________________
१३४
साहित्यदर्पणः ।
६२ आपाततो यदर्थस्य पौनरुक्तयेन भासनम । पुनरुक्तवदाभासः स भिन्नाकारशब्दगः ॥ ५५ ॥
[ दशम:
दाभिधानमनुमन्वानेन भ्रान्त्यैव भेदोऽभिहितः ।' इति तदवहेयम् । अचलस्थितिकानां गुणानां चलस्थितिकानामलङ्काराणां च भेदस्य स्फुटत्वात् । यच्चोक्तं वामनाचाय्यैः - 'काव्यशोभायाः कर्त्तारो धर्मा गुणाः, तदतिशयहेतवस्त्वलङ्कारा: ।' इति । तदपि न सत् । अत्रायम्भावः - रीतिरात्मा काव्यस्य, सा च पदसङ्घटनविशेषरूपा त्रिप्रभेदा । वैदर्भी, गौडी, पाञ्चाली च । सर्वगुणाभिव्यञ्जकैर्वर्णैर्युक्ता वैदर्भी, ओजःप्रसादयोरेव गुणयोरभिव्यञ्जकैर्वणैर्युक्ता गौडी, माधुर्यप्रसादयोर्गुणयोश्चाभिव्यञ्जकैर्वणैर्युक्ता पाञ्चाली । तत्र रीतिधर्माणो गुणाः, शब्दार्थोभयरूपस्य काव्यस्य शोभा विधातारः, शब्दार्थाश्रयितारवालङ्काराः, गुणा हि शोभाऽतिशय विधायकाः । तत्र किं समस्तैरुत कतिपयैगुणैः काव्ये शोभोत्पत्तिः । अथ समस्तैरिति चेत् गौडयाः पाञ्चाल्याश्च समस्तगुणत्वाभावाच्छोभाया अनुत्पत्तौ काव्यत्वस्यैवाभावः येन केनापि गुणेनेति चेत् ? 'शुको वृक्षस्तिष्ठत्यमे' 'अद्रावत्र प्रज्वलत्यनिरुचैः प्राज्य: प्रोद्यन्नुल्लसत्येष धूमः ।' इत्यादौ न कथं काव्यत्वम् । न चास्तीति वक्तुं शक्यम्, रसाभावात् । अथ - 'स्वर्गप्राप्तिरनेनैव देहेन वरवर्णिनि ! अस्या रदच्छदरसो न्यक्करोति तरां सुधाम् ॥' इत्यत्रासत्यपि प्रसादादौ तदाधेयायाः शोभायाश्चानवतारे तस्मा अतिशयविधानस्य दविष्टत्वे न स्यातां विभावमा व्यतिरेकच | ओमिति चेत् । 'एकगुणहानिकल्पनया शेषगुणदाढयै कल्पनाविशेषोक्तिः ' 'उपमेयस्य गुणातिरेकत्वं व्यतिरेकः' इति किम्मूलम् ?
अथ निरूपणीयसङ्गतिं दर्शयति-शब्दार्थयोरित्यादिना ।
शब्दार्थयोः । प्रथमम् । शब्दस्य । बुद्धिविषयत्वात् बुद्धिवृत्तिविषयभूतत्वात् । शब्दालङ्कारेषु । वक्तव्येषु सत्सु ' इति शेषः । शब्दार्थालङ्कारस्य शब्दार्थोभयालङ्कारस्य । ' शब्दार्थोभयशक्तिमूलध्वनेरिव पश्चानिरूपणीयस्येति' शेषः । अपि । पुनरुक्तवदाभासस्य पुनरुक्तमुक्त्वोक्तं तस्य तुल्यमिति, पुनरुक्तवत् आभास प्रतीतिस्तत्स्वरूप इति यावत् तस्य । यद्वा-पुनरुक्तं पुनरुक्तिः, तदास्यास्तीति पुनरुक्तवान् तादृश आभासो यत्र तस्य तथ तस्य । शब्दालङ्कारमध्ये शब्दालङ्कारा अनुप्रासादयस्तेषां मध्यं तत्र । 'न निर्धारणे ।' २।२।१० इति निषेधस्तु सम्बन्धाविषयक एवेति बोध्यम् । चिरन्तनैः 'आचाय्यैः' इति शेषः । लक्षितत्वात् 'अलङ्कार सर्वस्वा' दिषु 'आमुखा वभासनं पुनरुक्तवदाभासः' इत्यादिनेति शेषः । प्रथमम् । तम् । एव । आह-६२ आपातत इत्यादिना ।
६५ आपाततः झटिति निर्धारणात् । यदर्थस्य यस्यार्थस्य । पौनरुक्तयेन पुनरुक्ततया । भासनं प्रतीतिः । खः । 'अर्थ:' इति शेषः । भिन्नाकारशब्दगो भिन्नो विजातीय आकारो यस्येति भिन्नाकारः, सोऽसौ शब्दस्सं गच्छतीति तथोक्तः । एतेन 'यस्य मित्राणि मित्राणि' 'कदली कदली' इत्यादौ एतस्यावस्थानाभावः सूचितः । पुनरुः क्तवदाभासः । 'स्यात्' इति शेषः । अत्रायम्भावः - वस्तुतः पुनरुक्तौ पुनरुक्त्याख्यो दोषः, एकाकारतस्तूतौ लक्षणामूलस्य ध्वनेरवस्थानम् । एवं सति न वस्तुतया किंतु एकाकारतया यत्र पुनरुक्तिः प्रतीयते, न त्वत्येव स पुनरुक्तवदाभासः । अयं च द्विविधः, शब्दनिष्टः शब्दार्थनिष्टश्च । तत्रापि शब्दनिष्ठः सभङ्गशब्दनिष्ठोऽभङ्गशब्द निष्ठश्चेति । तत्त्वं च - पर्यायपरिवृत्त्य सहत्वात् । आयो यथा - 'अरिवधदेहशरीरः सहसारथिसूततुरगपादातः । भाति सदानत्याग: स्थिरतायामवनितलतिलकः ॥ इति । अत्र हि - देहशरीरादीनामापाततः पुनरुक्तिः प्रतीयते । शब्दाश्रुते सभङ्गाः । द्वितीयो यथा - 'चकासत्यङ्गनारामाः कौतुकानन्दहेतवः । तस्य राज्ञः सुमनसो विबुधाः पार्श्ववर्त्तिनः ॥' इति । अत्र हि अङ्गनारामाशब्दयोः ख्यर्थकतया कौतुकानन्दशब्दयोः सन्तोषार्थकतया सुमनोविबुधशब्दयोश्च देवार्थकतयाssपाततः पौनरुत्यं भासते । अभङ्गाश्चैते तदभङ्गशब्दनिष्ठोऽयं पुनरुक्तवदाभासः शब्दालङ्कारः | शब्दालङ्कारत्वं चैतस्य पर्याय परिवृत्य सहत्वात् । ननु 'अङ्गनारामाः इत्यादी अङ्गनाssदिशब्दानां महिलाऽऽदिरूपपर्याय परिवृत्ति. सहत्वेनास्तामुभयालङ्कारत्वम् ।' इति चेन्न, 'विशेषास्त्वङ्गना भीरु : ' ' यत्रानन्दाश्च मोदाव' 'मोदो दक्षिणः पक्षः । प्रमोद उत्तरः पक्षः । आनन्द आत्मा ।' इत्यायुक्त्या पर्यायत्वानुपपत्तेः । यत्तु व्याख्यातम् - 'अङ्गने आरमतत्यज्ञनारामाः ।' इति तच्चिन्त्यम्, तथाशब्दस्य सभङ्गत्वापत्तेः । अथ शब्दार्थनिष्ठो यथा - ' तनुवपुरजघन्योऽसौ