु कस्तादृशो यो जागर्ति जमत्रयीविपदलङ्कीणदोर्विक्रमः । शश्वदवा रभवि प्रशस्तिरचनावांयमानेक्षणश्रेणीसम्भतगोत्रभिन्मयजयस्तम्भो यथा रावणः ॥' अत्र हि रावणस्याश्रषणोक्त्या यथोक्तार्थलाभः । यथा वा-'त्वमिव कोऽपि परापकृतौ कृतीन ददृशे न च मन्मथ ! शुभ्रवे।' इत्यत्र प्रकृतः कामः । तथा च-अत्र । 'कामप्रतियोगिकसादृश्यवानन्यो दर्शनश्रवणविषयत्वाभाववान् ।' इत्यवगम इव तत्र 'सुधाकरप्रतियोगिक. सादृश्यवानन्यो दर्शनश्रवणविषयत्वाभाववान् ।'इति बोधः । इति ।
वाचकलुप्तां निर्दिशति-८६ औपम्यवाचिनः साधर्म्यप्रतिपादकस्येवादेः । लोपेऽप्रयोगे लुप्तत्वे वा । समासे विपि विष्प्रत्यये । च 'इती' ति शेषः । द्विधा 'वाचकलुप्ते' ति शेषः ॥ ७३ ॥
उदाहत प्रतिजानीते-क्रमेणेत्यादिना । स्पष्टम् । 'वदन'मित्यादि।
'मृगशावाझ्या मगशावस्य मृगस्य शावो बालस्तस्याक्षिणी इवाक्षिणी यस्यास्तस्यास्तथोक्तायाः । मगकिशो. रनेत्रसदृशचञ्चलनेत्राया इति भावः । पदलोपः, 'उक्तार्थानामप्रयोग' इति नयेनेवस्य चाप्रयोगः ( सामान्यधर्मस्याप्यनुषादानानात्र केवलं पाचकलुप्तेति नोदाहरणमिदम्)। वदनं मुखम् । सुधाकरमनोहरं सुधाकर इव मनोहरमिति तथो. तम्। उपमानानि सामान्यवचनैः ।२।११५५ इति कर्मधारयः। 'आत्मानं दर्शयल्लोकमुदेधयति कौमुदम् ॥' इति शेषः । अत्र साधर्म्यवाचकस्येवस्य समासेऽनुपादानात् समासगा वाचकलुप्ता ॥' यथा वा-'कैलासगौरं वृषमारुरुक्षोः पादार्पणानुग्रहपतपृष्ठम् । अवेहि मां किङ्करमष्टमूर्तेः ! कुम्भोदरं नाम निकुम्भमित्रम् ॥' इत्यत्र 'कैलासगौर'मित्यत्रेवस्यानुपादानाम् । 'महात्मनां महनीयचारतानां सुमतीनाम्, अथ ब-गजराजादीनाम् । पुरतः । व्यक्तं प्रकटमुच्चौरति