________________
साहित्यदर्पणः ।
[दशमःउच्चार्यत्वात् सादृश्यम् । एवं दन्त्यकण्ठ्यानामप्युदाहार्य्यम् । एष च सहदयानामतीव श्रुतिसुखावहत्वात् श्रुत्यनुप्रासः।
६७ व्यञ्जनं चेद् यथावस्थं सहायेन स्वरेण तु ।
आवर्त्यतेऽन्त्ययोज्यत्वादन्त्यानुप्रास एव तत् ॥ ५९॥ "यथाऽवस्थम्" इति यथासम्भवमनुस्वारविखर्गस्वरसंयुक्ताक्षरविशिष्टम् । एष च प्रायेण पादस्य पदस्य चान्ते प्रयोज्यः। पादान्तगो यथा मम
"केशः काशस्तवकविकासः कायः प्रकटितकरभविलासः ।
इति । अत्र । जकारयकारयोः एकत्रैकस्मिन् । तालौ तालुरूपे स्थाने । उच्चार्यत्वात् 'कारणा'दिति शेषः । सादृश्यं सावर्ण्यम् । 'अतोऽत्र श्रुत्यनुप्रास'इति शेषः । अत्रेद बोध्यम्-योहि हरेण दृपेणोपायेन दाहं नीतस्तस्य मदनस्य दाहहेतुभूतेनैव तेन दृग्रपेणोपायेन हरं जिगीषुभिर्वामलोचनाभिजीवनरूपस्य तद्विपरीतस्य कार्यस्य सम्पादितत्वाद व्याघातः । यद्यपि विरूपाक्षगवामलोचनादृशोर्नेक्यम्, तथाऽपि दृशोरेकजातीयतया व्याघात एव, यद्वा-कार्य्यवे. जात्यस्य कारणवैजात्यप्रयोजत्वादेकजातीयाद्विजातीयकाऱ्यांभिधानाद् व्याघात एव । तथा-'जीवयन्ती'त्यादौ जकारयकारयोः 'इचुयशानां तालु' इत्युक्त्या तालुरूपस्थानक्यात्सावण्ये श्रुत्यनुप्रासः । इति ।
__ अन्यत्राप्येवमुदाहायमित्याह-एवं यथाऽस्य तालुस्थानीयस्य तथा । दन्त्यकण्ठ्यानाम् । अपि । 'सावयँ' इति शेषः । उदाहार्यमुदाहरणीयमन्यद्गवेषणीयमिति भावः ।
यथावा-'अद्याप्युन्मदयातुधानतरुणीचञ्चत्करास्फालनव्यावलगन्नृकपालतालरणितैर्नृत्यत्पिशाचाङ्गनाः । उद्गायन्ति यशासि यस्य विततै दैः प्रचण्डानिलप्रक्षुभ्यत्करिकुम्भकूटकुहरव्यक्तै रणक्षोणयः ॥' इत्यत्र 'लतुलसानां दन्ताः' इति नधेन 'तुधानत' इति दन्त्यानां साम्यात् , 'ऋटुरषाणां मूर्धा' इति 'रुणी' त्यत्र मर्द्धन्ययो रणयोः साम्यात्, श्रुत्यनु. प्रासः । यथा वा मम-'अयि यदि जयसि शशाङ्क निरुपमसौभगलसन्मुखि ! स्थाने । अधरसुधाया अधरं निपाय्य हननं परं परमम् ॥' इत्यत्र प्रथमे तालव्यानां द्वितीये दन्त्यानामेवं तृतीये साम्याच्छ्रत्यनुप्रासः । इति दिक्।
अथास्य सार्थकता दर्शयति-एषः । च। सहदयानां सचेतसां काव्यमार्मिकाणामिति यावत् । अतीवात्यन्तम् । श्रुतिसुखावहत्वाच्छृत्योः कर्णयोर्यत् सुखमानन्दस्तस्यावहत्वात् कारणात् । श्रुत्यनुप्रासः । इति गीयते' इति शेषः।
अथ चतुर्थमाह-६२ व्यञ्जनमित्यादिना ।
६७ चेद यदि । आयेन । स्वरेणाचा । सह । तु पुनः । यथाऽवस्थम् । व्यञ्जनम् । आवर्त्यते पुनः पठ्यते । तत्तर्हि । अन्त्ययोज्यत्वादन्तेऽवसाने योजयितुं योक्तुमर्ह मिति तत्वात्तथोक्तात् कारणात् । अन्त्यानुप्रासो. अन्त्योऽसावनुप्रास इति तथोक्तः । एव न त्वन्यत्रान्तर्भाव्य प्रत्याख्यातुं शक्यः, एवं तन्मलस्य चमत्कारस्य स्फुटत्वात् । अयम्भावः-यदावर्त्यते तद यदि स्त्रायेन स्वरेण सहैव सम्भवतोऽनुस्वारविसर्गयुक्तं तन्त्यिानुप्रासोऽयम् । अस्य च प्रायः पादस्य पदस्थ वाऽवसाने एव सम्भव इतिव्यपदेशसार्थक्यम् । न चायं यमकेन गतार्थयितुं शक्यः, आशाःस्वच्छ प्रकाशाः' इत्यादौ तदसम्भवेऽप्यसम्भवात् । अत एव एवेति सङ्गच्छते । इति ॥ ५९॥
अथ कारिकास्थं दुरूहाथै पदं व्याचष्टे । यथाऽवस्थम् । इतीत्यस्य । यथासम्भवम् । अनुस्वारविसर्गस्वरसंयुक्ताक्षरविशिष्टम् । 'इत्यर्थः' इति शेषः । तथा च-स्वराश्रयेणोच्चार्य्यमाणो बिन्दुरेखया व्यज्यमानोऽनुना. सिको वर्गविशेषोऽनुस्वार इति निष्कृष्टम् । एषोऽन्त्यानुप्रासः । च । प्रायेणाधिक्येन । पादस्य पद्यचतुर्थी शस्य । च तथा । पदस्य । अन्ते । प्रयोज्यः 'प्रयोज्यनियोज्यौ शक्याथै ।' ७।३।६८ इत्यनेन उत्वाभावो ण्यच ।
उदाहरति-पादान्तगः । 'अन्त्यानुप्रास' इति शेषः । यथा । मम । 'केशः'...इत्यादौ ।
'काशस्तबकविलासः काशस्य काशकुसुमस्य स्तबको विकासोन्मुखकलिका तद्वद्विलास उल्लासो यस्य सः । 'अथी काशमस्त्रियाम् ।' 'स्यानुच्छकस्तु स्तबकः' इति चामरः । काशस्तब को हि सितो भवतीत्यस्योपमानत्वम् । केशः। 'यद्यपी'ति शेषः । तथा-प्रकटितकरभविलाखः प्रकटितः करभवद् विलासी येन सः । करभ उष्ट्रशावकः । 'करभः