________________
परिच्छेदः ]
रुचिराख्यया व्याख्यया समेतः। "अयं सर्वाणि शास्त्राणि हदि ज्ञेषु च वक्ष्यति।सामर्थ्यकृदमित्राणां मित्राणांच नृपात्मजः७८॥" भत्र 'वक्ष्यतीति वहि-वच्योः, 'सामर्थ्यकृ' दिति कृन्तति-करोत्योः प्रकृत्योः ।
"पृथुकार्तस्वरपात्रं भूषितनिःशेषपरिजनं देव !
विलसत्करेणुगहनं सम्प्रति सममावयोः सदनम् ॥ ७९ ॥" अत्र पदभङ्गे विभक्तिसमासयोरपि वैलक्षण्यात् पदश्लेषः, नतु प्रकृतिश्लेषः। एवं च
"नीप्तामाभाकुलीमावं लुब्धैर्भूरि शिलीमुखैः। सदृशे वनवृद्धानां कमलानां तदीक्षणे ॥८०॥"
प्रहविलोकनप्रणयिनी नीलोत्पलस्पर्धिनी, ध्यानालम्बनतां समाधिनिरतैनीतेहितप्राप्तये । लावण्यस्य महानिधी रसिकतां लक्ष्मीहशोस्तन्वती युष्माकं कुरुतां भवार्तिशमनं नेत्रे तनुर्वा हरेः ॥' अत्रापि नेत्रयोर्विशेषणत्वे 'प्रणयिनी' इत्यादीनां क्लीबे प्रथमाद्विवचनान्तत्वम् , तथा-तन्वीविशेषणत्वे स्त्रियामेकवचनान्तत्वम्, इति लिङ्गवचनश्लेषः ।
अथ प्रकृतिश्लेषमुदाहरति-'अयं...' इत्यादिना ।
'अयम् । नपात्मजो नृपस्यात्मजः । अमित्राणां शत्रूणाम् । सामर्थ्यकृत् सामर्थ्य कृन्ततीति तथोक्तः । च तथा । मित्राणाम्। 'सामर्थ्य कृत्' इति शेषः, सामर्थ्य करोतीति तथोक्तः। तथा च-मित्रसम्बन्धिनः सामर्थ्यस्य विधातेति निष्कृष्टोऽर्थः । सर्वाणि सर्वविधानि व्याकरणादीनि । शास्त्राणि (कर्म)। हदि मनसि । च तथा । ज्ञेषु विद्वत्सु तन्मध्य इति यावत् । वक्ष्यति प्रापयिष्यति, कथयिष्यतीति वा । अत्र नृपात्मजस्य कस्यापि जन्मग्रहान जानतो दैवज्ञस्योक्तिः ॥ ७८॥' ___ अत्रास्मिन्नुदाहृते पद्ये इति भावः । 'वक्ष्यति' इति 'अत्र' इति शेषः । 'वहि-वच्योः ' 'सामर्थ्यकृत्' इति । 'अत्रे'ति शेषः । 'कन्तति-करोत्योः ' 'कृति'छेदने, 'डुकृत्र' करणे । 'इतिपो धातुर्निर्देशे।' इति तिपानिर्देशे, तथा च- कृद्रूपायाः कृरूपायाश्चेत्यर्थः । प्रकृत्योः । 'श्लेषः' इति शेषः ।
इदमिह तत्त्वम्-'वक्ष्यते' इति 'वह' प्रापणे, 'वच्' परिभाषणे; इत्यस्माद्वा लुटि स्ये तिपि 'कुहोचः । । ४ । ६२ इति चत्वे सस्य च 'आदेशप्रत्यययोः ।' ८ । ३१५९ इति षत्वे 'वह, बच' प्रकृत्योः , तथा-सामध्ये कर्मण्युपपदे - 'कृतेः' 'कृशो' वा विपि पूर्वत्र तल्लोपमात्रे परत्र 'हवस्य पिति कृति तुक्।'६।१ । ७१ इति तुकि सिद्धेः, तयोः प्रकृत्योः स्फुटः श्लेषः । इयान् पुनर्विशेषः-पूर्वत्र, तिङ्प्रत्ययस्य, परत्र कृत्प्रत्ययस्य माहात्म्यम् । इति ।
अथ पदश्लेषमुदाहरति-'पृथुकाते त्यादिना । व्याख्यातपूर्वमिदम् । अत्र दरिद्रस्य कस्यापि राजानं प्रति तदैश्चर्य-- प्रशंसनपूर्व स्वदुःखनिवेदनार्थोक्तिः ॥ ७९ ॥
लक्ष्य निर्दिशति-अव । पदभने पदानां पृथु-कात्तस्वर...'इत्यादिरूपाणां 'पृथुक-आखिर...'इत्यादिरूपाणां वा भास्तस्मिन् । विभक्तिसमासयोर्विभक्तिः समासघटकभूता, समासस्तत्पुरुषादिरूपस्तयोस्तथोक्तयोरित्यर्थः । अपि 'किं पुनः प्रकृतेः' इति शेषः । अत एव विवृतिकारा आहुः-'अपिना प्रकृतेः सङ्ग्रहः' इति । वैलक्ष्यण्याद भेदात् । पदलषः । न । तु पुनः प्रकृतिश्लेषः । अयम्भावः-अत्र हि-नरदेवसदनपक्षे-पदभङ्गे 'पृथूनि कार्त्तखरपात्राणि यत्रे'त्येवं क्रमेण 'पृथुकार्तस्वरपात्र' इत्यादिः प्रकृतिः बहुव्रीह्यादिसमासघटका प्रथमादिविभक्तिः, बहुव्रीह्यादिश्च समा• सोऽस्त्येव तथा । याचकपक्षे-'पृथुकानामात्तखरास्तेषां पात्रमधिकरणम्' इत्येवं क्रमेण-'पृथुक-आत्तखर-पात्र' इत्यादिः प्रकृतिः, षष्ठयादिर्विभक्तिः, तत्पुरुषादिः समासः, इत्येवं प्रकृतिविभक्तिसमासानां विलक्षणतया पदानां श्लेषः, नतु प्रकृतीनाम्, समासे समासघटकत्वेन वा तत्तत्पदत्वानपायात् । इति ।
विभक्तिसमासवैलक्षण्ये एव पदश्लेषः, अन्यथा प्रकृतिश्लेषः; इत्याह
एवं निर्दिष्टक्रमेण । च। 'लुब्धैाधैः, सौरभे लोभं प्राप्तश्च । 'लुब्ध आकाक्षिणि व्याधे' इति हेमचन्द्रः । शिलीमुखैर्वाणद्वारा, भ्रमरै ( कर्तृभिः ) श्च । 'अलिबाणौ शिलीमुखौ' इत्यमरः । भूर्यत्यन्तम् । आकुलीभावम् । नीतानाम् । वनवृद्धानां वने विपिने जले वा वृद्धा (बुद्धिं गताः ) वृद्धानि वा तेषाम् । 'वने सलिलकानने ।' इत्य