________________
[दशम:
। साहित्यदर्पणः । वर्णप्रत्ययलिङ्गानां प्रकृत्योः पदयोरपि ॥ ६४॥ . . श्लेषाद्विभक्तिवचनभाषाणामष्टधा च सः।
श्लेषो भवतीत्यर्थः । एवं सति नात्माश्रयः ।' इति । स श्लेषः । च पुनः । वर्णप्रत्ययलिङ्गानां वर्णौ च प्रत्ययौ च लिङ्गे चेति तेषां तथोक्तानाम् । वर्गों प्रत्ययाद्यतिरिक्ताक्षरविशेषौ । प्रत्ययौ विभक्तिभिन्नौ शब्दविशेषौ, अन्यथा 'विभक्ति...' इति पृथगुपादानमयुक्तं स्यात् । उक्तं च प्रदीपकारैः 'विभक्तवैचित्र्यविशेषहेतुतया पृथगुपादानात् प्रत्ययपदं तदतिरिक्तपरम्।' इति । अत एव वामनाचाय्रप्युक्तम्-'प्रत्ययः प्रत्ययसङ्घकः । प्रत्येति (प्रत्याययति) अर्थ बोधयतीति व्युत्पत्तिः । एवं च-प्रत्ययाधिकारपठितत्वे सत्यर्थबोधकत्वं प्रत्ययत्वम् । प्रत्ययपदमत्र गोबलीवर्दन्यायेन विभक्तिभिन्न परम् ।' इति । लिो पुंस्त्वस्त्रीत्वरूपे पुंस्त्वनपुंसकत्वरूपे स्त्रीत्वनपुंसकत्वरूपे वा । प्रकृत्योः प्रत्ययविधानावधिभूतयोः । पदयोः । अपि तथेत्यर्थः । अव्ययानामनेकार्थत्वात् । विभक्तिवचनभाषाणाम् । श्लेषान्मिलितत्वात् । 'कारणा' दिति शेषः । अष्टधाऽष्टप्रकारः । अत्रेदं तत्त्वम्-'सकृदुच्चारितः शब्दः सकृदथै गमयति' 'अर्थभेदे शब्दभेदः' 'काव्यमार्गे स्वरो न गण्यते,' 'शब्दबुद्धिकर्मणां विरम्य व्यापाराभावः' इत्याद्युक्तदिशाऽनेकार्थस्याप्येकस्य शब्दस्य 'संयोगे विप्रयोगश्च...शब्दार्थस्यानवच्छेदे विशेषस्मृतिहेतवः ।' इत्युक्तदिशा संयोगादिपरतन्त्रतयाऽर्थद्वयवाचकत्वं न वक्तुं शक्यते, यत्र पुनरर्थद्वयं तत्र संयोगादिमहिम्ना प्रकरणाद्यनियन्त्रितत्वे एव, अथ यत्रैकवाच्यार्थस्याप्येकस्य शब्दस्यार्थद्वयं, तत्र कविकौशलेनैकवत् प्रतीयमानस्य शब्दद्वयस्य माहात्म्यम्, नतु वस्तुत एकस्य । यत्र पुनर्वस्तुत एक एव शब्दः सोऽपि स्वभावादेकार्थस्तत्राभिधेयार्थस्त्वेक एव, किन्तु क्वचिल्लक्ष्योऽपि, यथाऽर्थश्लेषे, एवं स्वभावादेकवाच्यार्थस्यैकस्यापि शब्दस्याभिधा (निरूढ ) लक्षणाभ्यामर्थद्वयेऽर्थश्लेषः, अनेकवाच्यार्थस्य प्रकरणाद्यनियन्त्रितस्यैकस्यापि शब्दस्य संयोगादिमहिनाऽर्थद्वये पुनः शब्दविशेषगतोऽभङ्गः श्लेषः । प्रकरणादिनियन्त्रितस्य तस्यार्थद्वये व्यञ्जनाया माहात्म्यम्, अभिधाया एकार्थोपस्थापनानन्तरं क्षीणव्यापारत्वे व्यञ्जनाया एव तत्र प्रभुत्वात् । अत्रैवं-'यत्रैकप्रयत्नोच्चार्य्यतयाऽभिन्नत्वेन प्रतीयमानैः पदैः 'एकधुन्तगतफलद्वय'न्यायेनार्थद्वयस्योपस्थानं स शब्दश्लेषः' इति फलितम् । स त्रिविधः, सभङ्गपदा. भङ्गपदसभङ्गाभङ्गपदभेदात्, तत्राद्योऽष्टविधः, वर्ण-प्रत्यय-लिङ्ग-प्रकृति-लिङ्ग-विभक्ति-वचन-भाषाणां भेदात् । अत्राहुभीमसेनाः-...तथा च-एकोच्चारणापद्भुतभेदकभिन्नार्थकसदृशनानाशब्दत्वं श्लेषत्वमिति फलितम् । अत्र केचित्, नन्वेकोच्चारणेन सदृशनानाशब्दोत्पत्तिदुर्घटा; न चानेकार्थप्रतिपादयिषयोच्चारणात्तथा, नानाघटचिकीर्षातः कपालादिसंयोगादेकस्मानानाघटोत्पत्त्यापत्तेः । अत्र चक्रवर्तिनः समवाय्य समवायभेदान्न तथा, तदैक्यात्तत्सम्भव इत्याहुः । तचिन्त्यम्, सामग्यैक्ये काय्र्यैक्यात, भेदे मानाभावाद्गौरवाच । एकस्माच्छब्दात् 'सकृदुचरितः' इत्यादिनियमसत्त्वे आवृत्त्या नानाऽथबोधः सम्भवति, आवृत्तिः पुनरनुसन्धानमिति तत्कृतानुपूर्वीभेदाद वृत्तिभेदाच पदभेद इत्याहः । तदपि न रमणीयम्, आवृत्त्थङ्गीकारे एकवृन्तगतफलद्वयन्यायानुपपत्त्या श्लेषस्य दुरुपपादत्वात् । यत्रानेकत्र क्रमेण प्रकरणादिकमवतरति तत्रावृत्तिरिति सिद्धान्तात् । अपरे तु द्वितीयक्षणे शब्दजशब्दोत्पत्त्या पदभेदः सम्भवतीत्याहुः । तदपि मौनिमात्रविदितश्लेषव्यापकमिति न रमणीयम् । वयं तु वस्तुत एकः शब्दः सकृदुच्चरितः सकृदथै गमयति, न त्वेकोच्चारणापहृतभेदोऽपीति श्लिष्टस्योभयत्र तात्पर्यग्राहकसद्भावेऽभावे वा एकसम्बन्धिज्ञानस्यापरसम्बन्धिस्मारकत्वादुबुद्धस्वस्वसंस्कारेण द्वयोयुगपदुपस्थितिः, ततश्च 'सकृदि'त्यादिनियमवशात्सदृशनानाशब्दबोधः । तदुक्तं श्रीवाग्देवताऽवतारैः-'अर्थभेदेन शब्द'भ' इति । शब्दे सादृश्यं तु कचित् साहजिकम् । यथा-'विद्वन्मानसहंस ! वैरिकमलासकोचदीप्तद्युते ! दुर्गामार्गणनीललोहित ! समित्स्वीकारवैश्वानर! सत्यप्रीतिविधानदक्ष ! विजयप्राग्भावभीम ! प्रभो ! साम्राज्यं वरवीर ! वत्सरशतं चरिच