________________
साहित्यदर्पणः ।
( नवमः
'वादी' स्यादिदा च्यप्रबन्धौ । 'रचनादी' त्यादिशब्दाद् वृत्तिवर्णी । तत्र वक्त्राद्यौचि
१२०
त्याद्यथा
'मन्थायस्तार्णवाम्भः प्लुतकुहरचलन्मन्दरध्वानधीरः कोणाघातेषु गर्जत्प्रलयघनघटाऽन्योऽन्यसङ्घट्टचण्डः । कृष्णाक्रोधाग्रदूतः कुरुकुलनिधनोत्पातनिर्घातवातः केनास्मत्सिंहनादप्रतिरसित सखो दुन्दुभिस्ताडितोऽयम् ॥ ६९ ॥' इत्यत्र वाच्यस्य क्रोधादिव्यञ्जकत्वाभावेऽपि भीमसेनस्य वक्तृत्वेनोद्धता रचनाssदयः
अथादिपदार्थ विशृणोति - 'वक्त्रादी' त्यादिशब्दात् । वाच्यप्रबन्धौ । ग्राह्यौ इति शेषः । 'रचना' दी । स्यादिशब्दात् । वृत्तिवर्णौ । वृत्तिः समासः । वर्णश्चाकारादिः । प्रायाविति शेषः । एवं च क्वचिद्वक्तुर्वाच्यस्य प्रबन्धस्य वौचित्यवशाद्रचना समासव्यवस्था वर्णाश्च तत्तद्रसादिप्रतिकूला अपि भवन्तीति स्थितम् । इति ।
तत्र | वक्त्रौचित्यात् । वक्तुरौचित्यं तस्मात् । उचितत्वं च स्वभावानुकूलत्वम् । यथा 'मन्थ-' इत्यादौ ।
'मन्थायस्तार्णवाम्भः प्लुतकुद्दुरचलन्मन्दध्वानधीरो मन्थेन मन्थनेनायस्तमान्दोलितं यदर्णवाम्भस्तेन प्लुतमाप्लुतं कुहरं छिद्रं : गुहेति यावद् यस्य, सोऽसौ चलन्मन्दरः सञ्चारशीलो मन्दरगिरिस्तवानधीरस्तद्धनिसदृशगम्भीरः । कोणाघाते । 'भेरीशतसहस्राणि ढक्काशतशतानि च । एकदा यत्रताड्यन्ते कोणाघातः स उच्यते ॥' इति भरतपारिभाषितेषु शब्देषु सत्स्वित्यर्थः । गर्जत्प्रलयघनघटाऽन्योऽन्य सङ्घट्टचण्डो गर्जन्तः प्रलयघनाः प्रलयसामयिका मेघास्तेषां घटास्तासामन्योऽन्यं सङ्घट्टस्तद्वचण्डः । कृष्णाक्रोधाग्रदूतः कृष्णाया द्रौपद्या यः क्रोधस्तदग्रदूतस्तस्य प्रथममेव दूत इव सूचकः । यद्वाऽग्रः प्रधानो दूतः । ' कृष्णा स्याद् द्रौपदीनीलीकणाद्राक्षासु योषिति ।' इति मेदिनी । 'अग्रे पुरस्तादुपरि परिमाणे पलस्य च । आलम्बने समूहे च प्रान्ते च स्यान्नपुंसकम् । अधि च प्रधाने च प्रथमे चाभिधेयवत् ।' इति मेदिनी । कुरुकुल निधनोत्पातनिर्घातवातः कुरूणां कुरुवंशभवानां दुर्योधनादीनामिति यावत् कुलं वंशः समूहो वा तस्य निधनं पर्यवसानं तदर्थ उत्पातनिर्घातस्तद्वातः तत्प्राप्तिरूपः । यद्वा, तदर्थमुत्पातनिर्घातवातः । उत्पातोऽसौ निर्घातवात इति । 'भावे || ३ | ६| १८॥ ' इति घञ् । 'हनस्तोऽचिणलोः ॥ ७ । ३ । ३२ ॥' इति तान्तादेशः । 'हो हन्तेन्निषु ॥ ७ । ३ । ५४ ॥' इति घादेशः । स च निर्धातः 'यदाऽन्तरीक्षे बलवान् मारुतो मारुताहतः । पतत्यधः स निर्घातो जायते वायुसम्भवः ॥ ' इत्युक्तनयात्माऽशुभसूचको ध्वनिरिति । अस्मत्सिंहनादप्रतिरखितसखः । वयं सिंहा इवेत्यस्मत्सिंहास्तेषां नादः, स एव प्रतिरसितो मे वध्वनिप्रतिद्वन्द्विभूतस्तत्सखेति । यद्वाऽस्मत्सिंहानां नादस्तत्प्रतिरसितं प्रतिध्वनिस्त त्सखः । इति । 'उपमितं व्याघ्रादिभिः सामान्याप्रयोगे ॥ २ । ३ । ५९ ॥' इति विशेषस्य पूर्ववद्भावः । ' स्तनितं गर्जितं मेघ - निर्घोषो रसितादि च ॥' इत्यमरः । ' राजाहः सखिभ्यष्टच् ॥' ५।४ । ९१ ॥ ' इति टच् । 'कुगतिप्रादयः ॥ २ । २ । १८ ॥ इति प्रतिना समासः । अयम् । केन निर्भीकेनेति शेषः । दुन्दभिः । ताडितः । सशब्दः कृतः ॥ ' इति । अत्र स्रग्धराछन्दः । लक्षणं च प्रागुक्तम् ॥ ६९ ॥
अथ निरुक्तस्थले वक्त्रादयौचित्यं दर्शयति- इत्यत्रेत्यादिना ।
इत्यत्रेत्येवमुदाहृतेऽस्मिन् पद्ये । वाच्यस्यार्थस्य प्रश्नरूपस्येति यावत् । क्रोधादिव्यञ्जकत्वाभावे । आदिपदेनोत्साह जुगुप्सयोरपि ग्रहणम् । अपि । भीमसेनस्य । वक्तृत्वेन वक्तत्वरूपेण हेतुनेति भावः । रचasser | आदिपदेन समासव वर्णाश्चापि ग्राह्याः । उद्धताः । सन्तीतिः शेषः । इति । अत्रायम्भाव:वेणीसंहारनाटकस्थं पद्यमिदम् । रणाङ्गणे दुन्दुभिध्वनिं श्रुत्वा तदर्थ प्रश्नावतारवात्र भीमस्य । नाटकात्मा चाभिनयार्थिक इति तत्र न समासौद्धत्यमनुकूलम् । वाच्यस्य च प्रश्नात्मकत्वमिति न तस्यापि क्रोधादिव्यञ्जकत्वं येन रचनादीनामोद्वत्यमनुकूलं स्यात् । अथाऽप्यत्र केवलं भीमसेनो वक्ता । स च खभावादुद्धतः । अतोऽस्यैवानुरूपं रचनादि । इति ।