________________
परिच्छेदः]
चिराख्यया व्याख्यया समेतः। अत्र क्रमेण त्रिविधाऽऽर्थी।
८१ पूर्णा षडेव तत् । स्पष्टम् ।
८२ लुप्ता सामान्यधर्मादेरेकस्य यदि वा द्वयोः ॥७०॥
त्रयाणां वाऽनुपादाने श्रोत्यार्थी साऽपि पूर्ववत् ।। खा लुप्ता । तद्भेदानाह८३ पूर्णावद्धर्मलोपे सा विना श्रौती तु तद्धिते ॥७१॥
सा लुप्तोपमा, धर्मस्य साधारणगुणक्रियारूपस्य लोपे पूर्णावदिति पूर्वोक्तरीत्या षटूप्रकारा, किन्तु-अन्न तद्धिते श्रोत्या असम्भवात् पश्चप्रकारा।
कान्तिश्च ते समा रम्या ॥” इत्यत्र वाक्यगेयम् । यथा वा-"चकितहरिणलोललोचनायाः क्रुधि तरुणारुणतारहारिकान्त्रि । सरसिजमिदमाननं च तस्याः सममिति चेतसि सम्मदं विधत्ते ॥” इति ।
एवमुदाहृत्य बोधसौकायाह-अत्रोदाहृते पद्ये । क्रमेण सत्रनिर्दिष्टानुपूर्त्या । त्रिविधा तद्धितसमासवाक्यगात्वभेदात् त्रिप्रकारा । आर्थी । “पूर्णोपमा" इति शेषः । अत्राहुर्विवृतिकाराः-'नन्वम्भोरुहस्येव मुखस्य सौरभमित्यादी साधारणधर्मस्योपमानसम्बन्धित्वबोधे षष्टयर्थानुसन्धानस्यापेक्षणीयतया कथं श्रौतीत्वमिति चेत् ! न, नामार्थनिपातयोरन्वयबोधे विभक्त्यर्थानुसन्धानस्यातन्त्रतया तत्र षष्ट्या विशेषणविभक्तरिव प्रयोगसाधुत्वमात्रार्थकत्वात् ; अन्यथा'चन्द्रादिव मुखात्तस्य निरचति कथाऽमृतम् ।" इत्यादौ सम्बन्धबोधकविभक्त्यभावादुपमानसम्बन्धबोधो न स्यात् ।' इति ।
वोधसौकर्यायोक्तमर्थ स्मारयति-८१ तत् तस्मात् । पूर्णा पूर्णोपमेत्यर्थः । षट् पड्विधा । एव । स्पष्टम् । एवं पूर्णायां लक्षितायामपूर्णाया अपि लक्षयितव्यत्वे आह-८२ लुप्तेत्यादि।
८२लताऽपूर्णा । 'उपमे' ति प्रक्रमादनुपज्यते । सामान्यधर्मादेः। आदिना-वाचकोपमानोपमेयानां ग्रहणम् । निर्धारणार्थेय षष्ठी। एकस्य साधारणस्य तद्वाचकस्योपमानस्योपमेयस्य घेत्यर्थः । द्वयोः साधारणधम्मेतद्वाचकयोः साधारणधर्मोपमानयोः साधारणधर्मवाचकोपमेययोः । वा । यदि। त्रयाणां साधारणधर्मतद्वाचकोपमानानाम् । अनुपादाने साक्षादनभिधाने । 'भवति' इति शेषः । तथा च-अष्टविधेयं लुप्तोपमा, तत्र-एकस्य लोपे चतुर्धा, साधारणधर्मस्योपमानस्यौपम्यवाचकस्योपमेयस्य लोपात् । द्वयोलौंपे त्रिधा. साधारणधर्मोपमानयोः साधारणधर्मतद्वाचिनोधम्नॊपमेययोश्च लोपात् त्रयाणां लोपे पुनरेकधा, साधारणधर्मतद्वाचकोपमानानां लोपात् । साधारणधर्मतद्वाचकोपमेयानों लोपे तु नेयम् , असम्भवात् । अस्याश्च पूर्णावत् श्रोत्यार्थीति भेदद्वयमाह-श्रौतीत्यादिना । साऽविधा लुप्तोपमेत्यथैः । अपि । पूर्ववत् पूर्णोपमावत् । श्रौती । आर्थो । 'चे' ति शेषः । एवं चास्याः षोडशविधात्वं स्फुटम् ॥ ७० ॥
सूत्रस्थं तत्पदं व्याचष्टे-सेत्यादिना । स्पष्टम् । • अथैवं षोडशभेदभिन्नाया अप्यस्याः प्रकारान्तरेण भेदानाह-तदेवांस्तस्या निरुक्तदिशा षोडशविधाया लुप्तोपमाया भेदास्तान् । आह-८३ सा लुप्तोपमा । पूर्णावत पूर्णा यथा श्रोत्यार्थी चेति भिद्यमाना तद्धितसमासवाक्यगत्वभेदैविधा भिन्ना षड्विधा तथेति भावः । धर्मलोपे साधारणधर्मस्य साक्षादनाभिधाने सति । तद्धिते । तु । श्रौतीम् । विना वर्जयित्वा । 'सम्भवती'ति शेषः । अतश्चास्याः पञ्चविधात्वं स्पष्टमिति भावः ॥ ७१ ॥ .
___ तदेव विवृणोति-ला । लुप्तोपमा। साधारणगुणक्रियारूपस्य । साधारणो गुणो मनोज्ञत्वादिः, क्रिया पुनभातीत्यादिरुपचारात्तदनुकूलव्यापृतत्वम्, तदात्मकस्येति भावः। धर्मस्य । लोपे। पूर्णावत पूर्णोपमेव भिद्यते इत्यर्थः । इति । पूर्वोक्तरीत्या प्रागुक्तेन नयेन । षट्प्रकारा। किन्तु । अत्रानयोः श्रोत्यार्थ्योः । श्रौत्याः। तद्धिते । असम्भवात् । पञ्चप्रकारा । अयम्भाव:-अस्याः साधारणधर्मलोपे पूर्णावदभिधानातू षडूविधात्वं वक्तं सगतं, किन्तु