________________
साहित्यदर्पणः ।
८६
[ सप्तम:
atta: ? एकवाक्ये निवेशप्रादुर्भावयौगपद्यविरहेण परस्परोपमर्दकत्वानुपपतेः । नापि अङ्गाङ्गिभावः द्वयोरपि पूर्णतया स्वाध्येण विश्रान्तेः । इति चेत् सत्यमुक्तम्, अत एव भत्र प्रधानेतरेषु रसेषु स्वातन्त्र्यविश्रमराहित्यात् पूर्णरसभावमात्राच्च विलक्षणतथा सञ्चारिरसनाम्ना व्यपदेशः प्राच्यानाम्, अस्मत्पितामहानुजकं विपण्डित मुख्यश्रीचण्डीदासपादानां तु खण्डरसनाम्ना । यदाहु:'अङ्ग बाध्योऽथ संसर्गी यद्यङ्गी स्थाद्रसान्तरे । नास्वाद्यते समग्रं तत् ततः खण्डरसः स्मृतः ॥ ' इति । ननु - "आद्यः करुणबीभत्सरौद्रवीरभयानकैः ।" इत्युक्तनयेन विरोधिनोर्वीरशृङ्गारयोः कथमेकत्र"कपोले जानक्याः करिकलभदन्तद्युतिमुषि स्मरस्मेरस्फारोडुमरपुलकं वक्रकमलम् ।
मुद्दुः पश्यञ् शृण्वन् रजनिचर सेना कलकलं जटाजूटग्रन्थि द्रढयति रघूणां परिवृढः ॥ ६१ ॥ " इत्यादौ समावेशः इति चेत् ? अत्रोच्यते-इह खलु रसानां विरोधिताया अविरोधितायाश्च त्रिधा व्यवस्था, कयोश्चिदालम्बनैक्येन, कयोश्चिदाश्रयैक्येन, कयोश्विन्नैरन्तय्यैणः इति । तत्र वीर
सम्भावनीयः ? ननु रसोत्तरं रसान्तरं सम्पद्यतां नाम को दोषः ? इत्याशङ्कयाह-एकवाक्ये । निवेशप्रादुर्भाव'द्वय रसयो' रिति शेषः । परस्परोपमर्दकत्वानुपपत्तेः । ननु अङ्गाङ्गिभावेन द्वयोरपि निवेशप्रादुर्भावयौगपद्यं स्यादित्याशङ्कयाह - नापि न वा । अङ्गाङ्गिभावोऽङ्गत्वमेकस्य, अपरस्याङ्गित्वं च । 'सम्भवती 'ति शेषः । कुत इत्याशङ्कयाह- द्वयोः । अपि । पूर्णतया समधिकत्वेन । एतत् घनत्वेनेत्यस्याप्युपलक्षकं तेन सुखान्तरतिरोधायकत्वेन चेति निष्कृष्ट । स्वातत्रयेण । विश्रान्तेः स्फुरणात् । इति । चेत् । सत्यम् । उक्तम् । ( अत्र सत्यमर्द्धाङ्गीकारे । अत एव । अत्र यत्र द्वयोर्निवेशस्तत्र । प्रधानेतरेषु अङ्गत्वं गतेषु रसेषु । स्वातन्यविश्रम. राहित्यात् । पूर्णरसभावमात्र'तू पूर्णो रसो यस्य तादृशो यो भावः स एवेति, तस्मात् तथोक्तात् । च । विलक्षण. तया । चारिरसनाम्ना । व्यपदेशः । प्राच्यानां पूर्वेषां मतेन । अस्मत्पितामहानुजक विपण्डितमुख्यश्री चण्डीदासपादानाम् । तु । खण्डरसनाम्ना । प्राचां मतेन यस्य सञ्चारिरस इति व्यपदेशस्तस्यैव खण्डरस इति पुनरवचामिति भावः । ननु किमत्र नियामकमित्याह-यत् । आहुः - 'श्रीचण्डीदासपादा' इति शेषः । “यदि । अङ्गी प्रधानरसः । रसान्तरे । अङ्गम् । बाध्यो विरुद्धोऽपि स्मरणादिबलात् लब्धसमावेशः । अथ यद्वेति भावः । संसर्गे अविरोध्यपि सन् प्रधानानुपकारितया स्वातन्त्र्येण मिलितः स्यात् । तत् । समग्रं पूर्ण यथा स्यात्तथा । न । आस्वा द्यते । ततः खण्डरस स्मृतः ॥” इति । अयम्भावः - रसस्य रसान्तरेण साक्षाद्विरोधासम्भवात् तत्र ( यत्र विरोधोSनुभूत) रसस्य सञ्चारित्वं खण्डत्वं वाऽङ्गीकृत्य तथा व्यपदेशो बोध्यः । इति ।
।
प्रकारान्तरेणाशङ्कते - ननु - " आद्यः शृङ्गाररसः । करुणबीभत्सरौद्रवीरभयानकैः । 'विरोधभाकु' इति शेषः" इत्युक्तनयेन । विरोधिनोः । वीरशृङ्गारयोः । कथम् । एकत्र एकवाक्यरूपे ।
"जानक्या: सीतायाः । करिकलभदन्तद्युतिमुषि करिणो गजस्य कलभः शिशुस्तस्य दन्तोऽभिनवोद्भूतो दशनाङ्ककुरस्तस्य द्युतिस्तां मुष्णाति चौरयतीति तस्मिंस्तथोक्ते । कपोले । रमरश्मेरस्फारो डुमरपुलकं स्मरेण स्मेरः प्रकाशमानः स्फारोडमरोत्युत्कटः पुलको रोमाञ्चो यत्र तत्तथोक्तम् । वक्रकमलम् | 'आत्मन' इति शेषः । मुहुः । पश्यन् । अन्यतश्च रजनिचर से ना कळकलं राक्षससैन्यध्वनिम् । शृण्वन् । रघूणां रघुवंश्यानां राज्ञाम् । पारवृढः प्रधानाध्यक्ष रामः । 'प्रभुः परिवृढोऽधिपः । ' इत्यमरः । जटाजूटग्रन्थिम् । द्रढयति । कदाचित् दण्डकारण्ये निवसतो रामभद्रस्येहितवर्णनमिदम् । शिखरिणी छन्दः । तलक्षणं च प्रागुक्तम् ॥ ६१ ॥
इत्यादौ । समवेश ? इति । चेत । अत्र । उच्यते उत्तरं दीयते । इहैवं मीमांसाव्यतिकरसमये इति भावः । खलु । रसानां शृङ्गारादीनाम् । विरोधितायाः । अविरोधितायाः । च । त्रिधा । व्यवस्था । कथमित्याशय क्रमेण निरूपयति कयोश्चित् । आलम्बनैक्येन । 'विरोधोऽविरोधचे 'ति शेषः । कयोश्चित् ।