________________
परिच्छेदः ]
रुचिराख्यया व्याख्यया समेतः। "नयने तस्यैव नयने च ।” अन्न द्वितीयनयनशब्दो भाग्यवत्त्वादिगुणविशिष्टत्वरूपतात्पय॑मात्रेण भिन्नार्थः। यथा वा
"यस्य न सविधे दयिता दवदहनस्तुहिनदीधितिस्तस्य ।
यस्य च सविधे दयिता दवदहनस्तुहिनदीधितिस्तस्य ॥ ७६ ॥' , अत्र अनेकपदानां पौनरुत्यम्, एष च प्रायेण लाटजनप्रियत्वाल्लाटानुप्रासः ।
६९ (अ) नुप्रासः पञ्चधा ततः ॥ ६० ॥ स्पष्टम् ।
'तस्य तादृशस्य सुभगस्य । एव । नयने । नेत्रद्वयम् । च पुनः । नयने भाग्यवत्ताऽऽदिगणविशिष्टे ।' अत्रास्मिन्नुदाहृते येनानुपममनोज्ञे ! रमिताऽसि विलोकिताऽसि वा जातु । सुभगः स एव सुभगो नयने तस्यैव नयने च ॥' इति पद्यांशे इति यावत् । द्वितीयनयनशब्दो द्वितीयो द्वितीयवारं पठितोऽसौ नयनशब्दः 'स्वार्थेऽसम्भवन्' इति शेषः । भाग्यवत्ताऽऽदिगुणविशिष्टरूपतात्पर्यमात्रेण भाग्यं सौभाग्यमनयोरस्तीति तत्ता आदिर्येषां (महनीयतादीनाम् ) ते,तथोक्ता अमी गुणा इति तैर्विशिष्ट इति तत्त्वं तद्रूपं च यत्तात्पर्य्य वक्तुरभिप्रायस्तन्मात्रेणेति तथोक्तेन अभेदे हेतौ वा तृतीया । भिन्नार्थों भिन्नोऽर्थो यस्य स तथोक्तः । अत एव नात्र लाटानुप्रासः, किन्तु-अर्थान्तरसड़कमितवाच्यो ध्वनिरेख' इति शेषः । 'अत्रायम्भाव:-'स्मेरराजीवनयने नयने' इत्यत्रोभययोरपि नयनपदार्थयोः प्रातिपदि. कांशद्योत्यधर्मिरूपस्याभिन्नतया पौनरुत्येऽपि तात्पर्य्यमात्रे भेदालाटानुप्रासः, 'नयने तस्यैव नयने च' इत्यत्र तु द्वितीयो नयनपदार्थः स्वार्थेऽसम्भवलक्षणया भाग्यवत्ताऽऽदिगुणविशिष्टत्वरूपतात्पर्य्यमात्रेणार्थान्तरसमितता नीत इति न लाटानुप्रासः, किन्तु-अर्थान्तरसङ्क्रमितवाच्यो ध्वनिरेव । इति ।
यथा वा-“यस्य पुरुषस्य' इति शेषः । सविधे समीपे। 'समीपे निकटासन्नसन्निकृष्टसनीडवत् । सदेशाभ्याशसविधसमर्यादसवेशवत ॥...' इत्यमरः । दयिता प्रिया । नशेते'इति शेषः । तस्य तथाभूतस्य । तुहिनदीधितिश्चन्द्रः । तुहिनं हिमं दीधितिषु किरणेषु यस्य, तुहिनास्तुहिनवद् वा शीतला दीधितयो यस्य स इति तथोक्तः । 'भानुः करो मरीचिः स्त्रीपुंसयोर्दीधितिः स्त्रियाम् ।' इत्यमरः । दवदहनो वनाग्निः । 'विरहोद्दीपकतया भवतीति शेषः । यस्य । च पुनः । अत्र समुच्चेयार्थासम्भवात्'चे तित्वि'त्यर्थे । सविधे। दयिता। 'शेते'इति शेषः । तस्य दयितयाऽनुगृहीतस्य । दवदहनो वनाग्निः । तुहिनदीधितिश्चन्द्रः । 'भवती'ति शेषः । एवमुभयथाऽपि रूपकम् ॥' अत्रार्या छन्दः,लक्षणं प्रोक्तं प्राक् ॥ ७६ ॥"
अत्रेदं बोध्यम्-'सविधे..' इत्यादीनामनेकेषां पदानां तात्पर्य्यमात्रभेदेनाभ्रेडनमित्यनेकपदगतो लाटानुप्रासः । पूर्वत्र-तुहिनदीधितिमुदिश्य दवदहनत्वम्, उत्तरत्र पुनर्दवदहनमुद्दिश्य तुहिनदीधितित्वं विधीयते; इत्यनयोरेव वैपरीत्येन विधेयत्वम्, नतु क्रमेण तापकरत्वस्य शैत्यकरस्य वा, तथा सति भिन्नार्थत्वापत्त्या लाटानुप्रासोदाहरणं न सङ्गच्छेत । उद्देश्य विधेयभाववैपरीत्येन शाब्दबोधरूपान्वयभेदात्तात्पर्य्यभेदे स्फुटो लाटानुप्रासः । इति । तदेव निर्दिशतिअत्र । अनेकपदानां सविधे"स्तस्ये'त्येतेषामनेकेषां पदानामित्यर्थः । पौनरुतयं 'सति तात्पर्यभेदेऽथैक्यात् इति शेषः । एषः । च । प्रायेणाधिक्येन । लाटजनप्रियत्वालाटस्तन्नामा देशबिशेषश्चतुरो वा तस्य सोऽसौ वा जनस्तत्प्रियत्वात् । 'कारणात्' इति शेषः । 'लाटो देशविशेषे स्वाक्षे वस्त्रे तु न द्वयोः।' इति श्रीकण्ठः । लाटानुप्रासो लाटो लक्षणया लाटप्रियोऽसावनुप्रास इति तथोक्तः ।
एवं सप्रभेदमनुप्रासमभिधाय तत्प्रभेदसङ्ख्यामाह-६९ अनुप्रास इत्यादिना ।
६९ अनुप्रासो निरुक्तलक्षणोऽलङ्कारविशेषः। पञ्चधा पञ्चविधः 'छेक-वृत्ति-श्रुत्य-न्त्य-लाटोपाधिभेदात' इति शेषः । मतः । 'आलङ्कारिकैरिति शेषः ॥६॥
नात्र किञ्चिद्विवरणीयमित्याह-स्पष्टम् । इति ।