________________
परिच्छेदः ]
रुचिराख्यया व्याख्यया समेतः ।
१२१
वाच्यौचित्याद्यथोदाहते 'मूर्धव्याधूयमान..." इत्यादौ । प्रबन्धौचित्याद्यथा नाटकादौ रौद्रेऽप्यभि. नयप्रतिकूलत्वेन न दीर्घसमासादयः । एवमाख्यायिकायां शृङ्गारेऽपि न मसृणवर्णादयः। कथायां रौद्रेऽपि नात्यन्तमुद्धताः। एवमन्यदपि ज्ञेयम् ।
इति श्रीविश्वनाथ 'कविराज'कृतौ साहित्यदर्पणे रीतिविवेचनो नाम नवमः परिच्छेदः।
___ ननु वाच्यौचित्यात् क्व तर्हि रचनायुद्धतताया न प्रतिकूलत्वमित्याह-वाच्यौचित्त्याद्वाच्यस्यार्थस्यौचित्यमनु. रूपत्वं तस्मात्तद्वशादिति यावत् । यथा । उदाहते । सप्तमे परिच्छेदे इति शेषः । 'मूर्धव्याधूयमान...'इत्यादौ । . 'मूर्धव्याधूयमानध्वनदमरधुनीलोलकल्लोलजालोद्धृताम्भःक्षोददम्भात्प्रसभमभिनभःक्षिप्तनक्षत्रजाल: । ऊर्धन्यस्ताघ्रिदण्डभ्रमिभररभसोद्यन्नभस्वत्प्रवेगभ्रान्तब्रह्माण्डखण्डं प्रवितरतु शिवं शाम्भवं ताण्डवं वः॥' इत्यादौ पद्यविशेषे इत्यर्थः । इति ।
अत्रायम्भावः-अत्र हि ताण्डवं वाच्यम्, तदपि शम्भोः; इति तस्य खतो लोकसंहारकर्तत्वादुद्भटत्वम्, येनानुगणत्वं रचनायुद्धततायाः । न चात्र वक्तुः प्रबन्धस्य वौचित्यं चिन्त्यम् । मङ्गलाभिमुखत्त्वाद्वक्तुः, प्रबन्धस्य च तदनुरूपत्वान्नाटकविशेषरूपत्वाच । इति ।
अथ प्रबन्धमात्रस्यापि क्वचिदौचित्यं प्रधानमित्याह-प्रबन्धौचित्यात प्रबन्धस्य नाटकादेरौचित्यं तस्मात् । यथा । नाटकादौ । प्रबन्धे इति शेषः । रौद्रे तदाख्ये रसे । प्रधाने सतीति शेषः । अपि । क्वचिदिति शेषः । अभि. नयप्रतिकूलत्वेनाभिनयस्य शरीरचेष्टाऽऽदिभिश्यपदार्थज्ञापकस्य प्रतिकूलत्वं तेन । दीर्घसमासादयः । रौद्रानुरूपा अपीति शेषः । न । निवेश्यन्ते कविभिरिति शेषः । एवं यथा निरुक्तस्थले तयेति भावः । आख्यायिकाया. म । आख्यायिका च प्रसिद्धचरितगर्भितः कथानिबन्धविशेषः । शृङ्गारे । तत्प्रधाने काव्ये इति भावः। अपि क्वचिदिति शेषः । मसणवर्णादयो मसणा अपरुषा अमी वर्णादय इति । न । दृश्यन्ते इति शेषः । तथा-कथायां वृत्तान्त. वर्णनप्रकरण इति भावः । रौद्रे । अपि । स्थिते इति शेषः । अत्यन्तम् । उद्धताः । रचनादय इति शेषः । न । युक्ता भवन्तीति शेषः ।
उक्त न्यायमन्यत्रापि निर्दिशति-एवम् । अन्यत् । अपि । ज्ञेयम्। अथ प्रकरणमुपसंहरन्नाह-इतीत्यादि ।
इति । श्रीविश्वनाथकविराजकृतौ विश्वनाथोऽसौ कविराजस्तस्य कृतौ कृतिरूप इत्यर्थः । साहित्यदर्पणे तदाख्येऽलङ्कारशास्त्रे । रीतिविवेचनो रीतीनां पदसघटनविशेषरूपाणां वैदर्भीप्रभृतीनां विवेचनं यत्र.सः । नाम प्रसिद्धः । नवमः । परिच्छेदः। समाप्त इति शेषः ॥
विविधरीतिनिदर्शनदीक्षितं सकललोकमनोहरवैभवम् । निखिलसद्गुणभव्यनिकेतनं विभवदं भवदंशहरं नवे ॥
इति श्रीशिवनाथसरिसूनुना श्रीशिवदत्तकविरत्नेन प्रणीतायां श्रीसाहित्यदर्पणस्य रुचिराख्यायां व्याख्यायां रीतिवि. वेचनो नाम नवमः परिच्छेदः सम्पूर्णः ॥ शुभम्भूयात् ।