________________
परिच्छेदः ]
रुचिराख्यया व्याख्यया समेतः।
६४ छेको व्यञ्जनसङ्घस्य सकृत्साम्यमनेकधा ॥ ५६ छेकरछेकानुप्रासः । अनेकधेति स्वरूपतःकमतश्च । 'रसःसर' इत्यादेः क्रमभेदेन सादृश्य नास्यालङ्कारस्य विषयः । उदाहरणं मम तातपादानाम्
"आदायवकुलगन्धानन्धीकुर्वन् पदे पदे भ्रमरान् । . अयमेति मन्दमन्दं कावेरीवारिपावनः पवनः ॥ ७१॥"
अत्र'गन्धानन्धी ति संयुक्तयोः, 'कावेरीवारी'त्यसंयुक्तयोः, 'पावनः पवनः' इति व्यञ्जनानां बहूनां सकृदावृत्तिः। छेको विदग्धस्तत्प्रयोज्यत्वादेष छेकानुप्रासः।
__ अयं च द्विविधः, निरर्थकसार्थकशब्दभेदात्, तत्राप्याद्यश्छेकानुप्रासो वृत्त्यनुप्रासः श्रुत्यनुप्रासोऽन्त्यानुप्रासश्चेति चतुर्भेदः । तौ च क्रमाद्दर्शनीयाविति प्रथमं प्रथममाह-६४छेक इत्यादिना ।
६४ सकृदेकवारम् । अनेकधा नैकधा, स्वरूपेण क्रमेण चेति प्रकारद्वयेनेति यावत् । व्यञ्जनसङ्घस्य व्यञ्जनानां हलां सङ्घस्तस्य । साम्यं सदृशाकारत्वम् । छेकस्तन्नामाऽनुप्रास इत्यर्थः । अयम्भावः-स्वरूपेणैव क्रमेणैव वेति न, किन्तुभयथा यत्र व्यञ्जनानामेकवारं सदृशाकारतया न्यासः स छेको नामानुप्रासः । इति ॥ ५६ ॥
कठिनांशं व्याचष्टे-छेक'इत्यस्येति शेषः । छेकानुप्रास 'इत्यर्थः' इति शेषः । 'छेकस्त्रिषु विदग्धेषु गहास. समृगाण्डजे।' इति रभसोक्त्या छेकश्चतुरो लक्षणया तत्प्रयोज्योऽपि स एव । छेकाः (चतुराः ) ह्यनुप्रासं प्रायः प्रयुञ्जते । तस्माच्छेक (चतुर )प्रयोज्योऽलङ्कारश्छेको नामानुप्रास इति भावः । भनेकधा इति इत्यस्य । स्वरूपतः स्वरूपेण । च तथा । क्रमतः क्रमेण । 'इत्यर्थ' इति शेषः । अयम्भावः-यद् यथा निहितं तत्तथा यदि पुनरपि निविश्येत तर्हि सादृश्य, तत्स्वरूपतस्त्वस्त्येव, अथ यदि क्रमतोऽपि, तीलङ्कृतये, यदि न तर्हि नालङ्कृतयेऽपि, यथा-'प्रसर सरसि पद्मं यहि लब्धुं तवेष्टम्' इत्यत्र 'सरे'ति स्वरूपतः क्रमतश्च सदृशम्, 'रस: सरः स्थित'इत्यत्र 'रस' इति स्वरूपतः सदपि न क्रमतः सदृशं प्रतिभासते, इत्युभयथैव सादृश्यमलकृतिवि शेषे हेतुरित्युक्तमनेकधेति । तदेवाह'रसः सर' इत्यादेः 'शब्दस्य'ति शेषः । क्रमभेदेन न तु क्रमेण न वा स्वरूपभेदेनापीति भावः । सादृश्यं 'यत्त'दिति शेषः । न नैव । अस्य । अलङ्कारस्य । विषयः स्थानम् ।
अत्रायम्भावः-स्वरसादृश्यं नैकान्तमपेक्ष्यते, तदसत्त्वेऽपि चारुत्वोल्लासेनालङ्कारं वक्तुं युक्तत्वात् । इत्युक्तं. व्यञ्जनसङ्घस्येति । अथ यदि तदप्यापतेत्तर्हि सुतरामित्युच्यते नैकान्तमिति । नहि 'व्यञ्जनसङ्घस्थे' त्युक्तनयेन सति व्यञ्जनसाम्ये खरसाम्यमुत्सायंते, किन्तु तावताऽलङ्कार इति निदर्श्यते।' इति ।
लक्षणं निरूप्य लक्ष्य निरूपयितुमुपक्रमते-मम विश्वनाथस्येत्यर्थः । तातपादानां ताताः पितरश्चन्द्रशेखरा इति यावत् , त एव पादाः पूज्यास्तेषाम् । 'कृतौ' इति शेषः । उदाहरणम् । ,यथेति शेषः । 'आदाय.' इत्यादि ।
'बकुलगन्धान बकुलस्य 'मोल्सरी'ति प्रसिद्धस्य सुरभितकुसुमविशेषस्य गन्धाः इति तान् । 'अथ केशरे । बकुल' इत्यमरः । आदाय गृहीत्वा। पदेपदे स्थानेस्थाने । 'पदं व्यवसितित्राणस्थानलक्ष्माडिघ्रवस्तुषु ।' इत्यमरः । 'आनुपूये द्वे वाच्ये।' इति द्वित्वम् । भ्रमरान् भ्रमन्ति मधुनि लुब्धतयेति भ्रमरा मधुपास्तान् । अन्धीकर्वत्रन्धानिव कुर्वन् । अयं स्पर्शवत्तया प्रत्याख्यातुमशक्यः । कावेरीवारिपावनः कावेयास्तदाख्यायाः सरिती वारि जलं तेन पावनः पवित्रतासम्पादकः । पावयति पवित्रतां नयति स्वसेविनमिति पावनः । पवनो गन्धवहः । मन्दम मन्देष मन्द इति मन्दमन्दः, स यथा भवेत्तथेति तथोक्तम् । 'न निर्धारणे ।' २।२।१० इति निर्धारणार्थ षष्टया एव निषेधात्सप्तम्या समासः । एति गच्छति सञ्चरतीति यावत् । अत्राा छन्दः, लक्षणं चोक्तं प्राक' ७१॥
लक्ष्यं समर्थयते-अत्र । 'गन्धानन्धी'ति । 'अत्रेति शेषः । एवमग्रेऽपि । संयुक्तयोः संयोगवतोः । 'न्ध' इत्येतयोरिति शेषः । 'कावेरीवारी'ति । अत्र । असंयुक्तयोः 'वर' इत्येतयोरिति भावः । 'पावत: पवनःनि । अत्र पुन:-'पवन' इत्येतेषाम् । बहूनाम् । व्यञ्जनानां हलाम् । सकृदेकवारम् । आवृत्तिः। छेकोविदग्धः ।