________________
परिच्छेदः ] - चिराख्यया व्याख्यया समेतः। योरसंकृत्नेनैव क्रमेण, प्रथमे एकस्य तकारस्य सकृत्, धकारस्य च असकृत् । रसविषयव्यापारयती वर्णरचना वृत्तिः, तदनुगतत्वेन प्रकर्षण न्यसनाद् वृत्त्यनुप्रासः ।
६६ उच्चार्यत्वाद् यदेकत्र स्थाने तालुरदादिके ।
सादृश्यं व्यञ्जनस्यैव श्रुत्यनुप्रास उच्यते ॥ ५८॥
उदाहरणम्
"दृशा दग्धं मनसिजं जीवयन्ति दृशैव याः। विरूपाक्षस्य जयिनीस्ताः स्तुमो वामलोचनाः॥७३॥"
अत्र "जीवयन्ति" इति, "या" इति, "जयिनी"रिति । अत्र जकारयकारयोरेकत्रस्थाने तालौ
तेन 'येन (आनुपूर्व्यग) निर्दिष्टा' विति शेषः । एव नतु विपरीतेन । क्रमेणानुपूर्येण । 'साम्य' मिति शेषः । अथप्रथमे ‘पादे' इति शेषः । एकस्य । तकारस्य । सकृदेकवारम् । 'साम्य' मिति शेषः । धकारस्य । च पुनः । असकृदनकवारम् । 'साम्य' मिति शेषः । अत्रेद बोध्यम्-अत्र न केवलं वृत्त्यनुप्रास एव, किन्तु च्छेकानुप्रासोऽपि, 'उन्मीलन्मधु' इत्यादौ 'मे'त्यादेः सकृत्साम्यात् । अत एव तर्कवागीशा अप्याहुः । तदतिरिक्ताइछे कानुप्रासा इह वेदितव्याः' इति । ननु कथं वृत्त्यनुप्रास इति व्यपदेशः ? इत्यत आह-रसविषयव्यापारवती रस एव विषयो यस्य तादृशोऽसौ व्यापारो व्यानरूपः क्रियाविशेष इति रसविषयव्यापारः, सोऽस्यामस्तीति तथोक्ता । वर्णरचना वर्णानां रचना ( सङ्घटना ) वृत्तिः 'इति व्यपदिश्यते' इति शेषः । तदनुगतत्वेन तस्याः(वृतेरित्यर्थः) अनुगतत्वमानुकूल्यं तेन तपेणेति भावः । प्रकर्षणातिशयेन । न्यसनान्यासविधानात् । वृत्पनुप्रासः इति व्यपदेशः सङ्गच्छते' इति शेषः। अत्रेदं बोध्यम्-वृत्तिस्त्रिविधा, उपनागरिका परुषा कोमला चेति भेदात् । तथोक्तं प्रकाशकारैः-'माधुर्य्यव्यजकैवर्णरुपनागरिकोच्यते । ओजःप्रकाशकैस्तैस्तु कोमला परुषा परैः ॥ परैः' शेषैः । इति । कोमलामेव ग्राम्येत्यपि व्यपदिशनि केचित् । तदुक्तम्-‘शेषेणैर्यथायोगं ग्रथितां कोमलाख्यया । ग्राम्यां वृत्तिं प्रशंसन्ति काव्ये निष्णातवुद्धयः ॥' इति । एताश्च वैदर्भीगौडीपाञ्चाल्यभिधेया रीतयः । अत एव प्रकाशकारैरप्युक्तम्-'केषाञ्चिदेता वैदर्भाप्रमुखा रीतयो मताः ।' एतास्तिस्रो वृत्तयो वामनादीनाम्मते वैदर्भागौडीपाञ्चाल्याख्या रीतयो मताः । इति । अमी च निरुक्तस्वरूपा एव इति । नात्र ग्रन्थकृता पुनर्निरूपिता इति बोध्यम् ।
अथ तृतीयमाह-६६ उच्चार्यत्वादित्यादिना ।
६६ यदा । एकत्रैकस्मिन् । तालुरदादिके । तालु जिह्वेन्द्रियाधिष्ठानम् । रदा दन्ताः । 'शेषाद्विभाषा ।' ५। ४ । १५४ इति कप् । आदिना मूर्धकण्ठादेः सङ्ग्रहः । स्थाने उच्चार्यत्वात् । व्यञ्जनस्य । एव नतु स्वरस्यापि। सादृश्य सवर्णत्वम् । श्रत्यनुप्रासः । श्रुतौ धवणेऽनुप्रास इति तथोक्तः। उच्यते अयम्भाव:-स्वरूपतः सादश्याभावेऽपि ताल्वाद्येकस्थानवशाद् यस्य व्यञ्जनस्यैव येन व्यञ्जनेनैव सादृश्यं सम्भवेत्तस्य स्वरूपतोऽसदृशस्यैव सदसकता न्यासे श्रुत्यनुप्रास: । एवं व्यञ्जनमात्रस्य खरूपतः सादृश्याभावेऽपि ताल्वादिस्थानैक्यवशात्सादृश्ये श्रुत्यनुप्रासस्तावादिना सादृश्यं च-'तुल्यास्यप्रयत्नं सवर्णम् ।' १।१।९ इत्याकरे विवृतम् ॥ ५८ ॥
उदाहरणं 'यथेति शेषः । 'याः । दृशा नेत्रेण महादेवस्थे'ति शेषः । दग्ध भस्मसात् कृतम् । मनसिज कामदेवम् । दृशा नेत्रेण स्वात्मन' इति शेषः । एव नतु साधनान्तरेण । जीवयन्ति सचेतनता नयन्ति । अत एवविरूपाक्षस्य विरूपमक्षि यस्येति तस्य तथोक्तस्य । 'बहुव्रीहौ सक्थ्यक्ष्णोः स्वाहात् षच्'।५ । ४ । ११३ इति षच । जयिनी: पराजयकी: । ताः। वामलोचना वाम सुन्दरं लोचनं यासां ताः । स्तुमः प्रशंसामः । राजशेखरकृताया विद्धशालभचिकायाः पद्यमिदम् ॥ ७३ ॥
उदाहरणीयं दर्शयति-अत्र 'जीवयन्ति इति 'अत्रे'ति शेषः । 'या' इति । 'अत्रे'ति शेषः। तथा-'जयिनीः'