________________
- साहित्यदर्पणः।
[दशमः अन 'सुधाकिर' इति क्विए-क-प्रत्यययोः । किश्चात्र बहुवचनैकवचनयोरैकरूप्यावचन श्लेषोऽपि।
"विकसन्नेवनीलाब्जे तथा तन्व्याः स्तनद्वयी। तव दत्तां सदामोद लखत्तरळहारिणी॥ ७७॥ . अत्र नपुंसकस्त्रीलिङ्गयोः श्लेषो वचनश्लेषोऽपि ।
अत्र प्रत्यययोर्वचनयोश्च युगपत् श्लेष दर्शयति-अत्रास्मिन्नुदाहृते पद्य इति भावः । 'सुधाकिरः' इत्यत्रे'ति शेषः। विप-कप्रत्यययोः 'श्लेषः' इति शेषः । तथा च-एकत्र बहुवचनम्, अन्यत्रैकवचनमित्येवं वचनयोरपि श्लेष इत्याह-किश्च । अत्र 'सुधाकिर' इत्यत्र । बहुवचनेकवचनयोर्बहुवचनस्यैकवचनस्य चेत्यर्थः । 'विजातीययोरपी'ति । शेषः। ऐकरुप्यादेकरूपत्वात्कारणात् ।वचनश्लेषो वचनयोर्बहुवचनैकवचनयोः श्लेष इति तथोक्तः । अपि । इदमिह समुच्चये । अत्रायम्भाव:-'सुधाकिर' इत्यत्र 'सुधां किरन्ती' त्येवं व्युत्पत्तौ 'अन्येभ्योऽपि दृश्यते।' ३।२।१७८ इति क्विप् । 'ऋत इद्धातोः।' ७।१।११० इतीत् । अथ 'सुधां किरति' इति व्युत्पत्तो 'इगुपधज्ञाप्रीकिरः कः ।' ३।१।१३६ इति कः । पूर्वत्र-जस, परत्र पुनः सुः । एवं विभिन्नयोरपि 'किपाक' प्रत्यययोस्तदनुगतयोर्बहवचनकवचनयोश्च समानरूपत्वेन श्लेषः । असौ च 'सर्व एव' इत्यत्र संहितामहिम्ना संपन्नमूर्तिः । तथा च-कान्तोत्सङ्गजुषां सर्वे हरिणाङ्कस्य किरणाः सुधाकिर एव, सर्वो दक्षिणः (मलयगिरितः प्रत्यावर्त्तमानः ) समीरणश्च सुधाकिर एवेति निष्कृष्टम् । एवम्-कान्तानां सुन्दरीणामुत्सङ्गजुषः सुन्दर्य्यः, कान्तानां सुन्दरीणां वोत्सङ्गजुषः सुन्दराः, इत्येवं पूर्वत्र परत्र च क्रमेण पुंस्त्वस्त्रीत्वयोः, स्त्रीत्वपुंस्त्वयोरैक्याच्छेषः । इति । यथा वा, मम क्रमेण-'अयि दयिते ! तव वदनं न नयति कमलं मुदं कुमुदन्तम् । अमृतभृतो ननु महिमा तस्मादपरस्य नो विदितः ॥ अस्य चायमर्थ:अयि दयिते ! तव वदनं कं कुमुद्वन्तं ( कोर्मुदिति, साऽस्यास्तीति तम् ) मुदमलं न नयति, यद्वा-कमलं मुदं न नयति, किन्तु कुमुद्वन्तं कुमुदप्राय देशम् । कुत इत्याह-तस्माद्वदनादितरस्यामृतभृतो महिमा नो विदितः, यद्वा-तस्मादमृतभृतो वदनेन्दोरित्यर्थः, अपरस्य ( चन्द्रमसः ) महिमा नोऽस्माकमविदितः, यद्वा-तस्मादपरस्यामृतभृतोऽमृतेन पूर्णो महिमा नो नैव विदितः, यद्वा-तस्मात् कारणात् अपरस्य सर्वोत्कृष्टस्य (न परो महितो यस्मात्तस्य ) तस्य महिमाऽमृतेन भृत इति नोऽस्माकं विदितः ॥' इति । अत्र हि महिमविशेषणत्वेऽमृतभृत इत्यत्र कः, अपरस्य तस्मादित्यस्य वा विशेष णत्वे पुनः विप, इत्येवं क्त-क्विपोः श्लेषः, तथा-प्रथमापञ्चमीषष्ठीनां विभक्तीनां श्लेषः । 'कमल'मित्यत्र पदयोरपीति 'न तथा त्वन्मुखसुषमा कला यथेन्दोर्ददत्यहो मोदम् । एषा दयिते ! सततं तावद् यत् केवलं नक्तम् ॥' इत्यत्र 'यथेन्दोः कला मोद ददति, तथा त्वन्मुखसुषमा न मोदं ददती' इत्येवं बहवचनैकवचनयोः श्लेषः ।
अथ क्रमप्राप्त लिङ्गश्लेषमुदाहरति-'विकसनेवनीलाब्जे' इत्यादिना ।
'लसत्तरलहारिणी लसन्ती च तरले च हारिणी चेति, लसंस्तरलो हारमध्यगो मणियंत्र, सा चासौ हारिणीति वा तथोक्ता । तर्कवागीशस्त्वेवमपि व्याचक्षते-'यद्वा-लसंस्तरलो यत्र एवंभूतो हारो यत्रास्ति (तथोक्ता)। कर्मधारयो त्तरमतुनिषेधस्य प्रायिकत्वादेतत्साधुवचनम् ।' इति । तन्व्याः दयितायाः । विकसन्नेत्रनीलाब्जे विकसन्ती एव तत्र मीलाब्जे इति तथोक्ते तथा। स्तनद्वयी । तव । सदा । आमोदम् आनन्दम् । दत्तां दद्याद्दद्यातां वा । आशिषि लोट् ॥ ७७ ॥'
अत्रास्मिन्नुदाहृते पद्ये इति भावः । नपुंसकस्त्रीलिङ्गयोः 'लसत्तरलहारिणी' इति नपुंसके प्रथमाया द्विवचनम्, स्त्रीलिङ्गे प्रथमाया एकवचनं, तस्मात्-विकसनेत्रनीलाब्जयोः स्तनद्वय्याश्च विशेषणत्वे समानरूपत्वात् क्लीबस्त्रीलिङ्गयोः श्लेषः । तथा-वचनश्लेषो वचनयोर्द्विवचनैकवचनयोः इलेष इत्यर्थः । 'हारिणी' इत्यस्य नीला जविशेषणत्वे क्लीबे प्रथमाया द्विवचनान्तत्वं, 'द्वयी' त्यस्य विशेषणत्वे स्त्रीलिङ्गे एकवचनान्तत्वं च, तथा ददाते. परस्मैपदे लोटो द्विवचनान्तत्वम्, आत्मनेपदे लोटः पुनरेकवचनान्तत्वम्, इत्यनयोः इलेष इति भावः । अपि. 'ज्ञेय' इति शेषः । तर्कवागीशास्त्वाहः-'अपिना' 'णिन्' प्रत्ययस्य 'इन' प्रत्ययस्य च इलेषः ।' इति । यथा वा- 'भक्ति