________________
परिच्छेदः ]
रुचिराख्यया व्याख्यया समेतः। "यमकादौ भवेदैक्य डलोबोर्लरोस्तथा।" इत्युक्तनयात् 'भुजलता जडतामबलाजनः' इत्यत्र न यमकत्वहानिः।
७१ अन्यस्यान्यार्थकं वाक्यमन्यथा योजयेद् यदि ।
अन्यः श्लेषेण काका वा सा वक्रोक्तिस्ततो द्विधा ॥ ६२ ॥ 'द्विधेति श्लेषवक्रोक्तिः, काकुवक्रोक्तिश्च । क्रमेणोदाहरणम्
"के यूयं, स्थल एव सम्प्रति वयं, प्रश्नो विशेषाश्रयः, - किं ब्रूते विहगः स वा फणिपतिर्यत्रास्ति सुप्तो हरिः । वामा यूयमहो विडम्बरसिकः कीदृक् स्मरो वर्नते येनास्मासु विवेकशून्यमनसः पुंस्वेव योषिद्धमः ।। ७८ ॥"
इदं च बोध्यम्-अत्र एषां सार्थकत्वं निर्थकत्वं च, यत्र पुनः सार्थकत्वं तत्रार्थों भिन्न एवेति न लाटानुप्रासेनास्य गतार्थत्वम् । इति । एवम् । अन्यत्र । अपि । उदाहार्यम् ।
ननु 'अनुभवन्नवदोलमृतूत्सवं पटुरपि प्रियकण्ठजिघृक्षया । अनयदासनरज्जुपरिग्रहे भुजलतां जडतामबलाजनः॥' इत्यादौ यमकं कथं सम्भवति, तथैवावृत्त्यभावात् । इत्याशङ्कयाह-'यमकादौ । आदिना श्लेषादिग्रहणम् । 'अलङ्कारे' इति शेषः । डलोर्डकारलकारयोः । वबोर्वकारबकारयोः । तथा लरोलकाररकारयोः । ऐक्यं समानात्मकत्वम् । भवेत । 'शष ( सष ) योनणयोश्चान्ते सविसर्गाविसर्गयोः । सबिन्दुकाबिन्दुकयो: स्यादभेदप्रकल्पनम् ॥' इति शेषः । इत्यत्तन. यात् । 'भुजळतां जड (ल) तामवलाजनः॥' इत्यत्र । 'कालिदासप्रबन्धे' इति शेषः । यमकत्वहानिः । न । डकारलकारयोः सबिन्दुकाबिन्दुकयोश्च भेदसत्त्वेऽपि श्रुतिसाम्यात्' इति शेषः ।
अथ वक्रोक्किं लक्षयति ७१ अन्यस्येत्यादिना ।
७१ अन्यो भिन्नो जनः 'वक्तु'रिति शेषः । यदि। अन्यस्य स्वभिन्नस्य वक्तरित्यर्थः । अन्यार्थकमन्यः स्वतात्पाद्भिन्नोऽर्थस्तात्पर्य यस्य तत् । वाक्यम् । अन्यथाऽर्थान्तरप्रतिपादकत्वेन । योजयेत समर्थयेत । तर्हिवक्रोक्तिः । सा । 'यत' इति शेषः । श्लेषण शब्दश्लेषेण । वाऽथवा । काका ध्वनिचिकारेण । 'सम्पद्यते' इति शेषः । ततस्तस्मात् कारणात् । द्विधा द्विविधा । इदं सत्वम्-येन केनापि जनेन येन केनापि तात्पर्येण यत् किश्चिदुक्तं तद्भिन्नेन जनेन पुनस्तत् किमपि वाक्यं तद्भिन्नेन केनापि तात्पर्येण कल्प्यते, तद् (वाक्यं ) वक्रोक्ति मालङ्कारः, तत्र तथा कल्पनं श्लेषेण काका वेति द्विविधैषा । श्लेषश्च सभङ्गपदोऽभङ्गपदश्चेति श्लेषवक्रोक्तिर्द्विविधा । शब्दपरिवृत्त्यसहत्वाच्छाब्दीयम् । इति ॥ ६२ ॥
कारिकां सुगमयितुमाह-द्विधेत्यादि । स्पष्टम्। उदाहरति-के। यूयं पुरःस्थिता भवन्तः । (इति वक्तृतात्पर्य्यम ) सम्प्रति । वयम् । स्थले निर्जले प्रदेशे । एव न तु के (जले) 'मारुते वेधसि अध्ने पुंसि कः, कं शिरोऽम्बुनोः' इत्यमरः। (इति तात्पर्ध्यान्तरम् ) । वक्ताऽऽह-विशेषाश्रयो विशेषो व्यक्तिराश्रयो विषयो यस्य सः । प्रश्नः (युष्मदव्यक्तिजिज्ञासाविषयको मम प्रश्नः । इति तात्पर्य्यम् )। सिहगः पक्षी। किम् । बूते पृच्छति । यत्र यद्भोगे इत्यर्थः । हरिर्विष्णुः । सप्तः । अस्ति । सः। वा । फणिपतिः शेषः । 'किं ब्रूते'इति पूर्वेणान्वयः । (विश्च शेषश्चेति ताथाश्र. योऽधिष्टानं यस्य सः । तथा च न युष्मभ्यं, किन्तु वये (पक्षिणे) शेषाय वा मम प्रश्न इति तात्पर्य्यान्तरेणोत्तस्म) 'नगौकोवाजिविकिरविविष्किरपतत्रियः ।' इत्यमरः। एवमुत्तरेण कदर्थित आह-वामाः कुटिलाः । 'वाम सव्ये प्रतीपे च द्रविणे चातिसन्दरे । पयोधरे हरे कामे विद्याद्वाममपि स्त्रियाम् ॥' इति विश्वः । यूयम् (वाकूछलेन कदर्थयथेति ययं कुटिला इति तात्पर्य्यम्)। अहो आश्चर्यम् । येन यद्वारा यद्वशतयेति यावत् । अस्मात् । पुंस व्यक्तिकेषु विषये । एव । अप्यर्थमिदम् । विवेकशून्यमनसो विवेकेन विचारेण वक्तव्यावक्तव्यरूपेणाज्ञानेनेति यावत्, शून्यं रहितं ममो बुद्धिर्यस्य तस्येति तथोक्तस्य। 'मनश्चित्ते मनीषायाम् ।' इति व्याख्यामुधा । योषिद्धमो योषिदवलम्बनो भ्रम :(अत