Book Title: Sahitya Darpan Nam Alankar Sandarbh
Author(s): Vishvanathak Viraj, Shivdutta Kavi
Publisher: Kshemraj Krushnadas Shreshthi

View full book text
Previous | Next

Page 713
________________ परिच्छेदः ] रुचिराख्यया व्याख्यया समेतः। (३) प्रथमश्चतुर्थपादे चेत्तदाऽऽवृत्तिः । यथा-'मुदाऽऽरताडीसमराजिराऽजितः प्रवृद्धतेजाः प्रथमो धनुष्मताम् । भवान् बिभत्तीह नगश्च मेदिनीमुदार-ताडी-समराजि-राजितः ॥' ( ४ ) द्वितीयस्तृतीयपादे चेत्तदा गर्भः । यथा'अथास्यते शमजुषा भवतः प्रसादादामोदराजि-तरु-चारु चिरं जनेन । दामोदरा-जितरुचा-रुचिरञ्जनेन कीर्ण तृणेन मृदुना वनमार्त्तवेन ॥' (५) द्वितीयपादश्चतुर्थे चेत्तदा संदष्टकम् । यथा -'शारदीमिव नदी प्रसादिनीमुच्चकैरव-सरोजराजिताम् । स्तोतुमेष मम मूत्तिमैश्वरीमुच्चकैरवसरोऽजराजिताम् ॥' (६ ) तृतीयपादश्चतुर्थे चेतदा पुच्छम् । यथा'उत्तुजमाताकुलाकुले यो व्यजेष्ट शत्रून् समरे सदैव । ससारमानीय महारिचकं ससारमानीयमहाऽरिचक्रम् ॥' (७) प्रथमपादस्त्रिष्वपि यम्यते चेत्तदा पङ्क्तिः । यथा-'तनुशङ्करवैरसमायतया तनुशङ्करवैरसमायतया । तनु शंकर वै रसमायतया तनुशंकर वैरसमायतया ॥' 'हे शङ्कर ! मा मां रस सम्भावय । मां प्रति स्त्रवचनामृतं मुञ्चति । वै प्रसिद्धौ । कैः । अतनु यथा स्यात्तथा ये तनुशङ्का निःशङ्का रखा भक्तजनान् प्रत्यभयदानवचनानि तैः । कीदृशं मा कर्मभूतम् । असमोऽनन्यसदृशोऽयः शुभावहो विधिर्यस्य सोऽसमायः, तस्य भावस्तत्ता तयाऽसमायतयोपलक्षितम् । कथम्भूतयाs. समायतया। आयतयाऽनियतया । हे विभो, शं कैवल्यलक्षणं तनु विस्तारय,अहं रसं भक्तिरसं करवै। त्वं मा माम् अतनु. शम् अतनुः कामस्तं श्यति तनूकरोतीत्यतनुशस्तथाभूतं कर कुर्वित्यर्थः । करेति च्छान्दसः प्रयोग: । 'छान्दसा अपि क्वचिद्भाषायां प्रयुज्यन्ते' इति वचनात् । कया हेतुभूतया । वैरसमायतया वैरेणान्तरारपुसद्भावजनितेन, सह मायया वर्तत इति समायः । तस्य भावस्तत्ता तया । कीदृश्याऽऽयतया विस्तीर्णया ।' इति तदर्थः । 'यमकं तु विधातव्य न कदाचिदपि त्रिपात् ।' इति नियमादेकस्यापरपादद्वयगतत्वेन भेदो न भवतीत्यसङ्कीर्ण पादगतं यमकं सप्तधैव । (८) प्रथमः पादश्चतुर्थे पादे द्वितीयस्तृतीये चेद् यम्यते तदा वृत्तिगर्भयोगात् परिवृत्तिः । यथा-'मुदा रताऽसौ रमणीयतायां स्मरस्यदोऽलंकु-रुते नवोढा । स्मरस्यदोऽलंकुरुतेऽनवोढामुदारतासौ रमणीयतायाम् ॥' (९) प्रथमो द्वितीये तृतीयश्चतुर्थे चेद् यम्यते तदा मुखपुच्छयोगाद् युग्मकम् । यथा-'शमित-पङ्गमसज्ज-नतापदं शमितसङ्ग. मसज्जनतापदम् । न-मत-काममहीन-विभासितं नमत काममहीन-विभा-सितम् ॥' इत्यर्थाभ्यासमृते पादद्वयावृत्ती द्वयमिति नव । (१०) अर्धावृत्तिः समुद्रकम् । यथा-'कलि-तमो-हनमारव-राजितं स्मर हरं शिखि-चन्द्रकलाऽञ्छितम् । कलितमोहन-मारवरा-ऽजितं स्मरहरं शिखिचन्द्रकलाञ्छितम् ॥' (११) श्लोकावृत्तिमहायमकम् । यथा-'सकलशं सकपालमलङ्कृतप्रमदमस्थिरसं मदनाशनम् । भवमदभ्र-महानिधने हितं शमनमज्जनमानमताऽलयम् ॥ 'सकल-शंसक-पालमलं कृतप्रमदमास्थिर-सम्मद-नाशनम् । भव-मद-भ्रम-हानि धनेहितं शम-नमज्जन-मानमताऽऽलयम् ॥''अदभ्रं यन्महद् अनिधनम् अविनाशित्वं निजभक्तजनदेयं तत्र हितम् । शमनं यमं मजयतीति, तं शमनमज्जनम् । अलयं निर्माशम् । सकला ये शंसकाः स्तुतिकर्तारस्तान् पालयति तथाभूतम् । कृतः प्रमदः परमानन्दो येन तादृशम् । भवे संसारे यो मदस्तेन यो भ्रमस्तस्य हानिः, सैव धनं येषां ते संसारभ्रमविरक्तास्तरीहितस्तम् । शमेन नमन्तो ये जनास्तेषां मानार्थ मतोऽङ्गीकृतः आलयः प्रतिदेहस्थितिरूपो येन तादृशम् । शेषं स्पष्टम् ।' इति तदर्थः । एतद्वितयमपि पादावृत्तिविशेष इत्येकादश पादयमकानि । पादभागवृत्ति ( यमकं ) त्वनेकविधम्-द्विधा विभक्तेषु पादेषु प्रथमादिपादानामाद्यभागाः पूर्ववद्वितीयादिपादेष्वाद्यभागेष्वेव यदि यम्यन्ते तदा पूर्ववन्मुखादयो दश मंदा उत्पद्यन्ते । यथा-प्रथमपादाद्यभागो द्वितीयततीयचतुर्थपादाद्यभागेषु यम्यत इति त्रिधा । द्वितीयपादाद्यभागस्ततीयच. तुर्थपादाद्यभागयोर्यम्यते इति द्विधा । तृतीयपादाद्यभागश्चतुर्थपादाद्यभागे यम्यत इत्येकः । प्रथमपदाद्यभागन्त्रिष्वपि आद्यभागेषु यम्यत इत्यन्य इति सप्तासङ्कीर्णभेदाः । प्रथमपादाद्यभागसमानो द्वितीयपादाद्यभागस्तृतीयपादाद्यभागसमान श्चतुर्थपादाद्यभाग इत्येकः सङ्करः । प्रथमपादाद्यभागस्तृतीयपादाद्यभागसमानो द्वितीयपादाद्यभागश्चतुर्थपादाद्यभागसमान इत्यपरः सङ्कर इति नव । अर्धावृत्त्या समं पूर्ववद्दश भेदाः। एवं प्रथमादिपादानामन्त्यभागस्य द्वितीयादिपादान्त्यभागेष्वेवयमने पूर्ववद्दश भेदा जायन्ते । यथा-प्रथमपादान्त्यभागस्य द्वितीयतृतीयचतुर्थभागेषु यमने त्रिधा । द्वितीयपादान्त्यभागस्य तृतीयचतुर्थपादान्त्यभागयोर्यमने द्विधा । तृतीयपादान्त्यभागस्य चतुर्थपादान्त्यभागे यमन एकः । प्रथमपादान्त्यभागस्य त्रिष्वव्यन्त्यभागेषु यमन इत्यपर इति सप्तासङ्कीर्णाः । प्रथमपादान्त्यभागद्वितीयपादान्त्यभागयोस्तृतीयपादास्य.

Loading...

Page Navigation
1 ... 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910