________________
परिच्छेदः)
रुचिराख्यया व्याख्यया समेतः ।
१
.
चक्षुर्दग्धवराटककल्पं त्यजति न चेतः काममनल्पम् ॥ ७४ ॥ पदान्तगो यथा-"मन्द हसन्तः पुलकं वहन्तः' इत्यादि। ६८ शब्दार्थयोः पौनरुत्यं भेदे तात्पर्य्यमात्रतः ।
लाटानुप्रास इत्युक्तो
शिशुः।' इत्यमरः । उष्टशावकवत् कुजतयाऽलडियमाण इंति भावः । कायः शरीरम् । एवम्-दग्धवराटककल्प दग्घो यो वराटकस्तस्मात् किञ्चिन्यूनमित्यर्थः । वराटकः पद्मबीजकोशः कपर्दिका वा । 'वराटकः पद्मबीजकोशे रज्जो कपर्दकें ।' इति कोशः । ईषदसमाप्तौ कल्पदेश्यदेशीयरः । ५' । ३ । ६७ इति कल्पः । दग्धवराटकवन्निज्योतिष्कमिति भावः । चक्षः। तदपीति शेषः । चेतः। अनल्पम् । कामम् (कर्म)न । त्यजति 'इति चित्रम्' इति शेषः । वार्द्धक्यदुःखेन निर्विष्णस्योक्तिरियम् । चतुष्पदी छन्दः । तल्लक्षण यथा-'षोडशकलाश्चरणगा यस्याश्चतुष्पदीत्यभिधा खलु तस्याः।' इति । अत्रेदं बोध्यम्-निर्विग्णत्वरूपे कारणेऽभिहितेऽपि कामपरित्यागरूपस्य कार्य्यस्योत्पत्त्यभावाभिधाना द्विशेषोक्तिः, एवं यौवनरूपकारणाभावेऽभिहितेऽपि कामापरित्यागरूपकार्याभिधानाद्विभावना, 'यदपि तदपी'ति शब्दयोरदर्शनात्तयोव्यङ्गयत्वमात्रम् । प्रकृते तथा विरुद्धशीलयोस्तयोः कतमेति सन्देहात्तन्मल: सन्देहसङ्करो जयति। पादान्ते 'कासलासे त्यादीनामन्त्यमात्रस्य सादृश्यादन्त्यानुप्रासस्तथा प्रत्यक्षसिद्धः । इति ॥ ७४ ॥'
पदान्तगः । यथा-'मन्दं..'इत्यादौ।
'मन्दमल्पम् हसन्तो हासं कुर्वन्तः । अत एव प्रेम्णा-पुलकं रोमोद्गमम् । वहन्तः । इत्यादि 'गोष्टी श्रयन्तश्चषकं पिबन्तः । रतिं नयन्तः सुविकाशमन्तः प्रियां स्पृशन्तः स्वरिवावसन्तः ॥' इति शेषः ॥ स्वरिव स्वर्गे इवावसन्तो मोदन्ते इति भावः । यथा वा मम पादान्ते 'म्लायति दर्शदर्श तव मुखमपरस्य दुर्लभादर्शम् । तदिति ग्लौरिति लोके प्रथितं चन्द्रं समालोके ॥' इति । यथा वा पदान्ते 'सारासारविद. सताम्भयभिदः प्रहोपतापच्छिदः कारुण्याहृदः प्रपन्नसुहृदः स्फारीभवत्संविदः । त्राताशेषविशः प्रकाशितदिशः कीर्त्या महीनिर्विशः कर्षन्तीश ! निशः प्रसक्तसुदृशस्त्वत्पादपीठस्पृशः ॥' इति । अत्राहुः सूत्रकारा:-'पूर्वस्वरविनाकृतस्याप्यन्त्यव्यन्जनस्यावृत्तिदृश्यते । यथा-'पुनरपि मरणं पुनरपि जननं पुनरपि जननीजठरे शयनम् । क्षणमपि सज्जनसङ्गतिरेका भवति भवार्णवतरणे नौका ॥' इति । अत्रेदं तत्त्वम्-अनुप्रासो हि स्वरसाम्यं नात्यपेक्षते । अत एवेदं सङ्गच्छते । इति । ___ अथ सार्थकत्रनुप्रासं निरूपयति-६८ शब्दार्थयोरित्यादिना ६८ । - तात्पर्य्यमावतस्तात्पर्य्यमेवेति तस्मात्तथोक्तात् । भेदे । 'सती' ति शेषः । शन्दथियोः शब्दस्यार्थस्य चेत्यर्थः। पौनरुत्य पुनरुक्तत्वम् । लाटानु पासो लाटोऽसाचनुप्रासः । इति । उक्तः । लाटो देशविशेषः, लक्षणया तत्रत्यजनप्रियोऽपि लाटः,तस्मालाटो नामायमनुप्रासः ।
अस्यम्भावः-तात्पर्य्य नाम उद्देश्यविधेयभावादिरूपः, कर्तृकर्मत्वादिरूपश्च पदार्थयोः सम्बन्धः। तन्मात्राद्भदे (नतु स्वर तःकमतश्च भेदेऽपि ) शब्दार्थयोरुभयोर्नतु केवल शब्दस्य नवाऽर्थस्य यत् पुनरुक्तत्वमाटुडितत्वं तत् लाटजनवल्लभत्वाल्लाट इति व्यददेश्योऽनुप्रासः । तथा च-यत्र स्वरूपत एव नतु तात्पर्येक्यादपि, शब्दार्थयोः पौनरुत्यं, तल्लाटो नाम 'अनुप्रासः शब्दसाम्य'मित्यादिनाऽभिहितस्वरूपोऽनुप्रासः । इति फलितम् । अत्र तात्पर्येक्याभावे पौनरुक्त्यं, न दोषाय, किन्तु साम्यायैव, तेन-अन्वयभेदे सति समानानुपूर्वीकतया समानस्वरूपयोः शब्दार्थयोरनतिव्यवहिता पुनरुक्तता निरवद्यतयाऽवतिष्ठमाना लाटानुप्रासकृते इति सिद्धम् , एवम्-'यातुयातु' इत्यादावन्वयभेदाभावात, 'कदली कदली' इत्यादावर्थस्यापुनरुतत्वाच नातिव्याप्तिः । अयं च-पदगस्तदेश गतश्चेति द्विविधः, तत्राप्याद्यः-अनेकपदगत एकपदगतश्चेति द्विविधः, अन्यः पुनः-समासासमासगत, एकसमासगतो विभिन्नसमासगतश्चेति त्रिविधः, तस्मादनेकात्मेति सिद्धम् । अत्र समासासमासगतोऽनेकपदगतश्च मूल एवोदाहारष्येते, अन्ये पुनर्यथाक्रमेण-'वदनं वरवर्णिन्यास्तस्याः सत्यं . सुधाकरः । सुधाकरः व नु पुनः कलविकलो भवेत् ॥' इत्यत्र 'सुधाकर' इत्येकस्यैव सार्थकस्य पदस्य तात्पर्यभेदेन