________________
१३२
साहित्यदर्पणः ।
[ दशम:
उदाहरणम् ।
" स्मेरराजीवनयने ! नयने किं निमीलिते । पश्य निर्जितकन्दर्प कन्दर्पवशंगं प्रियम् ॥७५ || " अत्र विभक्त्यर्थस्यापौनरुक्तयेऽपि मुख्यतरस्य प्रातिपदिकांशद्योत्यधर्मिमरूपस्याभिन्नार्थत्वालाटानुप्रासत्वमेव ।
पौरुत्यमित्येकपदगतः । अत्र प्राथमिकस्य विधेयपरत्वं, द्वितीयस्योद्देश्यपरत्वमिति तात्पर्य्यानैक्यम् । अत एवाहु:- 'अत्रायसुधाकरपदस्य लाक्षणिकत्वेऽपि प्राग्वदर्थाभेदः ( प्राग्वत्- 'यस्य न सविधे दयिता' इत्यत्रेव ) । उद्देश्य विधेयभावभेदाश्च तात्पर्यभेदः । ' इति । 'सितकर कररुचिरविभा विभाकराकार ! धरणिधर ! कीर्तिः । पौरुषकमला कमला साऽपि तवैवास्ति नान्यस्य ॥' इत्यत्र 'कमला कमले 'ति पूर्वस्य समासः उत्तरस्यासमास इति समासासमासगतः, 'करकरे' त्येकसमास इत्येकसमासगतः । ‘विभा, विभेति विभिन्नौ समासाविति विभिन्नसमासगतः । एवं त्रिविधोऽप्यत्रैव द्रष्टव्यः । इति ।
उदात्तुमुपक्रमते - उदाहरणम् । 'यथा' इति शेषः । 'हे स्मेरराजीवनयने स्मेरे प्रफुले ये राजीवे कमले इति ते इव नयने यस्यास्तत्सम्बुद्धौ तयो के ! । 'स्मेरं विकसिते किञ्चिद्वास्ययुक्ते च वाच्यवत् ।' इति श्रीधरः । 'बिसप्रसूनराजीवपुष्कराम्भोरुहाणि च ।' इत्यमरः । नयने । किं किमु । निमोलिते। ' त्वये' ति शेषः । ' स्मेरराजीवनयनाया नयनस्मेरत्वमेव स्थाने, नतु तदभावः, तस्मात् यथा तवेदं स्मेरराजीवनयनत्वं सङ्गच्छेत तथा त्वया यतितव्यम् । इति ' भात्रः । अथ नयनोन्मीलनस्यापि साफल्यमाह-निर्जितकन्दर्प निर्जितः कन्दर्पः कामो येन ( स्वसौन्दर्येण ) तम् । अथापि - कन्दर्पवशगं कन्दर्पस्य वशमाधीन्यं गच्छतीति तम् । मदनेन वशीकृतमिति भावः । ' अन्यत्रापि दृश्यते इति वक्तव्यम् ' इति ङः । प्रियम् कान्तम् । पश्य अवलोकय | अत्रेदं बोध्यम्-असौ रतिकलहे कुपितस्यापि कामनिर्जिततया कोपमपहाय स्वयमुपतिष्ठतः स्त्रविरहे स्वमेत्र ध्यायन्तीं प्रियां प्रति कस्याप्यनुनयोक्तिः । स्मेररा जीवनयनत्वेन सम्बोध्यां प्रति नयननिमीलनत्वाभिधानं निश्शेषेण कन्दर्पजयिनश्च स्वस्य तद्वश्यत्वाभिधानं विरुद्धम्, स्मेरराजीववन्नयनयोर्दिव्यत्वमात्रावेदनं, सौन्दर्येण कन्दर्पजयिनो रागेण तद्रश्यत्वावेदनं चेष्टमिति विरोधाभावाद्विरोधाभासः । इति ॥ ७५ ॥
लक्ष्यं समर्थयते-अत्र 'स्मेरराजीवनयने ! नयने' इत्यंशे इति भावः । विभक्त्यर्थस्य । अपौनरुक्त्ये पुनरुक्तत्वाभावे । 'भिन्नत्वेने 'ति शेषः । अपि । प्रातिपदिकांश द्योत्यधर्मिरूपस्य प्रातिपदिकस्य 'अर्थवदधातुरप्रत्ययः प्रातिपदिकम् ' १। २४५' कृत्तद्धितसमासाश्च ।' १।२।४६ इत्युक्तदिशा प्रकृते 'स्मेरराजीवनयन' इत्यस्यांशोऽवयवः 'नयन' इत्यात्मकस्तेन द्योत्यो Staff पदार्थस्तस्येत्यर्थः । मुख्यतरस्यातिशयेन मुख्य इति तस्य । अभिन्नार्थत्वाद्भेदाभावात् । 'पौनरुत्य मिती' ति शेषः । लाटानुप्रासत्वं लाटोऽनुप्रासो यत्र तत्त्वम् । एव अत्रेदं तत्त्वम्- 'समासे खलु भित्रैव शक्तिः पङ्कजशब्दवत् । ' इति नयेन प्रकृते 'स्मेरराजीवनयने' इति समुदिते शक्तिः, शक्तिमचैव तदेव तदेव प्रातिपदिकं च; शक्तिमद्भिनस्य प्रादिपदिकत्वानुपपत्तेः । तस्य प्रकृतिप्रत्यययोः प्रकृतेरेव बलीयस्त्वम् आश्रयत्वात्' इति टाप्प्रत्ययस्याप्रधानतया तद्भिन्नस्यैव प्राधान्यमिति'टाबू' भिन्नत्वे सति यदवशिष्टं तत् 'स्मेरराजीयनयन' इत्येतावत् प्रातिपदिकं तस्य च विवक्षावशात् 'नयन' 'इत्येतावानंशः प्रकृतोपयुक्तः, तेन द्योत्यो धर्मिरूपो 'नयन' पदार्थ:, असौ च द्वितीयेन सजातीयेन 'नयन' पदार्थेनाभिन्न एवेति स्फुटमभिन्नार्थतया पुनरुक्तत्वं तेन च लाटानुप्रासो निर्बाधः । अत्र 'स्मेरराजीवनयने ' इति समुदिते एक प्रातिपदिकत्वेनाभिमन्तव्येऽपि प्राधान्येन व्यपदेशा भवन्ती' ति 'नयन' इत्येतदेव प्रातिपदिकं कल्प्यम्, तदेवांशस्तेन द्योत्यस्य धर्मिलास्य'नयन'इत्येतस्येत्यर्थः । 'स्मेरराजीव' इति 'टापू' इति च तत्रैव प्रकारीभूततयाऽप्रधानम् ।' इत्येके, 'स्मेरराजीवनयन' इत्येतावत्प्रादिपदिकं तस्यांशो 'नयन' इति । अन्यत् स्पष्टम् ।' इत्यपरे 'नयने' इत्येतावत् प्रातिपदिकं तदेवांशः । 'अंश' इतिशब्दोऽविवक्षित एव । अन्यत् स्पष्टम् ।' इति बहवः प्राहुः । अत्र पूर्वस्य समस्ततया, उत्तरस्य तदभावात्स मासासमासगतत्वम् । इति । अत्राहुः - कृतद्धितादिगतोऽप्ययं दृश्यते, यथा- 'हंसायते चारुगतेन कान्ता कान्तायते स्पर्शसुखेन
। वायुर्यथा वा न वाति सद्वाक् सद्वाक्कृतं चारु न चारु चान्यत् ॥ ' इत्यादौ । इति ।
तु एवमर्थान्तरसङ्क्रमितवाच्ये ध्वनावापाततः शब्दार्थयोः पौनरुक्यं प्रतिभासते, पर्यवसाने वक्तृतात्पर्यविषयविशेषणान्तरप्रतीत्या भिन्नार्थत्वमिति तत्राप्ययमेवास्तामिति चेनेत्यभिसन्धायाह - 'नयने' इत्यादि ।