SearchBrowseAboutContactDonate
Page Preview
Page 717
Loading...
Download File
Download File
Page Text
________________ offeराख्यया व्याख्यया समेतः । यथा मम - " मञ्जुलमणिमञ्जीरे कलगम्भीरे विलास बरतीतीरे । विरसाsसि के लिकीरे किमालि धीरे च गन्धसारसमीरे ॥ ८० ॥" परिच्छेद: ] १३९ एष श्लोकः संस्कृतप्राकृत सौरसेनी प्राच्यावन्तीनागरापभ्रंशेष्वेकविध एव । "सरसं करण कव्वम्" इत्यादौ तु "सरस" मित्यत्र संस्कृतप्राकृतयोः साम्येऽपि वाक्यगतत्वाभावे वैचित्र्याभावान्नायमलङ्कारः । ७३ श्लिष्टैः पदैरनेकार्थाभिधाने श्लेष इष्यते । खः । भयम् अलङ्कारः शब्दन्यासो वेति शेषः । भाषासमो भाषया भाषणेन समस्तुल्य इति तथोक्तः । 'पूर्वसदृशसनामार्थकलह निपुणमिश्रश्लक्ष्णैः । २।१ । ३१ इति समासः । इति । इष्यतेऽभिलव्यते । 'आलङ्कारिकै रिति शेषः ॥ ६३ ॥ उदाहरति-यथा । मम विश्वनाथस्य कृतौ " मञ्जुलमणिमञ्जीरे" इत्यत्र' | 'हे आलि सखि ! " मञ्जुलमणिमञ्जीरे" मंजुलो मनोरमोऽसौ मणि ( युक्त ) मञ्जीरो नूपुरस्तत्र । 'मनोज्ञं मंजु मंजुलम् ।' 'रत्नं मणिर्द्वयोरश्मजातौ मुक्ताऽऽदिकेऽपि च ' 'मञ्जीरो नूपुरोऽस्त्रियाम् ।' इति चामरः । तथा-कलगम्भीरे कलेन कोकिलादीनां वविशेषेण गम्भीरेऽत्यन्तं निविडतया पूर्णे । विलास सरसीतीरे विलासः क्रीडा तस्य या सरसी वापी तस्यास्तीरं तत्र । तथा केलिकीरे केल: क्रीडायाः कीरः शुकस्तत्र । च पुनः । धीरे मन्दे । गन्धसारसमीरे गन्धसारं चन्दनं तस्य समीरो वायुस्तत्र । किम् । विरखा विरक्ता । असि । अत्र स्कन्धकं वृत्तम् । तदुक्तम् यथा-'स्कन्धकमिति तत् कथितं यत्र चतुष्कलगणाष्टकेनार्थं स्यात् । तत्तुल्यमग्रिमदलं भवति चतुःषष्ठिमा - कशरीरमिदम् ॥' इति ॥ ८० ॥ अत्र कथं भाषा समत्वमित्याशङ्कामपनेतुमाह एष उदाहृतः । श्लोकः पथम् । संस्कृतप्राकृत सौरसेनी नागरापभ्रंशेषु । एकविध एकप्रकारः । एव । तस्मादत्र भाषाणां साम्याद्भाषासमः इति शेषः । विस्तरभयादुपरम्यते । " कगच• अथ यत् किञ्चिद्वाक्यांशभूतं पदं भाषांसममपि नास्य पात्रमित्याह - 'सरसं रसयुक्तम् । करण कवेः । जतदवयवां प्रायो लोपः । २।२ इत्यनेन वस्य लोपः । 'इदुतो: शसोणो' ५।१४ इत्यनेनेतः परस्य ङसो णो ॥ कव्वं काव्यम् । 'अदातो यथादिषु वा । १ । १० इत्यातोऽदादेशः । अधोमयाम् ।' ३।२ इति यलोपः ।' इत्यादौ । तु पुनः । 'सर' इत्यत्र संस्कृतप्राकृतयोः संस्कृतस्य प्राकृतस्य चेत्यर्थः । साम्ये । अपि । वाक्यगतस्वाभावे वाक्यं 'सरसं करणो कव्वं' इति, तद्गतत्वाभावे सतीत्यर्थः । ' तस्य साम्यस्ये 'ति शेषः । वैचित्रयाभावात् । अत्रम् | अलङ्कारः । न नास्ति । अत्रायम्भावः - 'सरसं करणो कव्वं पअडिअपीऊ पसारसव्वस्स । तहजह णिचं मुदिअं सुखिणं पे मुहं तेत्थि ॥' इत्यादौ 'सरसं' इत्यादेर्वावयत्वाभावाद्भाषासमस्य च वाक्यमात्र सम्भवितया नात्र भाषासमोऽलङ्कारः । इति । अथ सप्रभेदं श्वेषं लक्षयति - ७३ लिष्टेरित्यादिना । ७३ लिष्टैः सम्मिलितैः परस्परं विभिन्नतां परित्यज्यानन्यतयाऽवस्थितैरिति यावत् । पदैः शब्दे : 'पदं शब्दे च वाक्ये च व्यवसायापदेशयोः । पादतच्चियोः स्थानत्राणयोरङ्कवस्तुनोः ॥' इति विश्वः । अनेकार्थाभिधानेऽनेके येऽर्थास्तेषामभिधान-मभिधयोपस्थापनं तत्रेति तथोक्ते । 'सती'ति शेषः । श्लेषस्तदाख्यः शब्दगतोऽलङ्कार इत्यर्थः । इष्यते । . अत्राहुस्तकं वागीशाः - 'सकृदुच्चारितः शब्दः सकृदर्थं गमयती 'ति नयेन काव्ये स्वरभेदानादराद्यावन्तोऽर्थास्तावन्त एव शब्दा एक प्रयत्नेनोच्चार्य्यन्ते' इति नये युगपन्नानाशब्दोच्चारणेऽपि तेषां भेदोपलम्भो न भवति । तत्रापि प्रकरणादिनियमाभावादनेकार्थानाम भिधयैव बोधः । प्रकरणादिनियमसत्त्वे तु एकस्याभिवयाऽपरस्य व्यञ्जनयेति मतमाश्रित्येदं लक्षणम् । एवं च - एकप्रयत्नोच्चार्यत्वेन लुप्तभेदानां वर्णादीनां मेलकः श्लेषः तद्विशिरैः पदैरनेकार्थानामभिध्या बोधने सति
SR No.023033
Book TitleSahitya Darpan Nam Alankar Sandarbh
Original Sutra AuthorN/A
AuthorVishvanathak Viraj, Shivdutta Kavi
PublisherKshemraj Krushnadas Shreshthi
Publication Year1838
Total Pages910
LanguageHindi
ClassificationBook_Devnagari
File Size33 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy