________________
साहित्यदर्पणः।
[दशम:६३ अनुप्रासः शब्दसाम्यं वैषम्येऽपि स्वरस्य यत् । स्वरमात्रसादृश्यं तु वैचित्र्याभावान गणितम् । रसाधनुगतत्वेन प्रकर्षेण न्यासोऽनुमासः।
इति । आरिवधदेहा चेष्टा येषां ते, अमी च शरीरिण इति तानीरयतीति तथोक्तः । सहसा शीघ्र हठेनेति वा । रथिभिः सुष्टताः सम्बद्धास्तुरगाः पादातानि पदातिसमूहाश्च यस्य सः । स्थिरतायाम् । अग: पर्वतस्तत्सदृश इति बावत् । अवनितलस्य तिलको राजा । सदाऽऽनत्या सतामानतिः प्रणमनमिति तयेति वा । भाति ॥' इत्ययमर्थः । आUछन्दस्तलक्षणं च प्रागुक्तम् । 'पादातं पत्तिसंहतिः।' इत्यमरः । अत्र 'देह-शरीर' शब्दयो: 'सारथि-सूत' शब्दयोः 'दान-त्याग'शब्दयोश्च परिवृत्त्यसहत्वेन सभङ्गत्वेनामुख एवैकार्थकत्वेन पर्यवसाने पुनर्भिन्नार्थकत्वेन सभाशब्दनिष्ठः पुनरुक्तवदाभासः । इति । अथाभङ्गशब्दनिष्ठ उदाहृत एवायमस्माभिः। यथा वा-'अम्बरेण गगनेन संवृतं जीवनैः सिरसि वारिभिः धितम् । भोगिभिश्च मुजगैर्विभूषितं शङ्करं शुभकरं भजामहे ॥' इति।
___ एवं सूचीकटाहन्यायेनाल्पप्रभेदं पुनरुक्तवदाभासं निरूप्य बहुप्रभेद 'तथाऽनुप्रासोपमादयः' इत्युक्तदिशा प्रथमं निरू पणीयमप्यनुप्रासं निरूपयति-६३ अनुप्रास इत्यादिना ।
६३ यत् । स्वरस्याचः प्रत्याहारस्य, नतु निषादादेः । वैषम्ये विषमत्वे विजातीयत्वे इति यावत् । अपि किं . पुनस्तस्यापि साम्ये इत्यर्थः । 'अपि सम्भावनाप्रश्नशङ्कागहासमुच्चये। तथा युक्तपदार्थे च कामचारक्रियासु च ॥' इति विश्वः । शब्दसाम्य शब्दस्य वर्णपदैकदेशपदानामन्यतमस्य साम्यं सादृश्यं समानाकारत्वमिति यावत् । 'तत्' इति शेषः । अनुप्रासोऽनुगतः प्रकृष्ट आसो न्यासस्तत्वरूप इति यावत् । प्रकृष्टत्वं च रसानुगतत्वे एव । अत्रायम्भाव:अनुप्रासस्तावद् द्विविधः, वर्णानुप्रासः पदानुप्रासश्चेति । तत्रावाचकवर्णावृत्तिवर्णानुप्रासः, वाचकवर्णानुवृत्तिश्च पदानु प्रासः । इति ।
खरसादृश्यं नैकान्तमपेक्षितमित्याह-स्वरमात्रसादृश्यं वर एवेति तेन सादृश्यम् 'हारविष्णु' इत्यादिषु यथेकारेण सादृश्यमिति यावत्। तु । वैचित्र्याभावात् । न । गणितं 'वैषम्येऽपि स्वरस्य' इत्युक्तदिशा स्वरेण सादृश्यं न नितान्तमपेक्षितं,तदन्तराऽपि शब्दसादृश्यमाने वैचित्र्येण तत्सम्भवादिति भावः।रसाद्यनुगतत्वेनाप्रकर्षेणाहादजनकेन व्यापार विशेषेणेति भावः । न्यासः शब्दयोः शब्दानां वा नतु शब्दस्य तत्र प्रकृष्टत्वासम्भवात्। अनुप्रासस्तत्पदार्थ इत्यर्थः। अत्रायम्भावः-शृङ्गारादय एव विचित्रा रसास्तत्त्वस्यात्रैवोपलब्धेः काव्यं च रसात्मकवाक्यमिति निर्णीतपूर्वम्।तस्मादेतच्छृङ्गारा. धन्यतमात्मकमिति काव्ये शङ्काराद्यन्यतमसम्भवो निर्बाधः। अन्यथा काव्यमचेतनमिव परित्याज्यं स्यात् । एवं यमुपजीव्य काव्यं सचेतनं चमत्कुरुते स एव रसस्तस्यैव रस्यते आस्वाद्यते सहृदयैरिति निर्वचनोत्पत्तेः । तथा च-तद्वयजकयोदशब्दयोस्तद्वयञ्जकानां वा शब्दानामनतिव्यवधानेन न्यासोऽनुप्रासः । अनतिव्यवधानमन्तरेण तवजकत्वस्योद्रेकाभावात् । अनतिव्यवहिततया चमत्काराधायिकाऽत एव प्रकृतरसव्यञ्जकवर्णघटितशब्दावृत्तिरनुप्रासपदार्थ इति वा निर्गलितोऽर्थः । नच 'काव्यस्य रसात्मकत्वाद्रसस्य च व्यञ्जकवर्णसङ्घटितशब्दाधीनत्वाद्वयञ्जकवर्णानां चानुप्रासे सम्भवान्मा भूदनुप्रासमन्तरा काव्यत्वम् ।' इति वाच्यम् । 'काव्यत्वजीवातोश्चमत्कारापरपायस्य रसात्मनो व्यञ्जकवर्णाभावेऽपि अनपोहितत्वात् । 'व्यञ्जकवर्णानां हि तत्प्रत्यायकत्वमात्रम् नतु तत्सद्भावहेतुत्वमपि । अन्यथा व्याकव्यपदेशोऽप्यपार्थः स्यात् । न वा रसस्य स्वसत्ताकत्वं सङ्गच्छेते'त्येके, 'वर्णानां व्यञ्जकत्वसाधर्येण सजातीयत्वेऽपि तेषां चानै कात्म्येन विजातीयानामव्यवधानेनावस्थानस्याक्षतमूर्तावप्यनुप्रासघटकलक्षणासम्भवेऽपि काव्यत्वानपायादित्य'परे । 'ननुप्रकृतरसव्यजकवणेतरघटकशब्दानतिव्यवहितासकृन्यासोऽनुप्रासः, सूत्रकारेण शब्दावृत्तिमात्रे तस्य स्वीकृतत्वात् । इति चेत् ? सत्यम् । 'रसाद्यनुगतत्वेन प्रकर्षेण न्यासोऽनुप्रासः'इति वृत्तिकारोक्तनिर्वचनेन प्रकृतरसव्यञ्जकत्वे एवेति क्रोडीक णात् ।' इत्येके 'शब्दानामव्यवहिताऽऽवृत्तिरनुप्रासः, स च निवेशौचित्ये कुण्डलादिरिव प्रकृतरसव्यञ्जकत्वे, समुपादेयःअन्य ।। यथाकथञ्चिदेवोपादेयः ।' इत्यारे ।