________________
१७९
परिच्छेदः)
हचिराण्यया व्याख्यया समेतः। अत्र 'गर्दभती' त्यत्र औपन्यवाचिनः विपो लोपः।
८७ द्विधा सभासे वाक्ये च लोपे धम्मोपमानयोः।। 'तस्या मुखेन' इत्यत्र 'रम्य' मिति स्थाने 'लोके' इति पाठेऽनयोरुदाहरणम् ।
८८ क्विप्समासगता द्वेधा धर्मेवादिविलोपने ॥ ७४ ॥ उदाहरण-'विधवति मुखान्जमस्याः' इति ।
अत्र 'विधवति' इति मनोहरत्व-किप्प्रत्यययोर्लोपः । केचित्त्वत्रापि प्रत्ययलोपमाहु। 'मुखाब्जम्' इति च समासगा।
यावत् । श्रुतिपरुषं श्रुतौ श्रवणे परुषं यथा भवेत्तथा । निनदन शब्दं कुर्वन् । गर्दभति गर्दभ इवाचरति । 'सर्वप्रातिपदिकेभ्यः क्विबू वा वक्तव्यः ।' इति क्विपू । तस्य च-सर्वापहारिलोपविधानात् क्विपो लुप्तत्वम् । अत एवात्र क्विवलोपेन वाचकलुप्तेयम्। 'उपपादितपुरुषार्थों न्यस्यन् पादान् समुद्धतं सहसा।' इति शेषः। आयांगीतिश्छन्दः ॥'
अत्र कथं वाचकलोप इत्याशङ्कयाह-अत्रेत्यादि । स्पष्टम् ।
ननु उपमेयस्यापि अत्र लोप इत्याशङ्कयाह-नचेत्यादि । स्पष्टम् । इदं त्ववसेयम्-अत्र-गर्दभ उपमानम्, निनादकतॊपमेयम्, परुषनिनदनं च साधारणो धर्मः । औपम्यवाचकस्य क्विपः केवलं लोप इति वाचकलुप्तवेयम् । इति । यथा वा-'कुचकलशेष्वबलानामलकायामथ पयोनिधेः पुलिने । क्षितिपाल ! कीर्तयस्ते हारन्ति हरन्ति हीरन्ति ॥' इत्यत्र 'हार, हर, हीर' शब्दा आचारार्थके क्विपि लुप्ते धातवः, लक्षणया च हारादिसादृश्यं बोधयन्ति ।
धर्मोपमेयलुप्तायाः पूर्वमेवोपमेयलुप्ताया अपि निर्देशमुपमेयलोपनिर्देशोपक्रमौचित्येन मन्वानस्तामनिर्दिश्य धम्माप. मानलुप्तां तावनिर्दिशति-८७ द्विधा समास इत्यादिना ।
८७धर्मोपमानयोः। लोपेऽप्रयोगे । 'धर्मवाचकलुप्तोपमे'ति शेषः । वाक्ये । समाले । च 'सम्भवतीत्यतः' इति शेषः। द्विधा।
____ उदाहरति-'तस्या मुखेन' इत्यत्र 'तस्या मुखेन सदृशं रम्यं नास्ते न वा नयनतुल्यम् ।' इत्युकाहरण इत्यर्थः । 'रम्य'मिति स्थाने । 'लोके' इति पाठे। अनयोः वाक्यगायाः समासगायाश्चति द्विविधाया धर्मवाचकलुप्ताया इति भावः । 'क्रमेणे'ति शेषः । उदाहरणम् । अयम्भावः-'तस्या मुखेन सदृशं लोके नास्ते न वा नयमतुल्यम् ।' इत्यत्र क्रमात्-वाक्यगा समासगा चेयम् । यथा वा--'गाहितमखिलं विपिनं परितो दृष्टाश्च विटपिनः सर्वे । सहकार! न प्रपेदे मधुपेन तथाऽपि ते समं जगति ॥"ढुंढोलतो मारहिसि कंटअकलिआणि केअइवणइं । मालइकुसुमसारच्छं भमर ! भमंतो ण पाविहिसि ॥' इत्यनयोः पूर्वत्र 'सम'मित्यस्यासमस्तत्वाद्वाक्यगा, परत्र 'सरिच्छे (सदृशम् ) इत्यस्य समस्तात् पुनः समासगा।
धर्मवाचकलुप्तां निर्दिशति-८८ धर्मेवादिविलोपने धर्मश्चेवादिश्च तथोर्विलोपनं तम्मिन्सतीत्यर्थः । 'लुप्तो. पमे'ति शेषः । विपसमासगता क्विब्गता समासगता चेति भावः । द्विधा ॥ ७४ ॥
उदाह काम आह-उदाहरणं यथा-"अस्याः । मुखाब्ज मुखमब्जमिवेति तथोक्तम् । 'उपमितं व्याघ्रादिभिः सामान्याप्रयोगे।'२।१।५६ इति समासः । विधवति विधुश्चन्द्रः स इवाचरतीत्यर्थः । विधुसदृशं भवतीति भाषः । 'अब्जति नयनद्वयं च रम्भोरोः । ऊरवति तथा करभः सौभगसर्वस्वभूतायाः ॥ इति शेषः । आO छन्दः ॥"
उदाहरणं समर्थयते-अत्र 'विधवति मुखाब्ज' मित्यत्र। 'विधवति इति 'पदे' इति शेषः । मनोहरत्वविप्प्रत्यययोर्मनोहरत्वरूपस्य साधारणधर्मस्य तद्वाचकस्य च विष्प्रत्ययस्य च लोपस्येति भावः । लोपः ।
१'अन्वेषयन मरिष्यसि कण्टककलितानि केतकीवनानि । मालतीकुसुमसदृशं भ्रमर ! भ्रमन्नपि न प्राप्स्यसि ॥' इति संस्कृतम् ।