________________
परिच्छेदः]
रुचिराख्यया व्याख्यया समेतः । शृङ्गारयोरालम्बनैक्येन विरोधः, तथा-हास्यरौद्रबीभत्सैः सम्भोगस्य । वीरकरुणरौद्रादिभिर्विप्र. लम्भस्य आश्रयैक्येन वीरभयानकयोः । नैरन्तर्यविभावैक्याभ्यां शान्तशृङ्गारयोः । त्रिधाऽपि अविरोधो वीरस्याद्भुतरौद्राभ्याम्, शृङ्गारस्याद्भुतेन, भयानकस्य बीभत्सेन इति, तेन त्र वीरशृझारयोभिन्नालम्बनत्वान्न विरोधः । एवं च-वीरस्य नायिकनिष्ठत्वेन, भयानकस्य प्रतिनायकनिष्ठत्वेन निवन्धे भिन्नाश्रयत्वेम विरोधः । यश्च नागानन्दे प्रशमाश्रयस्यापि जीमूतवाहनस्य मलयवत्यनुरागो दर्शितः, तत्र "अहोगीतम् ! अहो वादित्रम् !'' इत्यद्भुतस्यान्तरा निवेशनान्नरन्त-. भावान शान्तशृङ्गारयोर्विरोधः । एवमन्यदपि ज्ञेयम् । “पाण्डुक्षामं वदनं..." इत्यादौ च पाण्डुतादीनामङ्गभावः करुणविप्रलम्भेऽपीति न विरोधः ।
३१ अनुकारे च सर्वेषां दोषाणां नैव सम्भवः ॥ ३१ ।।
आश्रयैक्येन । कयोश्चित् । नैरन्तर्येण 'विरोधोऽविरोधश्च' इति शेषः । इति । तत्र तयोर्विरोधाविरोधयोमध्ये । वीरशृङ्गारयोः। विरोधः। आलम्बनैक्येन एकालम्बनत्वे एव, नान्यथेति भावः । तथा । सम्भोगस्य । हास्यरौद्रबीभत्स । 'आलम्बनैक्येन विरोध' इति पूर्वतोऽनुवृत्तम् । वीरकरुणरौद्रादिभिः । आदिपदेन भयानकस्य ग्रहणम् । विप्रलम्भस्य 'आलम्बनैक्येन विरोध' इति शेषः । वीरभयानकयोः। आश्रयैक्येन । च 'आलम्बनैक्येन च विरोध' इति शेषः । शान्तशृङ्गारयोः । नैरन्तर्यविभावैक्याभ्यां नैरन्तर्येण विभावैक्येन चेति भावः । 'विरोध' इति शेषः । वीरस्य । अद्भुतरौद्राभ्याम्।विधा आलम्बनैक्येनाश्रयैक्येन नैरन्तर्येण चेति भावः । अपि । अविरोधः । एवम्-शृङ्गारस्य । अद्भुतेन 'त्रिधाऽप्यविरोध इति शेषः । भय नकस्य । बीभत्सेन 'नैरन्तयेणाविरोध' इति शेषः । इति । अथ-तेनोक्तनियमन । अत्र 'कपोल' इत्युदाहृतपूर्वे पद्ये । वीरशृङ्गारयोः । भिन्नालम्बनत्वात् वीरस्य राक्षससेनाकलकलश्रवणालम्बनत्वात् शृङ्गारस्य कपोलप्रतिबिम्बितखमुखकमलनिरीक्षणाल. म्यनत्वाचेति भावः। न । विरोधः । एवम् । च । वीरस्य । नायकनिष्ठत्वेन । भयानकस्य । प्रतिनायकनिष्ठत्वेन । निबन्धे रचनायां सत्याम् । भिन्नाश्रयत्वे । न । विरोधः । 'इति ज्ञेयम्' इति शेषः । यः। च। नागानन्दे । प्रशमाश्रयस्य शान्तस्य । अपि । जीमूतवाहनस्य । मलयवत्यनुरागो मलयवत्यामनुरागः । दर्शितः। तत्र । "अहो । गीतम् । अहो । वादिवं वाद्यम् ।" इत्यद्भुतस्य । अन्तरा मध्ये 'शान्तशृङ्गारयो' रिति शेषः । निवेशनात् । नैरन्त-भावात् । न । शान्तशृङ्गारयोः। विरोधः। 'दुष्ट' इति शेषः । उक्त मर्थमन्यत्राप्यतिदिशति- एवम् । अन्यत् उदाहरणान्तरम् । अपि । ज्ञेयम् । अत एवाहुर्ध्वनिकारा:-"एकाश्रयत्वे निर्दोषो नरन्तय्य विरोधवान् । रसान्तरव्यवधिना रसो न्यस्यः सुमेधसा ॥” इति ।
विरुद्धरससम्बन्धिविभावादिपरिग्रहस्यादोषत्वं निर्दिशति-"पाण्डक्षामं वदनम्" इत्यादौ । च । पाण्डुताऽऽदीनाम् 'अनुभावाना'मिति शेषः । करुणविप्रलम्भे । अपि । अङ्गभावः । इति । न । विरोधः। एवं च-विरोधिरससम्बन्ध्यसाधारणाङ्गपरिग्रहे एव दोषः, न तु विरोधिरसीयसाधारणाङ्गपरिग्रहे दोषः । इति निष्कृष्टोऽर्थः।
__सर्वेषां दोषाणामकममोषं प्रतिप्रसवोपायं निर्दिशति-३१ अनुकार इत्यादिना ।। - ३१ अनुकारेऽनुकरणे । च । सर्वेषां निर्दिष्टानिर्दिष्टप्रतिप्रसवानां दुःश्रवत्वादीनाम् । दोषाणाम् । संभवः । 'दोषता' इति पाठान्तरेऽप्ययमेवार्थः । नैव । 'अवतिष्ठते' इति शेषः ॥ ३१ ॥