________________
८५
परिच्छदः]
रुचिराख्यया व्याख्यया समेतः । अन्यहरविकृष्टचापमदनक्रोधानलोद्दीपितं
शम्भोमिनरसं समाधिसमये नेत्रत्रयं पातु वः ॥ ५९॥" इत्यत्र शान्तशृङ्गाररौद्रपरिपुष्टा भगवद्विषया रतिः। यथा वा
"क्षिप्तो हस्तावलग्नः प्रसभमभिहतोऽप्याददानोंऽशुकान्त गृह्णन् केशेष्वणस्तश्चरणनिपतितो नेक्षितः सभ्रमेण ।। आलिङ्गन् योऽवधूत स्त्रिपुग्युवतिभिः सानुनेत्रोत्पलाभिः
कामीवार्द्रापराधः स दहतु दुरितं शाम्भवो वः शराग्निः ॥ ६०॥" इत्यत्र कविगता भगवद्विषया रतिः प्रधान, तस्याः परिपोषकतया भगवतस्त्रिपुरध्वस प्रत्यु. साहस्य अपरिपुष्टतया रसपदवीमप्राप्ततया भावमात्रस्य करुणोऽङ्गम् । तस्य च 'कामीवे'ति साम्यबलादायातः शृङ्गारः । एवं च-अविश्रान्तिधामतया करुणस्थाप्यङ्गतैवेति द्वयोरपि करुणशृङ्गारयोर्भगवदुत्साहपरिपुष्टतद्विषयरतिभावास्वादप्रकर्षकतया योगपद्यसद्भावादङ्गत्वेन न विरोधः।
ननु समूहालम्बनात्मकपूर्णघनानन्दरूपस्य रसस्य तादृशेन इतररसेन कथं विरोधः सम्भा
भावालसं सम्भोगस्य चुम्बनपरिमर्दनरूपयोर्भावोऽभिप्रायस्तेनालसं निश्चलम् । अन्यत् तृतीयं नेत्रमिति भावः । दरविकृष्टचापमदनक्रोधानलोद्दीपितं दूरमत्यन्तं विकृष्ट आकृष्टः चापो धनुर्येन तादृशो यो मदनस्तस्मिन् क्रोधः स एवानलोऽनिस्तेनोद्दीपितम् । एवम्-समाधिसमये । भिन्नरसं विरुद्धबहुरसव्यञ्जकमिति भावः । शम्भोः शङ्करस्य । नेत्रत्रयम्। वो युष्मान् । पातु रक्षतात् । शार्दूलविक्रीडितं वृत्तं, तल्लक्षणं चोक्तं प्राक् ॥५९॥"
समावेशसङ्गति लक्षयति-इत्यत्रेत्यादिना। स्पष्टम् । इदम्बोध्यम्-शारिणोऽपि न समाधिभङ्ग इतिगृङ्गारस्य परम्परया, क्रोधस्य समाधिविघ्ननिवारकत्वेन तत्परिणामिनो रौद्रस्य साक्षादेव भगवद्रतेः परिपोषकत्वम् । इति । .. परम्परया केवलमङ्गत्वमाप्तयोः समावेशमुदाहरति-यथा वा-“सामुनेत्रोत्पलाभिः । त्रिपुरयुवतिभिस्त्रि पुरासुरस्य नायिकाभिः । हस्तावलग्नो हस्तस्पर्श कुर्वन् । क्षिप्तस्तिरस्कृतः । प्रसभं बलात् । अंशुकान्तं वस्त्रप्रान्तम् । आददानो गृह्णन् । अभिहतस्ताडितः । केशेषु । गृहन् । अपास्तो दूरीकृतः । चरणनिपतितश्चरणयोनिपतितः सन् । सम्भ्रमेण भयेनादरेण च । नेक्षितः।तथा-आलिडन । यः। आर्द्रापराधस्तत्कालकृतापराध इति भावः । कामीव । अवधूतो निराकृतः । सः। शाम्भवः शम्भोरयमिति तथोक्तः। शराग्निर्वाणरूपोऽग्निः । वो युष्माकम् । दुरितं पापम् । दहतु । अमरुशतकस्येदं पद्यम् । स्रग्धरा वृत्तम् ॥ ६० ॥"
अत्र करुणशृङ्गारयोविरोधपरिहारं दर्शयति-त्यवेत्यादिना । स्पष्टोऽर्थः । इदम्बोध्यम्-यद्यपि शृङ्गारापेक्षया करु. णोऽङ्गी, तथाऽपि तस्य पर्यवसाने प्रकर्षाभाव इति तस्याङ्गत्वमेव, शृङ्गारश्च स्वयं 'कामीवे'तिसाम्यबलादायात इति सोऽपि भगवद्विषयाया रतेरङ्गम् । अत एतस्यास्ताभ्यां परिपोषः । इति ।
तदेव विशदयति-एवम् । च । अविश्रान्तिधामतयान विश्रान्तिः परिपुष्टतया स्फुरणं तस्या धामाश्रयः तस्य भावस्तया । करुणस्य । अपि (शृङ्गारस्य तु 'साम्यवलादागन्तुकत्वादस्त्येवेति सूचयितुमिदम् ) । अङ्गताऽप्रधानता । एव । इति । द्वयोः । अपि। करुणशृङ्गाग्योः। भगवदुत्साहपरिपुष्टतद्विषयरतिभावास्वादप्रकर्षकतया भगवतः शङ्करस्योत्साहस्त्रिपुरध्वंसं प्रति चित्तोत्कर्षस्तेन परिपुटाऽसौ तद्विषया शङ्करविषया रतिः सैव भावः तस्यास्वादस्तस्य प्रकर्षकौ तयोर्भावस्तत्ता तया । यौगपद्यसद्भावादेककाले सम्भवात् । अङ्गत्वेन । 'स्थितयो' रिति शेषः । न । विरोधः। . एतन्मतं विविच्य विशदयितुमाह-ननु । समूहालम्वनात्मकपूर्णघनानन्दरूपस्य समूहो विभावानुभावव्यभिचारिस्थायिभावानां समष्टिरेवालम्बनमुपजीवनं यस्य तादृश आत्मा यस्य तादृशोऽसौ पूर्णो घन आनन्दो रूपं यस्य तस्य तादृशस्य। रसस्य । तादृशेन समूहालम्वनात्मकपूर्णघनानन्दरूपेण । इतररसेन रसान्तरेण । कथम् । विरोधः ।