________________
१४४ साहित्यदर्पणः। -
[ दशमःअत्र 'लुब्धशिलीमुखादिशब्दानां श्लिष्टत्वेऽपि विभक्तेरभेदात्प्रकृतिश्लेषः, अन्यथा सर्वत्र पदश्लेषप्रसङ्गः।
"सर्वस्वं हर सर्वस्य त्वं भवच्छेदतत्परः । नयोपकारसाम्मुख्यमायासि तनुवर्तनम् ॥८१॥" ___ अत्र 'हर' इति पक्षे 'शिव' सम्बोधनमिति सुप् पक्षे च हृधातोस्तिङितिविभक्तेः । एवं 'भव' इत्यादौ । अस्य च भेदस्य प्रत्ययश्लेषेणापि गतार्थत्वे प्रत्ययान्तराखाण्यसुबन्ततिङन्तगतस्वेन विच्छित्तिविशेषाश्रयणात् पृथगुक्तिः।
मरः । कमलानां मृगाणामम्बुजानां वा । 'कमल सलिले ताने जलजे व्योम्नि भेषजे । मुगभेदे तु कमलः' इति मेदिनी। सदृशे समाने समानसुन्दरे इति यावत् । तदीक्षणे तस्या नायिकाया ईक्षणे नेत्रे इति तथोक्ते ॥ 'अत्रेत्यत्रेत्यर्थः । 'लुब्धशिलीमुखादिशब्दानाम् । श्लिष्टत्वे नानाऽर्थकतया सम्बद्धे वे इत्यर्थः । अपि । विभक्तेः 'समासस्य चेति शेषः । अभेदाद वैलक्षण्याभावात् । प्रकृतिश्लेषः प्रकृतीनां लब्धादिरूपाणां इलेषः । 'नतु पदश्लेषः, विभत्यादिवलक्षण्य एव तत्स्वीकारादिति शेषः । अन्यथाऽने स्वीकारेऽर्थभेदेन प्रकृतिभेदस्वीकारे इति यावत् । सर्वत्र प्रकृतिश्लेषस्थलेऽपीत्यर्थः । पदश्लेषप्रसङ्गः पदयोः श्लेषस्तस्य प्रसङ्गोऽति प्रसङ्ग इति भावः ।
विभक्तिश्लेषमुदाहरति- 'सर्वस्वं." इत्यादिना ।
'हे हर शङ्कर ! सर्वस्य जगत इति शेषः । सर्वस्वं सर्व च तत् स्वं धनमैश्वर्यमिति यावदिति तथोक्तम् । सर्वखभूत इति भावः । 'स्वो ज्ञातावात्मनि स्वं त्रिवात्मीये स्वोऽस्त्रियां धने ।' इत्यमरः । 'ईशावास्थमिदं सर्वं यत् किञ्चिजगत्यां जगत् ।' इति श्रुतिः । भवच्छेदतत्परो भवस्य संसारस्य जननमरणरूपस्याविद्याकृतस्य प्रवाहस्येति यावच्छेदो मुक्तिप्रदानेन ततो निवर्त्तनमुद्धारो वा तत्र तत्पर उद्यत इति तथोक्तः । मोक्षप्रद इति भावः । त्वम् । नयोपकारसाम्मुख्यं नयेन नीत्या नीतिपूर्वकाचारेणोपकार इह परत्र वाऽऽनन्दलाभस्साम्मुख्यमानुकूल्यं यस्मातत् । तनुवर्तनं तनोः शरीरस्य वर्तनं धारणमिति तथोक्तम् । आयासि प्राप्नोषि करोषीति यावत् । यद्वासर्वस्वं यत किञ्चिद् यस्यास्ति तत्सर्वम् हरापहर । नात्र काऽपि क्षतिः, 'यस्यानुग्रहमिच्छामि तस्य वित्तं हराम्यहम् । यन्मदः पुरुषः स्तब्धो लोकं मां चावमन्यते ॥' इत्यायुक्तदिशा तथा तवानुपहोदयात् । इति भावः । किन्तु सर्वस्य लोकस्य । भवच्छेइतत्परो मोक्षदाता । त्वम् । यद्वा सर्वस्य । छेदतत्परच्छेदे बन्धच्छेदे तत्पर इत्यर्थः । त्वम् । भव । छेदतत्परी बन्धच्छेदतत्परो भव' इत्युद्योतः। इति । अथ च-उपकारसाम्मुख्यम् । नयापनय । आयास्यायासस्तपश्चादिपरिश्रमोऽस्मिन्नस्तीति तत्तथोक्तम् । वर्तनं जीवनम् । तनु विस्तारय । इति । यद्वा-भवच्छेदतत्परः । त्वम् । सर्वस्याविद्याविजृम्भितजातस्य । सर्वस्वं यत् किञ्चिदविद्याविज़म्भितं. तत्सर्वम् । हरापहर । आयास्यायासो विविधदुरथेहया परमात्मोपासनातिरिक्तव्यापारविषयकः परिश्रमोऽस्यास्तीति तत्तथोक्तम् । तनुवर्तनं तनोः शरीरस्य वर्तनमवस्थानं, तनु क्षणिकं वा वर्तनं जीवनमिति तत्तथोक्तम् । उपकारसाम्मुख्यमुपकारस्यसाम्मुख्यमानुकूल्यमिति तत् (प्रति)। नय । यद्वा-( दस्युपक्ष) त्वम् । सर्वस्वम् । हर । सर्वस्य दीनादीनस्य । छेदतत्परः । भव । अपकारसाम्मुख्यम् । नय। उ ननु । वर्तनं जीवनम् । आयासि दुःखितम् । यथेष्टम् । तनु । यद्वा-नयोपकारसाम्मुख्यम् । मा नैव । किन्तु-तनुवर्तन शरीरमात्ररक्षणम् । यासि ।' असे शिवं दस्युं वा प्रति कस्याप्युक्तिः ॥ ८१ ॥
अत्र विभक्तिश्लेषं दर्शयति-अत्रेत्यादिना।
अत्रेत्यस्मिन्नुदाहृते पद्ये । पक्षे 'एकस्मिन्' इति शेषः । 'हर' इति 'रूपम्' इति शेषः । शिवसम्बोधनं शिवस्य सम्बोधन सम्बुद्धिस्तत्पदमिति यावदिति तत् । इतीत्यस्मात् । सुप् तदन्तर्गता'सु' विभक्तिरित्यर्थः । 'तो'ति शेषः । पक्षे 'द्वितीये' इति शेषः । 'ह'धातोहरणार्थकात् 'हज' धातोः। 'परस्माद्विधीयमानाया' इति शेषः। तिङितिविभ के 'स्तिद्धिति सज्ञकाया विभक्तस्तिङन्तर्गताया लोटि सिपो विभक्तरिति तात्पर्य्यम् । एवं यथाऽत्र सुपुतिङो श्लेषस्तथा 'भव' इत्यादौ भवनयायासि तन्वित्येतेष्वित्यर्थः ।