________________
परिच्छेदः ]
रुचिराख्यया व्याख्यया समेतः।
(३) प्रथमश्चतुर्थपादे चेत्तदाऽऽवृत्तिः । यथा-'मुदाऽऽरताडीसमराजिराऽजितः प्रवृद्धतेजाः प्रथमो धनुष्मताम् । भवान् बिभत्तीह नगश्च मेदिनीमुदार-ताडी-समराजि-राजितः ॥' ( ४ ) द्वितीयस्तृतीयपादे चेत्तदा गर्भः । यथा'अथास्यते शमजुषा भवतः प्रसादादामोदराजि-तरु-चारु चिरं जनेन । दामोदरा-जितरुचा-रुचिरञ्जनेन कीर्ण तृणेन मृदुना वनमार्त्तवेन ॥' (५) द्वितीयपादश्चतुर्थे चेत्तदा संदष्टकम् । यथा -'शारदीमिव नदी प्रसादिनीमुच्चकैरव-सरोजराजिताम् । स्तोतुमेष मम मूत्तिमैश्वरीमुच्चकैरवसरोऽजराजिताम् ॥' (६ ) तृतीयपादश्चतुर्थे चेतदा पुच्छम् । यथा'उत्तुजमाताकुलाकुले यो व्यजेष्ट शत्रून् समरे सदैव । ससारमानीय महारिचकं ससारमानीयमहाऽरिचक्रम् ॥' (७) प्रथमपादस्त्रिष्वपि यम्यते चेत्तदा पङ्क्तिः । यथा-'तनुशङ्करवैरसमायतया तनुशङ्करवैरसमायतया । तनु शंकर वै रसमायतया तनुशंकर वैरसमायतया ॥' 'हे शङ्कर ! मा मां रस सम्भावय । मां प्रति स्त्रवचनामृतं मुञ्चति । वै प्रसिद्धौ । कैः । अतनु यथा स्यात्तथा ये तनुशङ्का निःशङ्का रखा भक्तजनान् प्रत्यभयदानवचनानि तैः । कीदृशं मा कर्मभूतम् । असमोऽनन्यसदृशोऽयः शुभावहो विधिर्यस्य सोऽसमायः, तस्य भावस्तत्ता तयाऽसमायतयोपलक्षितम् । कथम्भूतयाs. समायतया। आयतयाऽनियतया । हे विभो, शं कैवल्यलक्षणं तनु विस्तारय,अहं रसं भक्तिरसं करवै। त्वं मा माम् अतनु. शम् अतनुः कामस्तं श्यति तनूकरोतीत्यतनुशस्तथाभूतं कर कुर्वित्यर्थः । करेति च्छान्दसः प्रयोग: । 'छान्दसा अपि क्वचिद्भाषायां प्रयुज्यन्ते' इति वचनात् । कया हेतुभूतया । वैरसमायतया वैरेणान्तरारपुसद्भावजनितेन, सह मायया वर्तत इति समायः । तस्य भावस्तत्ता तया । कीदृश्याऽऽयतया विस्तीर्णया ।' इति तदर्थः । 'यमकं तु विधातव्य न कदाचिदपि त्रिपात् ।' इति नियमादेकस्यापरपादद्वयगतत्वेन भेदो न भवतीत्यसङ्कीर्ण पादगतं यमकं सप्तधैव । (८) प्रथमः पादश्चतुर्थे पादे द्वितीयस्तृतीये चेद् यम्यते तदा वृत्तिगर्भयोगात् परिवृत्तिः । यथा-'मुदा रताऽसौ रमणीयतायां स्मरस्यदोऽलंकु-रुते नवोढा । स्मरस्यदोऽलंकुरुतेऽनवोढामुदारतासौ रमणीयतायाम् ॥' (९) प्रथमो द्वितीये तृतीयश्चतुर्थे चेद् यम्यते तदा मुखपुच्छयोगाद् युग्मकम् । यथा-'शमित-पङ्गमसज्ज-नतापदं शमितसङ्ग. मसज्जनतापदम् । न-मत-काममहीन-विभासितं नमत काममहीन-विभा-सितम् ॥' इत्यर्थाभ्यासमृते पादद्वयावृत्ती द्वयमिति नव । (१०) अर्धावृत्तिः समुद्रकम् । यथा-'कलि-तमो-हनमारव-राजितं स्मर हरं शिखि-चन्द्रकलाऽञ्छितम् । कलितमोहन-मारवरा-ऽजितं स्मरहरं शिखिचन्द्रकलाञ्छितम् ॥' (११) श्लोकावृत्तिमहायमकम् । यथा-'सकलशं सकपालमलङ्कृतप्रमदमस्थिरसं मदनाशनम् । भवमदभ्र-महानिधने हितं शमनमज्जनमानमताऽलयम् ॥ 'सकल-शंसक-पालमलं कृतप्रमदमास्थिर-सम्मद-नाशनम् । भव-मद-भ्रम-हानि धनेहितं शम-नमज्जन-मानमताऽऽलयम् ॥''अदभ्रं यन्महद् अनिधनम् अविनाशित्वं निजभक्तजनदेयं तत्र हितम् । शमनं यमं मजयतीति, तं शमनमज्जनम् । अलयं निर्माशम् । सकला ये शंसकाः स्तुतिकर्तारस्तान् पालयति तथाभूतम् । कृतः प्रमदः परमानन्दो येन तादृशम् । भवे संसारे यो मदस्तेन यो भ्रमस्तस्य हानिः, सैव धनं येषां ते संसारभ्रमविरक्तास्तरीहितस्तम् । शमेन नमन्तो ये जनास्तेषां मानार्थ मतोऽङ्गीकृतः आलयः प्रतिदेहस्थितिरूपो येन तादृशम् । शेषं स्पष्टम् ।' इति तदर्थः । एतद्वितयमपि पादावृत्तिविशेष इत्येकादश पादयमकानि । पादभागवृत्ति ( यमकं ) त्वनेकविधम्-द्विधा विभक्तेषु पादेषु प्रथमादिपादानामाद्यभागाः पूर्ववद्वितीयादिपादेष्वाद्यभागेष्वेव यदि यम्यन्ते तदा पूर्ववन्मुखादयो दश मंदा उत्पद्यन्ते । यथा-प्रथमपादाद्यभागो द्वितीयततीयचतुर्थपादाद्यभागेषु यम्यत इति त्रिधा । द्वितीयपादाद्यभागस्ततीयच. तुर्थपादाद्यभागयोर्यम्यते इति द्विधा । तृतीयपादाद्यभागश्चतुर्थपादाद्यभागे यम्यत इत्येकः । प्रथमपदाद्यभागन्त्रिष्वपि आद्यभागेषु यम्यत इत्यन्य इति सप्तासङ्कीर्णभेदाः । प्रथमपादाद्यभागसमानो द्वितीयपादाद्यभागस्तृतीयपादाद्यभागसमान श्चतुर्थपादाद्यभाग इत्येकः सङ्करः । प्रथमपादाद्यभागस्तृतीयपादाद्यभागसमानो द्वितीयपादाद्यभागश्चतुर्थपादाद्यभागसमान इत्यपरः सङ्कर इति नव । अर्धावृत्त्या समं पूर्ववद्दश भेदाः। एवं प्रथमादिपादानामन्त्यभागस्य द्वितीयादिपादान्त्यभागेष्वेवयमने पूर्ववद्दश भेदा जायन्ते । यथा-प्रथमपादान्त्यभागस्य द्वितीयतृतीयचतुर्थभागेषु यमने त्रिधा । द्वितीयपादान्त्यभागस्य तृतीयचतुर्थपादान्त्यभागयोर्यमने द्विधा । तृतीयपादान्त्यभागस्य चतुर्थपादान्त्यभागे यमन एकः । प्रथमपादान्त्यभागस्य त्रिष्वव्यन्त्यभागेषु यमन इत्यपर इति सप्तासङ्कीर्णाः । प्रथमपादान्त्यभागद्वितीयपादान्त्यभागयोस्तृतीयपादास्य.