________________
.[ देशमः
.... साहित्यदर्पणः । "नवपलाशपलाशवनं पुरः स्फुटपरागपरागतपङ्कजम् ।
मृदुलतान्तलतान्तमलोकयत् स सुरभि सुरभि सुमनोभरैः ॥ ७७॥" अत्र पदावृत्तिः "पलाशपलाश" इति, “सुरभिं सुरभिम्" इत्यत्र च द्वयोः सार्थकत्वम्, "लतान्तलतान्त" इत्यत्र प्रथमस्य निरर्थकत्वम् , “परागपराग' इत्यत्र द्वितीयस्य । एवमन्यत्राप्युदाहाय॑म् ।
भागचतुर्थपादान्त्यभागयोश्च साम्येऽन्य इति सकरा इति नव । अर्धावृत्त्या समं पूर्ववद्दशभेदाः । इत्थं द्विखण्डीकृतेषु पादेषु विंशतिः, त्रिखण्डीकृतेषु त्रिंशत, चतुःखण्डीकृतेषु चत्वारिंशद्भेदाः स्थानापरिवर्त्तिनो भवन्ति । तेषामुदाहरणानि पादावत्तिदिशैवावसे यानि । अथ-स्थानपरिवर्तनभेदाः-प्रथमादिपादानामन्त्यादिभागा द्वितीयादिपादानामाद्यादिभागेषु यम्यते इत्याद्यन्वर्थताऽनुसारेणान्त्याद्यादियमकादयः प्रभेदा भवन्ति । तथा हि-द्विखण्डे यथा प्रथमपादस्यान्त्यमर्धे द्वितीयपादस्यार्धे चेद् यम्यते तदाऽन्तादियमकम् । प्रथमभाग एव चेदन्त्यभागे तदाद्यन्तयमकम् । एवं प्रथमपादस्याद्यान्तभागी द्वितीयस्यान्तादिभागयोर्यम्येते तदाद्यन्तादियमकयोः समुच्चयः । अत्र त्रिखण्डचतुःखण्डयो: पूर्वपादमध्यभागे उत्तरपादस्यादिभागे यदि यम्यते तदा मध्यादियमकम् । पूर्वस्यादिभागश्चेदुत्तरस्याद्यमध्ययोस्तदाः मध्याद्यादिमध्ययोः समुच्चयः । एवं-प्रथमस्यान्यभागो द्वितीयस्य मध्यभागे चेत्तदाऽन्त्यमध्यम् । पूर्वस्य मध्यभागश्चद् द्वितीयस्यान्त्यभागे तदा मध्यान्तिकम् । पूर्वस्यान्त्यमध्यभागौ चेद्वितीयस्य मध्यान्त्यभागयोस्तदान्त्यमध्यमध्यान्त्ययोः समुच्चयः । यद्यपि पूर्वस्यादिभाग उत्तरस्यान्त्यभागे चेतदाद्यन्तकमन्त्यभागस्त्वाद्यभाग चेत्तदादिकमित्यादिप्रकारद्वयं सम्भवति, तथाऽपि द्विखण्डान्तर्गतमेव तदिति पृथड़ न गण्यते । सर्वेषां चैषामपरः समुच्चय इति भिन्नपादे यमने प्रभेदाः । एवं तस्मिनेव पादे आद्यादिभागानां मध्यादिभागेष्वावृत्तौ भेदा द्रष्टव्याः । सर्वे चैते नियतस्थानविवक्षया स्थानयमकभेदा नियतेषु स्थानेष्वावृत्तेरिति बोध्यम् । अनियतस्थानयमकभेदा अपि बहवो भवन्तीति प्रभूततमभेदं यमकम् । एतेषामुदाहरमानि तत्र महाकविप्रयोगेष्वनुसन्धेयानि, विस्तरभयानेह प्रपञ्च्यन्ते ॥' इति ।
- इक्षुदण्डे चय॑माणे गडवत् काव्येऽपि यमकस्य रसप्रतिबन्धकत्वमित्येतस्य प्रभूततयोदाहतैरपि किं भेदैरित्याशयेनाहदिङमात्रमित्यादि । स्पष्टम् 'नवेत्यादि ।
'स श्रीकृष्णः । नवपलाशपलाशवनं नवानि पलाशानि पत्राणि यस्य तत्, तादृशं पलाशवनं पलाशानां (किंशुकानां)वनं यत्र तम्। 'पत्रं पलाशं छदनं दलं पर्ण छदः पुमान् ।' इति पलाशे किंशुकः पर्णो वातपोथः' इति चामरः । स्फुटपरागरागतपङ्कजं स्फुटानि विकसितानि परागपरागतानि पङ्कजानि यत्र तम् । परागेण सुगन्धाश्रितेन रजोविशेषेण परागतानि व्याप्तानीति परागपरागतानि । 'परागः सुमनोरजः ।' इत्यमरः । मृदुल-तान्त-लतान्तं मृदुला: कोमला अत एव तान्ताः क्लिष्टाः (आतपेन) लताऽन्ता लतानामन्ता अन्यावयवा यत्र तम् । तमे के 'अनुनासिकस्य विझलो:कडिति ।' ६।४।१५ इति दीर्घे तान्तः। अथास्त्रियाम् । अन्तो जघन्यं चरममन्त्यःपाश्चात्यपश्चिमम् ।' इत्यमरः । समनोभरेः सुमनसां पुष्पाणां भरा अतिशयाः समृद्रय इति यावत् तैः । 'स्त्रियां सुमनसो भूम्नि पुष्पे' इति व्याडिः । 'अथातिशयो भरः ।' इत्यमरः । सुरभि सुगन्धिम् । सुरभिं वसन्तम् । 'सुरभिश्चम्पके स्वर्ग जातीफलवसन्तयोः । सुगन्धौ च मनोज्ञे च वाच्यवत् ।' इति विश्वः । पुरः पुरस्तात् प्रथमं वा । अलोकयत् ॥ ७७ ॥' ।
अत्र यमकं दर्शयति-अत्र । पदावृत्तिः पदस्य पादांशस्यावृत्तिः तत्प्रभेदं यमकमिति यावत् । तत्र च 'पलाशपल्लाश'इति । 'अत्रेति शेषः । 'सुरभिं सुरभिम्' इत्यत्र । च । द्वयोराद्यान्त्ययोः पादांशयोरित्यर्थः। सार्थकत्वम् । 'लतान्त-लतान्त' इत्यत्र । प्रथमस्य प्राथमिकस्य । निरर्थकत्वम् । तदवयवायमानस्य'ल' इत्यस्य पदान्तरावयवत्वात् ।' इति शेषः। 'पराग-पराग' इत्यत्र । द्वितीयस्य 'परागत' इत्यंशभूतस्यान्त्यस्य यमकस्येत्यर्थः । 'पुननिरर्थकत्वम् इति शेषः । एवं च-पादांशभूतानां पलाशा'दिपदानामावर्त्यमानत्वात्पदावृत्त म यमकम् ।