________________
परिच्छेदः]
रुचिराख्यया व्याख्येया समेतः। "महदे सुरसन्धं मे तमव समासङ्गमागमाहरणे ।
हर बहुसरणं तं चित्तमोहमवसर उमे सहसा ॥ ८२॥" अत्र संस्कृतमहाराष्ट्योः । ..
' अथ विभक्तरपि प्रत्ययत्वे प्रत्ययश्लेषेणैव विभक्तिश्लेषस्याप्यभिधाने किं पुनस्तस्याभिधानमित्याशङ्कयाह-अस्य चेत्यादि।
अस्य विभक्ति श्लेषपरस्य । च पुनः । भेदस्य । प्रत्ययश्लेषेण । गतार्थत्वे । अपि । प्रत्ययान्तरासाध्य. सुबन्ततिङन्तगतत्वेन प्रत्ययान्तरेणासाध्यमनिष्पाद्य सुबन्ततिङन्तगतत्वं सुबन्ततिङन्ताद्यन्यतमान्तर्गत (ति) त्वं तेन । विच्छित्तिविशेषाश्रयणाद्विच्छित्तिश्चमत्कारस्तद्विशेषस्याश्रयणं तस्मादित्यर्थः । पृथक । उक्तिः । ____ विभक्तिश्लेषो यथा वा मम-'विविधवृजिनतापैर्जितानामपि स्वशरणमुपगतानां जीवनोद्धारदः। त्वयि सुमहिममूर्ते ! त्राहि मां सानुराग न गणय मम दोषान् दर्शयोदारभावम् ॥' इत्यत्र देवी भगवन्तं च प्रत्युक्तिरिति 'दक्ष' इति सुडिभ्यां श्लिष्टम् । 'त्वदनुग्रहमप्राप्य मृडान्यहमिति स्थितिः । मृषैव जगतीशानि ! तन्मन्ये नापरी गतिम् ॥' इत्यत्र 'मृडानी' ति सम्बुद्धिपदं क्रियापदं चेति सुपतिकोः श्लेषः । इति दिक् ।
वचनश्लेष उदाहृतपूर्व इति तमनुदाहृत्य भाषाश्लेषमुदाहरति-'महदे..' इत्यादिना ।
हे महदे महमुत्सवं ददातीति तत्सम्बुद्वौ तथोक्ते 'मह उद्धव उत्सवः।' इत्यमरः । उमे गौरि ! मे मम । ते प्रसिद्धम् । आगमाहरण आगमा वेदास्तेषामाहरणं ग्रहणं तत्र । सुरसन्धं सुरा शोभनदात्री सन्धाःसन्धानं यस्य तमिति तम् । शोभनं रातीति तथोक्ता । शोभनदायकसन्धानशालिनमिति तात्पर्यम् । समासङ्गं सम्यग्भूतोऽसावा. सङ्ग आसक्तिस्तम् । अव रक्ष । अषसरे मोहापचयोचिते समये इति भावः । तम् । बहुसरणं बहु सरण संसारो यस्मात्तम् । चित्तमोहम् । सहसा। हर । यद्वा-धंभे धर्मे । मह मम। रसं रतिम् । देसु देहि । गमागमा गमागमा संसारादिति यावत् । गमो गमनं मरण,मागमः पुनर्जन्म यस्मिंस्तस्मात् । तमोवसं तमोवशां तमोगुणाधीनामिति यावत् । णे नोऽस्माकमिति यावत् । आसमाशाम् । हर । हे हरवहु हरवधु महेश्वरीति यावत् । सरणं शरणमाश्रयः । 'शरणं गहरक्षित्रोः ।' इत्यमरः । तं त्वम् । अतः-मे मम । चित्तमोहं चित्तमोहश्चित्तस्य मोह इति भावः । त्वत्कृपयेति शेषः । सहसा शीघ्रम् । अवसरउ अपसरतु दूरीभवत्विति यावत् ॥' अत्र जघनविपुलाछन्दः । लक्षणं चोक्तं प्राक् ॥'
अत्र श्लेषं दर्शयति-अत्र । संस्कतेत्यदिना।स्पष्टम् संस्कृतं च महाराष्टी चेति तयोः।महती चासौ राठी राष्ट (राज्य) सम्बन्धिनी प्राकृतभाषेति महाराष्ट्री।तदुक्तं दण्डिना-'महाराष्ट्राश्रयां भाषां प्रकृष्टं प्राकृतं विदुः। सागरः सूक्तिरत्नानां सेतुबन्धादि यन्मयम् ॥ इति' । 'श्लेष'इतिश्लेषः।इति। अत्रेदं बोध्यम्-'संस्कृतप्राकृतमागधपिशाचभाषाश्च शौरसेनी च षष्ठोऽत्र भूरिभेदो देशविशेषादपभ्रंशः॥' इत्युक्तदिशा षड्विधा भाषाः । तत्र संस्कृतप्राकृतोदाहरणं तु दर्शितमेव, प्रकृष्टप्राकृतस्यैवं महाराष्ट्रीति व्यपदेशात् । उदाहरणानि यथा काव्यालङ्कारे-'कुललालिलावलोले शशिलेशे शालशालिलवशूले । कमलाशव. लालिबलऽमाले दिशमन्तकेऽविश मे ॥' इदं संस्कृतमागत्युदाहरणम् । 'कुररालिरावरीलं सलिलं तत्सारसालिरवशरम् । कमलासवलालिबरं मारयति शाम्यतो विषमम् ॥' इति मागध्याः संस्कृतम् । तदर्थों यथा कुलानि लालयन्तीत्येवंशीलास्तेषां कुललालिनां (सतां ) लावे छेदे लोलो लम्पटस्तत्र। शलिनः खड्गयोधाँलिशत्यल्पीकरोतीति तस्मिन् । शालैंगहै: शालन्ते इत्येवंशीलाल्लुनातीत्येवंभूतं शूलं तत्र ।कमलाया लक्ष्म्याः शवा मृततुल्या दरिद्रा इति यावत्तेषु ललति विलसतीत्ये. वंशीलं बलं यस्य तत्र । मलनं मालः, तदभावोऽमालस्तत्रानिवार्ये इति भावः, ( मल धारणे )। अन्तके 'उपस्थित' इति शेषः । ए विष्णौ 'अकारो वासुदेवः स्या' दित्युक्तेः । दिश मार्गम् । अविशम् ॥ यद्वा-'कुरराणां पक्षिविशेषाणामालिस्तद्रावै रोलः कलकलो यत्र तत् । सारसालिरवेण सारसपङ्क्तिक्रन्दनविधानेन शूरम् इति तथाभूतम् । कमलानामासवस्तं
१ 'मम देहि रसं धर्मे तमोवशामाशां गमागमाद्धर नः । हरवधु ! शरणं त्वं चित्तमोहोऽपसरतु मे सहसा ॥' इति संस्कृतम् । २ विरक्तस्येयमुक्तिः । .