________________
परिच्छेदः]
रुधिराज्यया व्याख्या समेतः।
१२३
यथा अङ्गदादयः शरीरशोभाऽतिशायिनः शरीरिणमुपकुर्वन्ति, तथाऽनुप्रासोपमाऽऽदयः शब्दार्थशोभाऽतिशायिनो रसादेरुपकारकाः । अलङ्कारा अस्थिरा इति नैषां गुणवदावश्यकी स्थितिः। शब्दार्थयोः प्रथमं शब्दस्य बुद्धिविषयत्वात् शब्दालङ्कारेषु वक्तव्येषु शब्दार्थालङ्कारस्यापि पुनरुक्तवदाभासस्य चिरन्तनैःशब्दालङ्कारमध्ये लक्षितत्वात् प्रथम तमेवाह
तदेव विवृणोति-यथा । अङ्गदादयः । शरीरशोभाऽतिशायिनः शरीरिणं शरीरमायतनत्वेन यस्य तं तथोक्तम् । उपकुर्वन्ति । तथा-अनुप्रासोपमाऽऽदय । शब्दाथशोभाऽतिशायिनः । रसादेः रसः शृङ्गारादिरादौ यस्य तस्य तथोक्तस्य । उपकारका उत्कर्षयितारः । अत्रेदं तत्त्वम्-यथाऽहम्प्रत्ययस्यालम्बनं जीवः, शरीरं पुनरन्यत्, तथा काव्यत्वस्यालम्बनं रसो, वाक्यं पुनस्तदन्यत् । तत्र अगदहारादयो नायिकादीनां शरीरमेव शोभाऽ. तिशय नयन्ति, न पुनस्तदन्तर्यामिनं साक्षात्,अथापि गौणरूपेण नायिकाद्यालम्बनः शोभाऽतिशयः प्रत्याय्यते तैः । तथाहि-यथा स्वतःसम्पन्नसौन्दर्य्यमेव नायिकाऽऽदिशरीरमलङ्कुर्वन्ति यथौचित्यमवस्थापिता अङ्गदाद्या अलङ्काराः, तथा सरसस्यैव काव्यस्य वाक्यं ( शब्दमर्थं वा ) तेऽप्यनुप्रासोपमाऽऽद्याः, सौदर्य्यसद्भावे एवाङ्गदादीनामलङ्कारकत्वादिव रससत्त्वे एवानुप्रासोपमादीनामप्यलङ्कारकत्वात् । अत एव-'तमेव भान्तमनुभाति सर्वम्' इत्युक्तदिशा रसात्मनः प्रकाशानन्तरमेवे. तरेषां प्रकाशकत्वमभिमन्वते मुनयः । एवं सति रसानुपदमनुप्रासादीनामलकारकत्वाद्गौणत्वम् । अनुप्रासादीनां रसानुपदमलङ्कारकत्वमपि न सर्वदा साक्षात्, किन्तु क्वचिद्वाचकद्वारा क्वचिद्वाच्यद्वारा क्वचिद्वाचकस्यैव क्वचिद्वाच्यस्येति विवेकः । तत्र वाचकद्वारा यथा-'अपसारय घनसारं कुरु हारं दूर एव किं कमलैः । अलमलमालिमृणालैरिति वदति दिवानिशं बाला ॥' इत्यन्तरेफानुप्रासस्य विप्रलम्भानुपदम् । वाच्यद्वारा यथा-'मनोरागस्तीनं विषमिव विसर्पत्यविरतं प्रमाथी निधूम ज्वलति विधुतः पावक इव । हिनस्ति प्रत्यहं ज्वर इव गरीयानित इतो न मां त्रातुं तातः प्रभवति न चाम्बा न भवती ॥' इत्यत्रोपमाया विप्रलम्भानुपदम् । क्वचिद्वाचकस्य यथा-'अकुण्ठोत्कण्ठया पूर्णमाकण्ठं कलकण्ठि माम् । कम्बुकण्ठयाः क्षणं कण्ठे कुरु कण्ठातिमुर ॥' इत्यत्र टवर्गानुप्रासस्य । वाच्यस्य यथा-'मित्रे क्वापि गते सरोरुहवने बद्धानने ताम्यति, कन्दत्सु भ्रमरेषु वीक्ष्य दयितासन्नं पुनः सारसम् । चकाढेन वियोगिना विसलता नास्त्रादिता नोज्झिता कण्ठे केवलमर्गलेव निहिता जीवस्य निर्गच्छतः ॥' इत्यत्रोपमायाः । यत्तक्तं रसशून्यस्यापि काव्यत्वम् । यथा-'स्वच्छ, न्दोच्छलदच्छकच्छकुहरच्छातेतराम्बुच्छटामूर्च्छन्मोहमहर्षिहर्षविहितस्नानाऽहिकाऽहाय वः । भिन्द्यादुद्यदुदारददुरदरीदीघीदरिद्रद्रुमद्रोहोद्रेकमहोर्मिमेदुरमदा मन्दाकिनी मन्दताम् ॥' इत्यत्रानुप्रासात् । इति । तत्रोच्यते-नात्राप्यलङ्कारसद्भावमात्रेण । अत एवाहः-'अत्र काव्यत्वं गङ्गाविषयकरतेरभिव्यक्तेः, अङ्गिपदेन भावस्याप्युक्तेश्चा'इति। एवं 'शीणघ्राणाध्रिपाणीन् व्रणिभिरपघनैर्घघराव्यक्तघोषान दीर्घाघातानघौघः पुनरपि घटयत्येक उल्लाघयन्यः । घमाशोस्तस्य वोऽन्तर्द्विगु. णघतघणानिन्ननिर्विघ्नवतेर्दत्तार्घाः सिद्धसङ्केविदधतु घणयः शीघ्रमहोविघातम्॥' इत्यत्रापि सूर्यविषयकरतिभावस्याभिव्यक्तः। इति । नहि रीतिः शब्दार्थयोः शोभाऽतिशयविधायिकेति तस्या एतेभ्यो भेदमनभिधायेव गुणेभ्य एषाम्भेदं दर्शयतिअलङ्काराः । अस्थिरा अनियतवृत्तयः । इति । 'हेतोः' इति शेषः । एषामनियतस्थितिकानामलङ्काराणामित्यर्थः । गुणवद् गुणानामिव । आवश्यकी निश्चिता । स्थितिः। न गुणानां त्वावश्यकी स्थितिरित्येतेषां तेभ्यो भेदः'इति शेषः। यत्त्वाहुरुद्भटभट्टा:-'समवायवृत्त्या शौर्यादयः,संयोगवृत्त्या तु हारादय इत्यस्तु गुणालङ्काराणां भेदः,ओजःप्रभृतीनामनुप्रासो पमादीनां चोभयेषामपि समवायवृत्त्या स्थितिरितिगडरिकाप्रवाहन्यायेनैवैषां भेदः।इति।तत्रेदं तत्त्वम्-'समवायवृत्त्या सिद्धिरूपेण नतु वैशेषिककल्पितेन सम्बन्धविशेषेण शौर्यादयो गणास्तिष्ठन्तिासंयोगवृत्त्या संयुक्तत्वरूपेण सम्बन्धविशेषेण तु हारादयोऽलङ्कारास्तिष्टन्तीति लौकिकानां गुणानामलङ्काराणां भेदोऽस्तु । ओजःप्रभृतीनां गुणानामनुप्रासोपमाऽऽदीनामलङ्काराणामलौकिकानां समवायवृत्त्या समवेतत्वरूपेण सम्बन्धेन, न त्वेकेषां समवेतत्वरूपेण, अपरेषां संयुक्तत्वरूपेण सम्बन्धविशेषेण स्थितिः । तस्मात् ( वस्तुतयाऽभिन्नत्वे सिद्धेऽपि) गड्डरिकाप्रवाहन्यायेन गडरं मेषमनुधावतीति गड्डरिका मेषानुगतमेषपङ्क्तिस्तस्याः प्रवाहन्यायेन यथा काऽपि मेषी पुरो धावति, अन्या पुनस्तामनुधावति, सात् कूपादौ निपतति तदाऽपरापि विचारमन्तरा निपतति, तथैवैतेषामलौकिकानां भेदः। इत्येवं केनापि कस्याप्यालङ्कारिकस्य गुणालङ्काराणां भे