________________
परिच्छेदः ]
रुचिराख्यया व्याख्ययाः समेतः ।
१५१
क्रमेणोदाहरणम्
"प्रतिकूलतामुपगते हि विधौ विफलत्वमेति बहुसाधनता।
अवलम्बनाय दिनभर्तुरभून्न पतिष्यतः करसहस्रमपि ॥ ७५ ॥" अत्र 'विधा' विति विधुविधिशब्दयोरुकारेकारयोर्वर्णयोरौकाररूपत्वा श्लेषः। - "किरणा हरिणाङ्कस्य दक्षिणश्च समीरणः। कान्तोत्सङ्गजुषां नूनं सर्व एव सुधाकिरः ॥७६॥"
मुच्चैः क्रियाः ॥' इत्यादौ अखण्डपदश्लेषे क्वचित्त्वपहृतभेदत्वेन यथा-'श्वेतो (श्व-इतो) धावति' 'येन ध्वस्तमनोभवेन००' इत्यादिसखण्डपदश्लेष इति युक्तमुत्पश्यामः । एवं चैकोच्चारणेन सदृशनानाशब्दोत्पत्तिदुर्घटेति रिक्तं वचः । यत्त जयरामन्यायपञ्चाननैरुक्तम्-'इदं तु बोध्यम्-'यत्रैकस्यैव शब्दस्य शक्यलक्ष्योभयपरत्वं तत्रार्थश्लेष एव पदस्य परिवृत्तिसहत्वे । यस्य चैकस्य समुदायस्य बोधितार्थस्य तेन रूपेण नार्थान्तरबोधनं तत्र न श्लेषः । यथा-'वैदेही ति 'देवं हिमकराकितम् ।' इत्यत्र च, एकत्र केवलमर्थप्रयुक्तभेदाभावात्, रूपतोऽपि भेदात् । तदाहवैयाकरणा:-'त्रिधा शब्दो भिद्यते, रूपतः स्वरतोऽर्थतश्च, 'त्रिधा तु भिद्यते शब्दो रूपतः स्वरतोऽर्थतः।' इत्युक्तोरती'ति । तचिन्त्यम् । तथा सति-सखण्डपदश्लेषोच्छेदापत्तः, रूपभेदाभावस्योपपादितत्वाच्चेति सुधीभिः पारभावनीयम्।' इति । अन्ये पुनः प्राहुः-“यत्रैकस्यैव शब्दस्य स्वभावादेकवाच्यार्थत्वे द्वितीयो लक्ष्यार्थोऽस्ति, तत्राश्लेषः, यत्र तु स्वरूपमपहवानैः पदैर्वाच्यार्थस्यैव द्विधोपस्थान तत्र सखण्डपदगतः श्लेषः ।" इति ॥ ६४ ॥
अथोदाहर्तमुपक्रमते-क्रमेण वर्णादीनामानुपूर्व्या । उदाहरणम् 'यथा-विधौ चन्दे भाग्ये वा । 'विधुः सुधांशुः शुभ्रांशुः ।' 'भाग्यं स्त्री नियतिर्विधिः।' इति चामरः । प्रतिकूलतां प्रतिकूलफल ( उदयरूपफल ) भागित्वं प्रतिद्वन्द्रिवदनभिमतार्थोपस्थापकत्वं वा । उपगते । बहुलाधनता बहूनि साधनान्युपाया यस्य तस्य भावस्तत्ता तथोक्ता । विफलत्वमकिञ्चित्सहायकत्वम् । एति गच्छति । ह्येव । एवं विशेषमभिधाय-सामान्यं समर्थयते-पतिष्यत उन्नतपदाद् भ्रश्यत उदयादस्तं सौभाग्याद्वा दौर्भाग्यं गमिष्यत इति यावत् । दिनभर्तुः सूर्य्यस्य तत्त्वेनाध्यस्तस्य वा कस्यापि जनस्य । अवलम्बनायाश्रयाय । करसहस्रं कराणां किरणानां हस्तानां वा सहस्रम् । 'करो वर्षोपले रश्मौ पाणी
डयोः ।' इति मेदिनी । अपि । न नैव । अभूत् । अयम्भाव:-पततो जनस्य करद्वयमपि साहाय्याय,किं पुनस्तत्सहस्रम् अथापि विधौ प्रतिकूले तदकिञ्चित्करमभूदिति साम्प्रतम् । अत एवार्थान्तरन्यासः॥ अत्र सूर्यास्तवर्णनम् । इदं च शिशुपालवधीयम् । वैतालीयं छन्दः । लक्षणं चोक्तं प्राक् ॥ ७५ ॥"
अत्र श्लेषं दर्शयति-अत्र 'विधौ इति । 'विधुविधि'शब्दयोः उकारेकारयोर्विजातीययोरपी'ति शेषः । वर्णयोःआकाररूपत्वादौकाररूपेणैकप्रयत्नोचार्य्यत्वाद्धेतोः। श्लेषो विधुविधिशब्दार्थद्वयस्यापि वाच्यत्वात्'इति शेष :। अत्रायम्भावः-विधु विधि-'शब्दावयवभूतयोर्विजातीययोरप्यकारेकारयोः 'अच्च घेः । ७।३।११९ इत्यनेन डो परे समानरूपत्वम, तस्मात्-औकारमहिम्राऽभिन्नप्रयत्नोच्चाय॑त्वमिति तयोर्वर्णयोः श्लेषः, तथा सति-'विधु-विधि' शब्दप्रतिपाद्यार्थद्वयस्य वाच्यत्वम् । अथापि-श्लेषमहिना तात्पर्य्यस्य च विधोरुदये दिनभर्तुरस्तमितत्ववर्णनपरत्वात् 'विधिविधु' पदवाच्ययोरुपमानोपमेयत्वेन प्रतीत्योपमाध्वनिः । न च 'ननु यदि विधोरुदये दिनभर्तुरस्तमितत्व-- वर्णन एव तात्पर्य्य तर्हि 'विफलत्वमेति बहुसाधनता' इति द्वितीयपादार्थः कथं सङ्गमिष्यते । इति शङ्कथम् , कविना विधोः (चन्द्रमसः) प्रतिकूलतयोपस्थित्या सूर्यास्तस्य वर्णितत्वात् । विधोः (चन्द्रमसः) प्रतिकूलतायां क्रियमाणं सर्व विपरीतं भवति, सम्पन्नं च विनश्यतीति दैवज्ञसिद्धान्तः । प्रकृते च विधोः प्रतिकूलतोदयपदलब्धिरेवेति सर्वमवदातम् ।' इति ।
एवं वर्णमात्रश्लेषमुदाहृत्य प्रत्यययोर्वचनयोश्चैकत्रैव श्लेषमुदाहरति-'किरणाः......' इत्यादिना ।
'हरिणाङ्कस्य मृगाकस्य चन्द्रमस इति यावत् । 'ग्लौमूंगाकः कलानिधिः । इत्यमरः । किरणः । च तथा । दक्षिणो दक्षिणदेशतः प्रत्यावर्त्तमान इति भावः । समीरणो वायुः । 'समीरणः स्यात् पवने पथिके च फणिजके।' इति मेदिनी। इत्येवम्-सर्वे, सर्वः इति वा । एव । नूनम् । कान्तोत्स-जुषां कान्तानामुत्सङ्गः कोडं, तं जुषन्तीति तासां तेषां वेति तथोक्तानाम् । सुधाकिरः सुधाममतं किरन्तीति, किरतीति वेति तथोक्ताः । अत्र श्लोकश्छन्दः । लक्षणं चोक्तं प्राक् ॥ ७६ ॥'