________________
११९
परिच्छेदः )
रुचिराख्यया व्याख्यया समेतः । यथा-'अयमुदयति मुद्राभञ्जनः पद्मिनीनामुदयगिरिवनालीबालमन्दारपुष्पम् ।
विरहविधुरकोकरन्द्रबन्धुर्विविन्दन कुपितकपिकपोलकोडताम्रस्तमांसि ॥६८॥' कश्चिदाह'मृदुपदसमाससुभगा युक्तैर्वर्णै तातिभूयिष्ठा । उचितविशेषणपूरितवस्तुन्यासा भवेल्लाटी॥'इति । अन्ये त्वाहुः-'गौडयाडम्बरबद्धा स्याद् वैदर्भी ललितकमा ।
पाञ्चाली मिश्रभावेन लाटी तु मृदुभिः पदैः॥ इति । ६० कचित्तु वक्त्राद्यौचित्यादन्यथा रचनाऽऽदयः॥ ५३ ॥
वैदर्भीपाञ्चाल्योर्लक्षणाक्रान्ता लाटी रीतिरिति निष्कर्षः । वैदर्भी च माधुर्यानुगुणा । पाञ्चाली पुनः किञ्चित्तद्विजातीयाs. पीत्यावेदितचरम् ।
उदाहरति-यथा-'अय'मित्यादौ ।
'पद्मिनीनां कमलवनानां कमलिनीनां वा । 'पद्मिनी पद्मसङ्घाते स्त्रीविशेषे सरोऽम्बुजे ॥' इति मेदिनीकारः । मुद्राभलनः । मुद्रा सङ्कोचस्तस्या भञ्जनो भञ्जक इत्यर्थः । 'नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः ॥३।१। १३४ ॥' इति ल्युः । 'युवोरनाकौ ॥ ७ । १।१॥' इत्यनः । उदयगिरिवनालीबालमन्दारपुष्पम् उदयगिरिरुदयाचलस्तस्य वनाली वनानामाली पङ्क्तिस्तस्या बालमन्दारपुष्पं तद्रूप इति यावत् । बालं नवविकसितं यन्मन्दारपुष्पं मन्दारस्य सुरद्रुमविशेषस्य पुष्पम् । 'पञ्चते देवतरवो मन्दारः पारिजातकः । सन्तानः कल्पवृक्षश्च पुंसि वा हरिचन्दनम् ॥' इत्यमरः । विरहविधुरकोकरन्द्रबन्धुर्विरहेण परस्परं विश्लेषेण विधुरं विकलं यत् कोकद्वन्द्वं तद्वन्धुः। 'वैकल्येऽपि च विश्लेषे विधुरं विकले त्रिषु ।' इति त्रिकाण्डशेषः । कोका च कोकश्चेति कोको तयोर्द्वन्द्वम् । कोकश्च चक्राङ्गः पक्षि. विशेषः । 'कोकश्चक्रवाको रथाङ्गाह्वयनामकः ।' इत्यमरः । 'द्वन्द्वं कलयुग्मयोः।' इत्यमरः । 'पुमान् स्त्रिया ॥१॥२॥६॥' इति कोकल्यैव विशेषः । नक्तं हि तयोवियोगस्तन्निवृत्तिश्च दिवेति दिवाकरस्य तद्वन्धुत्वम् । कुपितकपिकपोलको. डताम्रः कुपितोऽसौ कपिस्तत्कपोलक्रोड कपोलमध्यभागस्तद्वत्ताम्रः । कपिगण्डस्थलं हि स्वभावाद्रक्त तत्पुनर्मध्य तत्पुनः कोपे। 'कोड: कोले (सकरे ) शनौ कोडमके' इति हैमः । अयम् । तमांसि । विभिन्दन् । पर्वतान् पविरिवेति शेषः । उदयत्युदयते । 'अनुदात्तत्त्वप्रयुक्तमात्मनेपदमनित्यम्' अत्र मालिनीछन्दः। लक्षणं प्रोक्तं प्राक् । इति । अत्र मसृणानां क्षुद्रसमासघटितानां च पदानां सत्त्वाद्वैदर्भीसंबलिता पाञ्चालीति लाटी । अत एव नात्र प्रक्रमभङ्गः॥ ६८ ॥'
अत्र मतान्तरमवतारयति-कश्चिदित्यादिना ।
कश्चिदालङ्कारिक इति शेषः । 'मृदपदसमाससुभगा मदुभिः पदैः समासैश्च सुभगा । मदवोऽमी पदसमासाः। पदानि च समासाश्चेति । च । युक्तैः संयुक्तैः । वर्णैः । न । अतिभूयिष्ठा । उचितविशेषणपूरितवस्तुन्यासो. चितविशेषणैः पूरितः सम्पन्नोऽसौ वस्तुन्यासो यत्र सा । वस्तुनो वर्णनीयस्य न्यासः । लाटी तदाख्या रीतिः । भवेत् ॥' इति । आह । एवं चोदाहृतस्थले विशेषणौचित्येनैव सूर्यवर्णनमभिव्यक्तमिति तत्रापि लाटीति स्थितम्। .
अथ चतसृणामपि रीतीनां झटिति स्वरूपावगमायाभिमताघमुपन्यस्यति-अन्ये इत्यादिना ।
अन्ये । आलङ्कारिका इति शेषः । तु । 'आडम्बरबद्धा साडम्बरा । गौडी। स्यात् । ललितक्रमा। वेदी । स्यादिति पूर्वेणान्वयः । एवं परत्रापि । मिश्रभावेन । मिश्रः सम्मेलनं, स च गौडी वैदोरेव तयोश्च भावः सद्भावः । तथा च-गौडीवैदर्युभयरूपेति निष्कर्षः । पाञ्चाली। स्यात् । लाटी । तु। मृदुभिः । पदैः । सङ्घटितेति शेषः । स्यात् ॥' इति । आहुः । अत्रार्याछन्दः । लक्षणं च प्रागुक्तम् ।
अथ-कचित् प्रकृतरीतिविपरीता अपि वक्तृवाच्यप्रबन्धवशादचनादयो भवन्तीत्याह-६० क्वचित्त्वित्यादिना ।
६०क्वचित् कस्मिंश्चित् स्थले । तु। वक्त्राद्यौचित्याद्वक्त्रादीनामौचित्यं तस्मात्तद्वशादिति यावत् । “विभाषा गुणेऽस्त्रियाम् । २।३।२५।' इति पञ्चमी । अन्यथा प्रातिकूल्येन । रचनादयः । रचना समासवर्णा इति भावः । सम्भवन्तीति शेषः ॥ ५३॥