________________
दशमः परिच्छेदः ।
अथावसर प्राप्तानलङ्कारानाह
६१ शब्दार्थयोरस्थिरा ये धर्माः शोभाऽतिशायिनः । रसादीनुपकुर्वन्त्यलङ्कारास्तेऽङ्गदादिवत् ॥ ५४ ॥
अभूतं सद्भूतं प्रकृतिविधुरं साधुकृतिनं मिरीहं नानेहं गुणरहितिमुल्लासिसुगुणम् ।
अनीश सर्वेशं विसदृशमशेषैकसदृशं विरूपं रूपेज्यं किमपि कमनीयं विजयते ॥ १ ॥
अथ गुणादिनिरूपणानन्तरमलङ्कारनिरूपणं सङ्गमयति- अथेत्यादिना ।
अथ रौतिनिरूपणानन्तरम् । अवसरप्राप्तान् अवसरं निरूपणोचितः समयस्तं प्राप्ता इति तान् । अलङ्कारान् । आह- 'सामान्य विशेषाभ्याम्' इति शेषः । ' तथा च - सामान्यविशेषोभयविधलक्षणैः तदनुरूपोदाहरणेन च समुद्भावयतिइति निष्कर्ष: ६१ शब्दार्थयोरित्यादिना ।
६१ ये । 'केचित्' इति शेषः । अस्थिरा न स्थिरा नियतस्थितिका इति तथोक्ताः । 'काव्येषु' इति शेषः । अत एव काव्यत्वोपकारकत्वमप्येतेषामनियतमेवेति बोध्यम् । शब्दार्थयोः शब्दस्यार्थस्य चेत्यर्थः । शोभाऽतिशायिनः । शोभामतिशाययन्ति इत्येवंशीला इति तथोक्ताः । तथा च शब्दार्थसम्बन्धिन्या शोभायाः अतिशायका इति निष्कृष्टम् । 'सुयजातौ णिनिस्ताच्छील्ये ।' ३ २३७८ इति णिनिः । धर्माः । नतु गुणास्तेषामस्थिरत्वाभावात् । न च रीतयस्तासां शब्दार्थयोरुभयोरपि शोभाऽतिशय विघायकत्वाभावात् । रखादीन् शृङ्गारादितदाभासादीनित्यर्थः । उपकु ति उत्कर्षयन्ति । 'अनैयत्येन' इति शेषः । तथा च अनियतस्थितिकतया ये शब्दार्थयोः शोभामतिशाययन्तो रसादी - कुर्वन्तीति निष्कृष्टम् । 'उपकुर्वन्त' इति पाठे 'स्थिताः' इत्याहाय्यम् । ते धर्मा इति शेषः । अङ्गदादिवदङ्गदादिभिस्तुल्यम् | अलङ्कारा 'मता:' इति शेषः । एतेन - निरलङ्कारमपि काव्यमिति सूचितम् । अत्रायम्भावः - श दार्थ (वाक्य) शरीरं रसात्मशालि काव्यम्, तत्र शब्दार्थनिष्टाः पुनरनुप्रासोपमाप्रभृतयः काव्यात्मभूतानां शृङ्गारादितदाभासादीनामलङ्कारा इत्यलङ्कारा इति व्यपदिश्यन्ते, अङ्गदादयो यथाऽलङ्काराश्चमत्कार विशेषरूपमात्मानमन्तरा शरीरेऽवस्थापिता अपि विडम्बयन्ति, न तु मनागुपकुर्वन्ति तथा शब्दार्थयोरवस्थापिता अपि रसमन्तरेण तेऽप्यनुप्रासोपमादयः इति तेषामिवैतेषां तदानीं गौणत्वमव्याहतमूर्ति, अनियतस्वाभाव्यात् । अथ यथाऽङ्गदादयः स्वनिवेशोचितबाह्रादयतिरिक्ताङ्गस्थिता नाङ्गिनोऽलङ्कृतये, तथाऽनुप्रासोपमादयोऽपि स्वनिवेशोचितरसानुगुणव्यतिरिक्त वाक्यविशेषस्थिता न काव्यस्योपकृतये । तथा - सर्वस्याङ्गिनोऽलङ्कृतयेऽङ्गदादयोऽप्रभवन्तोऽपि यथा यस्यकस्यचित्तदङ्गस्य निर्बाधं क्षमन्सेऽलङ्कृतये तथाऽनुगुणः पुनरुक्तवदाभासोपमाऽऽदयः काव्यस्योपकृतयेऽप्रभवन्तोऽपि यस्य कस्यचित्तदशस्य प्रभवन्स्युपकृतयेऽवश्यम् । इति नालङ्कुर्वन्तु नामात्मानं, समस्तं वा शरीरं; किन्तु शरीरांशभूतमवयवविशेषं त्ववश्यमल कुर्वन्तीति निर्विचिकित्सितं विदुषाम् । अत एवोक्तं प्रकाशकारैः - ' उपकुर्वन्ति तं सन्तं येऽङ्गद्वारेण जातुचित् । हारादिवदलङ्कारास्तेऽनुप्रासोपमाऽऽदयः ॥' इति । इदमभिहितम्, हारादयोऽलकारा यथा कण्ठादयुत्कर्षाधानमुखेन शरीरस्योत्कर्षका भवन्तः शरीरिणोऽप्युत्कर्षाय, तथाऽनुप्रासोपमाssदयो वाचकवाच्योत्कर्षाधानमुखेन वाक्यस्योत्कर्षकाः सन्तो रसस्याप्युत्कर्षायेत्यमी अलङ्कारव्यपदेश्याः । एवं च - ( शब्दार्थ ) शरीरशोभाऽतिशयाघानमुखेम ( रसस्य ) आत्मनः कदाचिदलङ्कारकत्वमलङ्कारत्वमिति निष्कृष्टम् । अन्ये त्वाहु:'सोपकारकत्वे सति सावृत्तित्वं, रसोपकारकत्वे सति रसानियतस्थितिकत्वमलङ्कारत्वम् ।' इति ॥ ५४ ॥