________________
१२८ साहित्यदर्पणः।
[दशमः६५ अनेकस्यैकधा साम्यमसकृद्वाऽप्यनेकधा।
एकस्य सकृदप्येष वृत्त्यनुप्रास उच्यते ॥५७ ॥ एकधा स्वरूपत एव, न तु क्रमतोऽपि । अनेकधा स्वरूपतः क्रमतश्च । 'सकृदपी'त्यपि शब्दादसकृदपि । उदाहरणम्
"उन्मीलन्मधुगन्धलुब्धमधुपव्याधूतचूताङ्करक्रीडत्कोकिलकाकलीकलकलैरुद्गीर्णकर्णज्वराः । नीयन्ते पथिकैः कथं कथमपिध्यानावधानक्षणप्राप्तप्राणसमासमागमरसोल्लासैरमो वासराः ॥७२॥" ___अत्र 'रसोल्लासैरमी' इति रसयोरेकधैव साम्यम्, नतु तेनैव क्रमेणापि द्वितीये पादे । कल
तत्प्रयोज्यत्वात् । एषः छेकानुप्रासः । 'यथा वा मम-'सुमुखि ! समुन्नय नयने महिमानं मानयानयं स्वस्याः । दीनान दुनोष्यथापि स्मयसे नयसे ततः पदं कि त्वम् ॥' इति । .. अथ द्वितीयमाह-६५ अनेकस्येत्यादिना ।
६५ अनेकस्य नैको वर्णान्तरेणासम्पृक्त इत्यनेकस्तस्य तथोक्तस्य संयुक्तस्येति भावः । 'व्यञ्जनस्येति शेषः । एतेन-स्वरेण साम्यावश्यकत्वं व्युदस्तम् । एकधैकेन प्रकारेण । वा। अनेकधा। अपि न केवलमेकधैवेति भावः। अस कृदनेकवारम् । साम्यम् । वृत्त्यनुपाखो वृत्तौ रीतावनुप्रास इति तथोक्तः । वृत्तिश्च मधुरादिरसानुगुणनियतमसृणादि शब्दविशेषगतो रसविषयो व्यापारो व्यजनाख्य इत्येके माधुर्य्यादिव्यजकसुकुमारादिवर्णगतत्वेन मधुरादिरसोपकारक: शब्दस्य सङ्घटनाख्यो रीत्यात्मा व्यापारविशेष इत्यपरे । अथवा-एकस्यासंयुक्तस्य 'व्यन्जनस्य'ति शेषः । एतेन स्वरेण साम्यावश्यकत्वं व्युदस्तम् । सकृदेकवारम् । अपि किं नरनेकवारमिति भावः । 'साम्य'मिति शेषः । एषः। वृत्त्यनुप्रासः । उच्यते । अयम्भाव:-असत्यपि स्वरेण समानत्वे संयुक्तस्य व्यञ्जनस्य स्वरूपेणैत्र, स्वरूपेण क्रमेण चेत्युभयथा वा; असकृत्साम्यं वृत्त्यनुप्रासः, असंयुक्तस्य वा व्यञ्जनस्य सकृदसकृद्धा सादृश्यं वृत्त्यनुप्रासः । एवं च अनेकस्य व्यञ्जनस्य स्वरूपेणासकृत्साम्यं स्वरूपेण क्रमेण चेत्युभयथा असकृत् पुाम्यं, तथा एकस्य व्यञ्जनस्य सकु-साम्यम् , असकृत्साम्यं वेति चतुर्भेदो वृत्त्यनुप्रासः । इति ॥ ५७ ॥
अथ सूत्रोक्तपदानो दुरूहमर्थ व्याचटे-एकधा 'इत्यस्थेति शेषः । स्वरूपतः स्त्रस्य रूपं प्रतिकृतिस्तस्मात् । एव । न तु । क्रमत उद्देशानुपूर्व्या । अपि । 'इत्यर्थः' इति शेषः । अनेकधा 'इत्यस्येति शेषः । स्वरूपतः। क्रमतः । च । 'इत्यर्थ' इति शेषः । 'सक्दपीति । 'अत्रे'ति शेषः । अपिशब्दात । 'पठिता'दिति शेषः । असकृत् । अपि । 'इति निष्कृष्टम्' इति शेषः ।
उदाहरणं दर्शयति-उदाहरणम् । यथा-उन्मीलन्मधुगन्ध...उन्मीलदुल्लासंप्राप्नुवद् यन्मधु पुष्परस इति तस्योन्मीलन्मधुनो गन्धः सौरभं तेन लुब्धा लोभ नीता इत्यमी मधुगा मधुपानशील! भ्रमरा इति तैरुन्मीलन्मधुगन्ध. लुब्धमधुपैया॑धूता विशेषेण ( स्त्रपातवशात् ) कम्पान्नीता अमी चूताङ्करा आम्रदलानां नूतनप्ररोहा इति तेषून्मीलन्मघुगन्धलुब्धमधुपव्याधूतचूताङकुरेषु क्रीडन्तश्च ते कोकिलास्तेषां काकली स्वरविशेष इति तस्याः कलकला मधुरशब्दास्तैस्तथोक्तैः । उदीर्णकर्णज्वरा उद्गीर्ण उद्गारं प्रापितः कर्णज्वरो येषु ते तथोक्ताः । अमी । वासन्तिका इत्यर्थः । वासरा दिवसाः (कर्म)। ध्यानाव...ध्याने प्रियायाश्चिन्तनेऽवधानं चितैकाय्यं तेन क्षण प्राप्तः प्राणसमासमागमरसो. ल्लासो यैस्तैस्तथोक्तैः प्राणैः (प्रियत्वेन ) समास्तुल्येति तथाभूतायाः समागमः सम्यग्लाभ इति तस्य रस आस्वादः इति तस्योल्लास इति प्राणसमासमागमरसोल्लासः । उल्लास: प्राचुर्येणोद्गमः । पथिकैः प्रवासिभिः ( कर्तृ) कथंकथमपि महता कष्टेन । नीयन्ते व्यतीयन्ते ॥' पद्यमिदं गीतगोविन्दस्य शार्दूलविक्रीडितं वृत्तम् । लक्षणं च प्रोक्त प्राक् । इति ॥ ७२ ॥'
उदाहरणीय निर्दिशति-अत्र 'रसोल्लासैरमी' इति । 'अंशे' इति शेषः । रसयो रकारसकारयोः । एकधा स्वरूपेण । एव । साम्यम्। न तु पुनः। तेन निर्दिष्टेन । एव । क्रमेण । अपि तयोःपुनर्वैपरीत्येन न्यासात्' इति शेषः। द्वितीये 'क्रीडत् कोकिल' इति रूपे । पादे चरणे भाग इति यावत् । कलयोः ककारलकारयोः । असकृदनेकवारम् ।