________________
अष्टमः परिच्छेदः ।
गुणानाह
३३ रसस्याङ्गित्वमाप्तस्य धर्माः शौर्यादयो यथा । गुणाः
यथा खलु अङ्गित्वमाप्तस्य आत्मन उत्कर्षहेतुत्वात् शौर्यादयो गुणशब्दवाच्याः, तथा काव्येs
अविद्यां तां घोरान्नय विलयमुद्बोधय जगत् प्रकाशं विद्यायाः पुनरपि तथाssधेहि भगवन् । दयासिन्धो ! बन्धो ! विविधदुरितध्वंसनगुरो ! त्वमेकः सुप्तानां शरणमधुनोद्बोधनविधौ ॥
तत्र तावत् काव्यत्वापकर्ष कदोष निरूपणानन्तरमुद्देशक्रमप्राप्तगुणस्वरूपनिरूपणमुपक्रामन्नाह - गुणानित्यादि ।
गुणान् रजस्तमःसत्त्वानतिरिक्तस्त्ररूपान् काव्यात्मभूतरसनिष्ठान् धर्मविशेषान् । उपादेयनिरूपणस्य हे निरूपणोपकृतत्वात् काव्यस्य हेयान् दुःश्रवत्वायभिधेयान् दोषपदवाच्यान् निरूप्य उपादेयान् माधुर्यौजः प्रसादाभिधेपान् धर्मानिति भावः । आह - ३३ रसस्येत्यादिना ।
I
३३ यथा लोके इति शेषः । अङ्गित्वं मुख्यत्वं प्रधानत्वमिति यावत् । अङ्गानि अप्रधानभूतान्यन्यान्यस्य सन्तीति तत्वम् । 'अङ्गं गात्रे प्रतीकोपाययोः पुंभूनि नीवृति । क्लीबैकत्वे त्वप्रधाने त्रिष्वङ्गवति चान्तिके ॥' इति मेदिनी । 'अत इनठनौ ।' ५ । २ । ११६ इतीन: । आप्तस्य प्राप्तस्य । आत्मन इति शेषः । शौर्यादयोऽत्रादिपदेनौदार्यादीनामुपादानम् | धर्माः साक्षात्सम्बद्धाः । गुणाः । तथा रसस्य काव्ये इति शेषः । अत्रायम्भावः - - ' शरी रात्मानौ परस्परं विभिन्नौ तमः प्रकाशयोरिव जड जडयोरनयोरभेदानुपपत्तेः । अथ यथा 'अपो दहति' इत्यादावयस्यपि दाहकत्वमध्यस्तं वस्तुतो दहनस्यैव तथा 'वीरो रसः किमयमित्युत दर्प एषः ।' इत्यादौ शरीरेऽप्यव्यस्तं वीरत्वादि वस्तुत आत्मन एव । नहि जडस्य चेतने तस्य च परत्र घर्मा उपपद्यन्ते । ननु ते क्वचिदाभासन्तेइति चेदाभासमात्रत्वं तेषाम् नतु वस्तुयाथात्म्यम् इति निश्चीयताम् । शरीरं जडम्, आत्मा तु तद्भिन्नः पुनः कथङ्कारं वस्तुतयाऽऽत्मन एव शौर्यादयो धर्मां शरीरस्य साक्षात् सम्बद्धा भवेयुः । एवं काव्यस्य शब्दश्चार्थश्व शरीरम्, आत्मा पुना रसः । अत्रात्मभूतस्यास्य धर्मा, न तु शब्दस्यार्थस्य वा । यत्तु वामनेन 'काव्यशोभायाः कर्त्तारो धर्मा गुणाः । ३ । १1१ इति सूत्रयित्वा ये खलु शब्दार्थयोर्धर्माः काव्यशोभां कुर्वन्ति ते गुणाः । इत्युक्तम् । तदापातरमणीयम् । उक्तं च प्रकाशकारै: ‘ये रसस्याङ्गिनो धर्माः शौर्यादय इवात्मनः । उत्कर्षहेतवस्ते स्युरचलस्थितयो गुणाः ॥' इति सूत्रयित्वा 'आत्मन एव हि यथा शौर्यादयः नाकारस्य तथा रसस्यैव माधुर्या गुणा न वर्णादीनाम् । कचित्तु शौर्यादिसमुचितस्याकार महत्त्वादेर्दर्शनाद् 'आकार एवास्य शरः ।' इत्यादेर्व्यवहारादन्यत्राशरेऽपि वितताकृतित्वमात्रेण 'शुर:' इति, कापि शूरेऽपि मूर्त्तिलाघवमात्रेणा 'शूर' इत्यविश्रान्तप्रतीतयो यथा व्यवहरन्ति तद्वन्मधुरादिव्यञ्जकसुकुमारादिवर्णानां मधुरादिव्यवहारप्रवृत्तेरमधुरादिरसाङ्गानां वर्णानां सौकुमार्यादिमात्रेण माधुर्यादि, मधुरादिरसोपकरणानां तेषामसौकुमार्यादेरमाधुर्यादिरसपर्यन्तविश्रान्तप्रतीतिवन्ध्या व्यवहरन्ति । अत एव माधुर्यादयो रसधर्माः समुचितैर्वर्णैर्व्यञ्जयन्ते नतु वर्णमात्राश्रयाः । इति ।' इति ।
अथ कारिकार्थे विशदयति-यथेत्यादिना ।
यथा । लोके इति शेषः । खलु । अङ्गित्वम् प्रधानत्वम् । आप्तस्य प्राप्तस्य । आत्मनो देहिनः । उत्कर्ष है-तुत्वादुत्कर्षस्य हेतुः कारणं तत्त्वात् । उत्कर्षणमुत्कर्षोऽतिशयः । 'भावे | ३ | ३|१८' इति घञ् । 'हेतुर्ना कारणं बीजम्' इत्यमरः । ‘तस्य भावस्त्वतलौ ।' ५ । १ । ११९ इति त्वः । ' हेतौ ।' २। ३ । २३ इति पञ्चमी । शौर्यादयः शौर्य शुरधर्म आदौ येषां ते । शौर्योदायज स्वित्वादय इत्यर्थः । धर्मा इति शेषः । गुणशब्दवाच्या 'गुणा' इत्यभिधया
१ रजो माधुर्यम्, तम ओजः, सत्वं पुनः प्रसाद इति स्थितिः ।
१२