________________
१३४
साहित्यदर्पणः ।
७० सत्यर्थे पृथगर्थायाः स्वव्यञ्जन संहतेः ।
[ दशमः
क्रमेण तेनैवावृत्तिर्यमकं विनिगद्यते ॥ ६१ ॥
अत्र द्वयोरपि पदयोः क्वचित् सार्थकत्वं क्वचिन्निरर्थकत्वं क्वचिदेकस्य सार्थकत्वम् अपरस्य निरर्थकत्वम्, अत उक्तम् 'सत्यर्थे' इति, 'तेनैव क्रमेणे'ति'दमो मोद' इत्यादेविभक्तविषयत्वं सूचितम् । एतच्च पदपादार्द्धश्लोकावृत्तित्वेन पादाद्यावृत्तेश्च अनेकविधतया प्रभूततमभेदम् । दिङ्मामुदाह्रियते -
अथ यमकालङ्कारमाह-७० सतीत्यादिना ।
७० अर्थे वाच्यार्थे इत्यर्थः । सति । पृथगर्थायाः पृथग्भिन्नोऽर्थो यस्यास्तस्याः । स्वरव्यञ्जनसंहते: स्वरसहिते व्यजने इति, स्वरसहितानि व्यञ्जननीति वा तयोस्तेषां वा संहतिः समुदाय इति तस्यास्तथोक्तायाः । शाकपार्थिवादिवन्मध्यमपदलोपः: । 'स्वराश्च व्यञ्जनानि चेति तेषां संहतिस्तस्याः ।' इति तु न युक्तम्, 'द्वन्द्वान्ते श्रूयमाणं पदं प्रत्येकमभिसम्बध्यते ।' इति नयेन संहतिपदस्य प्रत्येकमन्वयापत्त्या 'स्वरसंहतेः' 'व्यञ्जनसंहतेः' इत्यर्थापत्तेः । तेन पूर्वेण । एव नतु विपरीतेन । क्रमेण । आवृत्तिः पुनः पाठः । यमकं तन्नामाऽलङ्कार इत्यर्थः । यमौ द्वौ समानजातिकाविति यावत्, तत्प्रतिकृतिरिति तथोक्तम् । 'इवे प्रतिकृतौ ।' ५ । ३ । ९६ इति कन् । यद्वा-यमयति नियमयति स्त्ररव्यञ्जनसंहतिं क्रमेण निवेश्यत्वेनेति यमकम् । '० वुल्तृचौ ।' ३ । १ । १३३ इति एबुल । विनिगद्यते ॥ ६१ ॥
इदं तत्त्वम्-लाटानुप्रासोऽभिन्नार्थायाः स्वरव्यञ्जनसंहतेः पुनरुक्तौ, अयं तु विभिन्नार्थाया इति विशेषः । ' शुभवते भवते' इत्यादावाद्याया: 'भवता भवतापभीतोऽहम्' इत्यादावन्त्याया आवर्त्त्यमानायाः स्वरव्यजन संहतेरनर्थकतया - प्रसङ्गनिवारणाय 'सत्यर्थे' इत्युक्तम् । यद्यर्थस्तदा पृथग्भूत इत्यर्थः । ' वंदे देवं" इत्यादावतिप्रसक्तिवारणाय ' क्रमेण तेनैवावृत्तिः' इत्युक्तम् । अत्र स्वरव्यञ्जनसंहतेः साम्येऽपि न स क्रमः । एवं च समानार्थकत्वाभाववत्समानानुपूर्वी कस्वरसंवलितव्यञ्जनसंहत्यावृत्तिर्यमकम् । इति । तदिदं विवृणोति - अत्रास्मिन् यमके इति यावत् । क्वचित् 'सुषमया समया दिवमञ्चति ॥' इत्यादौ इत्यर्थः । द्वयोर्यस्यावृत्तिर्विधीयते यच्चावत्र्त्यते तयोरुभयोरायस्यान्त्यस्य चेत्यर्थः । अपि । पदयोः स्वरसंवलितव्यञ्जनसंहतिविशेषयोः । सार्थकत्वम् । क्वचित् 'विजयते जयतेपि त शात्रवम् ॥' इत्यादाविध्यर्थः । 'पुन 'रिति शेषः । निरर्थकत्वम् । कचित् 'द्वयोरपि पदयोः' इति पूर्वेणान्वयः । अथ क्वचित् 'भवता
ततोऽहम् ॥' 'समुदितं मुदितं भुवि तत् पुरम् ॥' इत्यादावित्यर्थः । एकस्य तयोर्द्वयोरेकतरस्यायस्यान्त्यस्य वेति यावत् । सार्थकत्वम् । अपरस्य तद्भिन्नस्येत्यर्थः । निरर्थकत्वम् । अतोऽस्मात् कारणात् । 'अर्थे । खति।' इति । उक्तम् । अयम्भावः यत्र सार्थकत्वं तत्र पृथगर्थत्वमेव । अन्यथा लाटानुप्रासेनैक्यं स्यात् । अत एवाहु: प्रदीपकाराः - 'अर्थे सतीति । यद्यर्थस्तदा भिन्न इत्यर्थः । इति । एवं च पृथगर्थे वावर्त्त्यमाना स्वरसंवलितव्यञ्जनसंहतियमकमिति फलितम् । तेन पूर्वेण । एव । क्रमेण 'पृथगर्थायाः स्वरव्यजन संहतेरावृत्तिर्यमक' मिति शेषः । इत्यभिधानेनेत्यर्थः । 'दम इंद्रियजयः । मोद आह्लादः ।' इत्यादौ 'पृथगर्थायाः स्वरव्यञ्जनसंहतेः ।' इत्यर्थः । विभक्तविषयत्वं विभक्तः पृथक्कृतो विषयो यस्य तत्त्वम् । सूचितम् । अयम्भावः - 'दमो मोदः' इत्यादौ पृथगर्थत्वमपि स्वरव्यञ्जनसंहतिरपि पूर्वक्रमस्य पर परित्याग इतीदं नास्य विषयः । इति । एतद् 'यमक' मिति शेषः । च । पदपदार्धश्लो
वृत्तित्वेन | पदावृत्तिरूपत्वेन पदार्थावृत्तिरूपत्वेन श्लोकावृत्तिरूपत्वेन चेत्यर्थः । पादाद्यावृत्तेः । आदिना पादद्वयादेह णम् । च । अनेकविधतयाऽनेकप्रकारैरवस्थिततया । प्रभूततमभेदं प्रभूततमा अतिसङ्ख्याका भेदा यस्य तत्तथोक्तम् । इदं बोध्यम्-अयं चालङ्कार एकस्मिन् पादे द्वयोर्वा पादयोश्चतुर्ष्वपि वा पादेषु प्रयोज्यः, न तु त्रिषुः 'यमकं तु विधातव्यं. न कदाचिदपि त्रिपात् ।' इति निषेधात् । अत एवोक्तं कविराजै: -- ' यमकस्य पादत्रयगतस्याप्रयुक्तत्वं दोषः ।' इति । अद टिप्पणीकाराः प्राहु: ( १ ) 'यदि प्रथमपादो द्वितीये यम्यते तदा मुखयमकम् । यथा - 'दर्पकान्तकविराजमानयादपैकान्तकविराजमानया । त्वत्प्रसादविधिलब्धया धिया साधवो दधति वैबुध धुरम् ॥' ( २ ) प्रथमस्तृतीयपादे चेत् तदा संदेशः । यथा- 'सन्नारीभरणोपायमाराध्य विधुशेखरम् । सन्नारीभरणोऽप्रायस्ततस्त्वं पृथिवी जय ॥'