________________
- साहित्यदर्पणः।
[दशम:अत्र 'विशेष'पदस्य 'विः (पक्षी) शेषो (नागः)' इत्यर्थद्वययोगाव सभङ्गश्लेषः । अन्यत्र तु अभङ्गः ।
'काले कोकिलवाचाले सहकारमनोहरे। कृतागसः परित्यागात्तस्याश्वेतो न दूयते ॥ ७९ ॥" . अत्र कयाचित्सख्या निषेधार्थे नियुक्तो न, अन्यथा काका 'दूयत एवं' इति विध्यर्थे घटितः ।
७२ शब्दैरेकविधैरेव भाषासु विविधास्वपि।
वाक्यं यत्र भवेत्सोऽयं भाषासम इतीष्यते ॥ ६३ ॥
एव-वामाः स्त्रियो यूयमिति प्रश्नः । इति तात्पर्यान्तरम् । सः-विडम्वरसिको विडम्बः प्रतारणं तत्र रसिकः । स्मरो मदन :। कीहक । वर्तते ॥' अत्र शार्दूलविक्रीडितं वृत्तम् । तलक्षणं चोक्तं प्राक् ॥ ७८ ॥
अत्रेत्यत्रेत्यर्थः । 'वक्रोक्तो'इति शेषः । विशेषपदस्य विशेषाश्रय'इत्यवयवभूतस्य विशेष' इति शब्दस्य । वि. (पक्षी) शेषः । (नागः) इत्यर्थद्रययोगात् । सभङ्गश्लेषो भङ्गो विभागस्तेन सह वर्तते इति सभङ्गः,सोऽसौ श्लेषः । अन्यत्र । तु पुनः । अभङ्गः। श्लेषः' इति शेषः। __यथा वा-'किं गौरि ! मां प्रति रुषा ननु गौरहं किं कुप्यामि का प्रति मयीत्यनुमानतोऽहम्।जानाम्यतस्त्वमनुमानत एव सत्यमित्थं गिरे गिरिभुवः कुटिला जयन्ति ॥' इत्यत्र 'गौरिमाम्"अनुमानतोऽहम्' इत्येतयोर्भङ्ग एव श्लेषः । यथा वा-नाथ ! मयूरो नत्यति, तुरगवदनवक्षसः कुतो नृत्यम् । ननु कथयामि कलापिनमिह सखलापी प्रिये ! कोऽस्ति ॥' इत्यत्र-'मयूरः' "कलापिनम्' इत्येतयोर्भङ्गे श्लेषः । अभङ्गश्लेषो यथा-'अहो केनेदृशी बुद्धिर्दारुणा तव निर्मिता।दारुणा श्रूयते बुद्धिर्नतु दारुमयी क्वचित् ॥' इत्यत्र 'दारुणे'त्यभङ्गमेव श्लिष्टम् । अत्राहुः प्रदीपकारा:-'इयं च न वाकोवाक्यमात्रे किन्तु खतोऽप्यन्येनोक्तस्यान्यथायोजनमात्रे, न्यायसाम्यात् । यथा-'कृष्णो वैरिविमर्दने सुविदितः प्रीत्यर्जने त्वर्जुनः पीतः पङ्कजलोभिरभितो नेत्राचलैश्चञ्चलैः । रक्तः सज्जनसामेषु करणश्रेणीमणे श्रीधर ! स्थाने वर्णचतुष्टयस्य भुवने भर्ती भवान् गीयते ॥' इत्यत्र वर्णचतुष्टयस्य भर्ती श्रीधर इति सार्वलोकिकं वाक्यमन्वयश्लेषादिनाऽस्माभिः सथितम् ।' इति । वाको वाक्यं चान्याभिप्रायेणोक्तस्य वाक्यस्यान्याभिप्रायेण योज्यमानत्वम्। तदुक्तम् । 'अन्याभिप्रायेणोक्तं वाक्यमन्येनान्यार्थकतया ययोज्यते सा वक्रोक्तिः । एतदेव वाकोवाक्यमुच्यते।' इति ।
एवं श्लेषमूलां वक्रोक्तिमुदाहृत्य काकुमलामुदाहरति-'काले' इत्यादिना । इति ।
को कलवाचाले कोकिलाचालस्तत्र । कोकिलानां ध्वनिभिर्व्याप्ते इत्यर्थः । यद्वा कोकिला एव वाचाला विरहिजनस्य दुःखप्रदतया बहुलतथा वाऽनादरास्पदका कलिका यत्र तत्रेति तथोक्ते । 'आलजाटचौ बहुभाषिणि ।' ५।२।१२५ इति वाच आल: । सहकारमनोहरे सहकारैरतिसौरभैराम्रर्मनोहरस्तत्र 'सहकारोऽतिसौरभः।' इत्यमरः । काले समये वसन्तत्तौ इति यावत् । कृतागसः कृतमागोऽपराधः सपत्नीपारष्वङ्गरूपो येन तस्येति भावः । 'अपि प्रियस्य' इति शेषः । 'आगोऽपराधो मन्तुश्च ।' इत्यमरः । परित्यागात् परित्यागकरणात् । तं परित्यज्याव- . स्थानादित्यर्थः । तस्या मम सख्याः । चेतश्चित्तम् । न? दयते । 'दु' उपतापे ।' अत्र कयाऽपि 'न दूयते' इति निषेधार्थकतया प्रयुक्तो 'न' शब्दोऽन्यथाविध्यर्थतया योजितः । कानेकतया च छेकानुप्रासः ॥ ७९ ॥'
अत्र काकुं दर्शयति-अत्रास्मिन्नुदाहृते पद्य इति भावः । कयाचित् । सख्या। निषेधार्थे । न 'नञ्' इति शब्दः । नियुक्तः । अन्यथा 'पुन' रिति शेषः । काका काकुद्वारा । 'यते । एव' इतीत्येवम् । विध्यर्थे । घटितो योजितः। यथा वा-'गुरुपरतन्त्रतया बत दूरतरं देशमुद्यतो गन्तुम् । अलिकुलकोकिलललिते सखि ! नैष्यति सुरभिसमयेऽसौ ॥' इत्यत्र 'नष्यती' ति कयाऽपि निषेधार्थकतयोक्तयाऽन्यया विध्यर्थे तस्यैव काका थोजित्यात् । यथा वा-सुस्मितरुचिरं मधुरं सुभगे मुदितं विलासि मित्रेण । तव मुखमिदमयि दयिते ! कुवलथमेवानुसज्जयति ॥' इत्यत्र काका 'एवेति निषेधे समर्थ्य 'कुवलयमेव न किन्तु 'कमलमपी' ति विध्यर्थे समर्थ्यते ।
अथ भाषासममाह-७२शब्दरित्यादिना। ७२ यत्र यस्मिन्नलङ्कारे शब्दन्यासे वा।विविधासु संस्कृतप्राकृताद्यनेकतयाऽनेकविधासु। अपि । भाषासु विषये । एकविधैः । एव । शब्दैः। अभेदे तृतीया । तथा च तादृशशब्दाभिनमिति फलितम् । वाक्यम् । भवेत् ।
लाना।