________________
परिच्छेदः]
इचिराख्यया व्याख्यया समेतः।
१५
उदाहरणम्"भुजङ्गकुण्डली व्यक्तशशिशुभ्रांशुशीतगुः । जगन्त्यपि सदापायादव्याच्चेतोहर:शिवः ॥७०॥"
अत्रभुजङ्गकुण्डल्यादिशब्दानामापातमात्रेण सर्पाद्यर्थकतया पौनरुक्त्यप्रतिभासनम् । पर्यवसाने तु 'भुजङ्गरूपं कुण्डलं विद्यते यस्ये'त्याद्यन्यार्थत्वात् । 'पायादव्यात्' इत्यत्र क्रियागतोऽयमलङ्कारः, 'पायात्' इत्यस्य 'अपायात्' इत्यत्र पर्यवसानात् । 'भुजङ्गाकुण्डली' ति शब्दयोः प्रथमस्यैव परिवृत्तिसहत्वम् । 'हरःशिवः' इति द्वितीयस्यैव 'शशिशुभ्रांशु' इति द्वयोरपि । 'भाति सदानत्यागः' इति न द्वयोरपि । इति शब्दपरिवृत्ति सहत्वासहत्वाभ्यामस्योभयालङ्कारत्वम् ।
करिकुजररुधिररक्तखरनखरः । तेजोधाममहः पृथुमनसामिन्द्रो हरिजिष्णुः ॥ इति । अत्र हि 'तनुवपुः' शब्दयोः शरीरार्थकतया 'करिकुञ्जर'शब्दयोगजार्थकतया 'रुधिररक्त' शब्दयोः शोणितार्थकतया 'तेजोधाममहः'शब्दानां तेजोऽर्थकतया 'इन्द्रहरिजिष्णु'शब्दानां च देवराजार्थकतयाऽऽपाततः पुनरुक्तिर्भासते, तत्र 'वपुःकाररुधिरेन्द्र'शब्दाः केवलं परिवृत्तिं सहन्ते, नतु 'तनुकुञ्जररक्तधाममहोहारै' शब्दा इति शब्दार्थोभयनिष्ठोऽयम् । इति ॥ ५५ ॥
उदाहर्तुमुपकमते-उदाहरणं 'यथा' इति शेषः । भुजङ्गकुण्डली भुजगावेव कुण्डले इति भुजङ्गकुण्डले, ते अस्य स्त इति तथोक्तः । यद्वा-भुजङ्गाभ्यां कुण्डली कर्णाभरणवान् कङ्कणवान्वेति तथोक्तः । 'कुण्डलं कर्णभूषायां पाशेऽपि वलयेऽपि च ।' इति मेदिनी | व्यक्तशशिशुभ्रांशुशीतगुळक्तो विख्यातोऽसौ शशिशुभ्रांशुशीतगुरिति तथोक्तः । शशिनश्चन्द्रमस इव शुभ्रा अंशवो यस्य तत् शशिशुभ्रांशु,तस्येव (कर्पूरस्येव ) शीता गावः किरणा यस्य स इति तथोक्तः । 'गौः स्वर्गे च बलीव रश्मौ च कुलिशे पुमान् ।' इति मेदिनी । चेतोहरः । शिवः शङ्करः । सदा । अपायाद वृजिनात् । 'भीत्रार्थानां भयहेतुः।। ४ । २५ इति पञ्चमी । जगन्ति सर्वाणि विश्वानीत्यर्थः । । अपि न केवलं माम् । अव्यात् । अत्र हि 'भुजङ्गकुण्डलि' शब्दयो गार्थकतया 'शशिशुभ्रांशुशीतगु' शब्दानां चन्द्रार्थतया 'हरशिव'शब्दयोः शङ्करार्थकतया 'अपायादव्यात्' इत्येतयोः शब्दयोश्च रक्षणार्थकक्रियापदतया च पुनरुक्तत्वं भासमानमपि न तथा पर्ययवसीयतेऽवसाने इति पुनरुक्तवदाभासः । 'अपाया'दित्यन्तरा सर्वेऽभङ्गाः शब्दा एते 'कुण्डलिशीतगुहरापाय' शब्दातिरिक्तानामेव भुजङ्गादिशब्दानां पायपरिवृत्तिसहत्वमित्यभङ्गसभङ्गशब्दार्थनिष्ठश्चायम् । इति बोध्यम्॥ ७०॥'
तदेवाह-अत्रोदाहृते पद्ये । 'भुजङ्गकुण्डल्यादिशब्दानाम् । आदिपदेन 'शशिशुभ्रांशुशीतगु-हरशिव' शब्दानां ग्रहणम् । आपातमात्रेण । सर्पाद्यर्थकतया सर्पचन्द्रशङ्करार्थकतया। पौनरुत्यप्रतिभासनं पुनरुक्ततायाः प्रतीतिः । पर्यवसाने निर्धारणावसरे । तु पुनः । भुजङ्गरूपम् । कुण्डलं कर्णाभरणं वलयो वा । विद्यते । यस्य 'स' इति शेषः । 'इत्याद्यन्यार्थकत्वात् 'पायात' इत्यस्य 'शब्दस्य च' इति शेषः । 'अपायात्' इत्यत्र 'सदा इत्यत्राकार श्लेषोररीकरणात्' इति शेषः । पर्यवसानादन्ततस्तात्पर्य्यावस्थानात् । अपायादव्यात् । इत्यत्र । क्रिया गतः । अयं पुनरुक्तवदाभास इत्यर्थः । अलङ्कारः । 'भुजङ्गकुण्डली'तिशब्दयो 'मध्ये' इति शेषः । प्रथमस्य
त्यथः एव नतु 'कुण्डली'ति शब्दस्य । परिवृत्तिसहत्वम् । 'हरः शिवः इत्य''ति शेषः। द्वितीय स्य शिवशब्दस्येत्यर्थः । एव 'परिवृत्तिसहत्वम्' इति शेषः । 'शशिशुभ्रांशु' इति 'शब्दयो'रिति शेषः । द्वयोः। अपि 'परिवृत्तिसहत्वम्'इति शेषः । इत्येवम् । शब्दपरिवृत्तिसहत्वासहत्वाभ्याम् । अस्य 'पुनरुक्तवदाभासस्ये' त्यर्थः । उभयालङ्कारत्वं शब्दार्थालङ्कारत्वम् । एवं शब्दार्थोभयनिष्ठोदाहरणप्रदर्शनेनैवान्यान्यपि पृथक्पृथगुदाहरणान्यवगन्तव्यानीत्यभिप्रत्याह-'भाति । सदानत्यागः' इति । 'अत्रे'ति शेषः। द्वयोः 'देहशरीरे' त्यादिरूपयोयोयो' शब्दयोरिति भावः । अपि । न । 'परिवृत्तिसहत्वम्' इति शेषः । इति । 'पुनरुक्तवदाभास' इति शेषः । अत्रायम्भावःउदाहृतमिदमन्यत्र 'आरिवधदेहशरीरः सहसारथिसूततुरगपादातः । भाति सदानत्यागः स्थिरतायामवनितलतिलकः ॥'