________________
साहित्यदर्पणः। . [सप्तमः परिच्छेदः) सर्वेषां दुश्रवत्वादीनाम्।। यथा-"एष दुश्च्यवनं नौमीत्यादि जल्पति कश्चन।" इत्यत्र दुरच्ययनशब्दोऽप्रयुक्तः। .
३२ अन्येषामपि दोषाणामित्यौचित्यान्मनीषिभिः।
अदोषता च गुणता या चानुभयात्मता ॥ ३२ ॥ अनुभयताऽदोषगुणता ।
इति साहित्यदर्पणे दोषनिरूपणो नाम सप्तमः परिच्छेदः ।
सर्वेषामिति पदं विवृणोति-सर्वेषामित्यादिना । स्पष्टम् ।
उदाहरति-यथा। "एषः। 'अहमिति शेषः । दुश्च्यवनमिन्द्रम् । नौमि स्तवीमि । इत्यादि (कर्म) कश्चन । जल्पति । 'भवान मां प्रतिपाल्येतेत्येवं प्रार्थयते तथा ॥' इति शेषः ।" इत्यत्र । दुश्च्यवनशब्दः । अप्रयुक्तः । इदं च दुःश्रवत्वच्युतसंस्कृतत्वयोरप्युपलक्षकम् । इति ।
ननु 'मृता नु कि'मित्यादावश्लीलत्वादेः कथं प्रतिप्रसवः ? इत्याशङ्कयोत्तरयति-३१ अन्येषामित्यादिना ।
३२ अन्येषामनुक्तप्रतिप्रसवानाम् । अपि । दोषाणाम् । इत्यौचित्यादित्येवंविधमौचित्यं दृष्ट्वा । मनीषिभिः सहयैः । अदोषता निर्दुष्टत्वम् । च । गुणता गुणभूतत्वम् । च तथा । अनुभयात्मता अदोषगणतम् । ज्ञेया स्वयम्बुद्धया विमृश्येति भावः । एवं च-अविमृष्टविधेयत्वादेरपि क्वचिददुष्टत्वमुदाहृतं, तत् युक्तमेवेति बोध्यम् । अत एव-"हा पित: ! क्वासि हे सुभ्रः," "का त्वं चिकीर्षसि च किं मुनिवर्य : शैल मायाऽसि काऽपि भगवत्परदेवतायाः।" इत्यादौ प्रमत्तस्य वक्तृत्वेन च्युतसंस्कृतत्वादेरपि गुणत्वं प्राञ्चोऽपि प्राहुः । इति दिक ॥३२॥
कारिकां सुगमयितुमाह-अनुभवतेत्यादि । स्पष्टम् । प्रकरणं समापयन्नाह-इतीत्यादि ।
इति । साहित्यदर्पणे 'श्रीविश्वनायकविराजकृते' इति शेषः । दोषनिरूपणो दोषाणां निरूपणं यत्र तादृशः । नाम प्रसिद्धः। खप्तमः । परिच्छेदः । समाप्त' इति शेषः । शुभम् ।
अपि बत प्रतिपय सदोषतां सगुणतां दधतं भवभूतये ।
तदुभयीं च विहाय विलासिनं प्रकृतितः कृतितः परमाश्रये ॥ इति श्रीशिवनाथसूरिसूनुना शिवदत्तकविरत्नेन विरचितया रुचिरया व्याख्यया सहित
साहित्यदर्पणस्य सप्तमः परिच्छेदः समाप्तः ।