________________
साहित्यदर्पणः ।
वितस्य रसस्य धर्माः स्वरूपविशेषा माधुर्यादयोऽपि स्वसमर्पकपदसन्दर्भस्य काव्यव्यपदेशकानुगुण्यभाज इत्यर्थः । यथा चैषां रसमात्र (स्य ) धर्मत्वं, तथा दर्शितमेव । ३४ माधुर्य मोजोऽथ प्रसाद इति ते त्रिधा ॥ ३३ ॥ ते गुणाः । तत्र
३५ चित्तद्रवीभावमयो ह्रादो माधुर्यमुच्यते ।
६०
अष्टमः
प्रतिपाद्याः । तथा । काव्ये कविभणितौ । अङ्गित्वं प्रधानत्वम् । आप्तस्य । रसस्य । रस इत्युपलक्षणम् । तेनशृङ्गारादितदाभासादेरिति निष्कृष्टोऽर्थः । ननु रस्यते आखाद्यते इति तस्येति बोध्यम् । तस्य ब्रह्मत्वेन सगुणत्वासम्भवात् । धर्माः साक्षात्समवायेन सम्बद्धाः । स्वरूपविशेषाः स्वमात्मा रूप्यते लक्ष्यते इतरव्यावृत्ततया ज्ञायते इति यावद्अनेनेति स्वरूपमसाधारणं लक्षणं तत्प्रकारभूता इत्यर्थः । यथा 'गन्धवती पृथिवी 'त्यत्र गन्धवत्त्वं पृथिव्या असाधारण तथेति । माधुर्यादयो माधुर्यमोजः प्रसादश्चेति त्रय एव । अपि । गुणा इति शेषः । काव्यव्यपदेशस्य काव्यस्य व्यपदेशो व्यवहारस्तस्य तदात्मकस्येति यावत् । स्वसमर्पकपद सन्दर्भस्य स्वं स्वकीयो रस इति यावत् तस्य समर्पको व्यञ्जकस्ताEast पदन्दर्भस्तस्य वाक्यस्येति भावः । औपयिका नुगुण्यभाज उपायेन निर्वृत्तमित्यौपयिकम्, तच्च पदानुगुण्यमुपकारित्वम्,तद्भाजः न्यायानुगतानुकूलत्वविधातार इत्यर्थः । 'विनयादिभ्यष्ठक् ।' ५।४१२४ इति ठक् । 'उपायो हस्वश्च इतिहस्त्रत्वम् । 'गुणवचनब्राह्मणादिभ्यः कर्मणि च ।' ५।१।१२४ इति भावे ष्यञ् । 'भजो ण्विः ।' ३।२।६२ इति विः । इत्यर्थः कारिकाया इति शेषः । यथा येन प्रकारेण । न्व पुनः । एषां गुणानामित्यर्थः । रक्षमात्रधर्मत्वं रस एवेति रसमात्रं तस्य धर्मस्तत्त्वम् । एवकारः शब्दार्थयोर्व्यवच्छेदमाह । क्वचित् 'रसमात्रस्थे 'ति पृथक् 'धर्मत्वमिति च पृथक् पाठः । तथा तेन प्रकारेण । दर्शितम् । अस्माभिरिति शेषः । एव । काव्यप्रकाशकृत काव्यलक्षणनिराकरणप्रसङ्गे इति शेषः । अत्रेदं तात्पर्यम् - लोके यथाऽऽत्मन एव शौर्यादयो धर्मास्तथा कान्ग्रे रसस्यैव माधुर्यादयोऽपि । इति न मनाक् विप्रतिपन्नम् । अथापि उपचारात् तेऽन्यत्र कहप्यन्ते । इति यथाऽऽत्मानमेवोत्कर्षयन्तः पुनः शौर्यादयः शरीरमपि तदायतत्वेनोत्कर्षयन्तः प्रतीयन्ते व्यवह्रियन्ते च । तथैव रसस्य परमुत्कर्षयन्तोऽपि स्थिता माधुर्यादयः शब्दार्थी बुक्क यन्तः प्रतीयन्ते व्यवह्रियन्ते च न पुनर्वस्तुतः । तेषां चेतनधर्माणामचेतनधर्मत्वानुपपत्तेः । ते च नित्यं तेन साक्षासम्बद्धाः | अतः - रसं विना ये नावनिष्ठन्ते, अवतिष्ठमानाश्च रसमवश्यमुपकुर्वन्ति ते गुणा इति 'काव्यव्यवहारप्रयोजकत्वे सति रसधर्मवत्त्वं गुण:' इति वा फलितमिति ।
तान् गुणान् विभजति - ३४ माधुर्यमित्यादिना ।
३४ ते गुणा इति यावत् । माधुर्य मधुरस्य भाव इति । तदभिधेय इति यावत् । भोजस्तदभिधेय इति यावत् । अथ । प्रखादस्तदभिधेय इति यावत् । इति । त्रिधा त्रित्रकारी, नतु दशप्रकाराश्चतुर्विंशतिप्रकाशवा । ' विधार्थे धा ।' ५ । ३ । ४२ इति धा । 'द्विश्यश्व धमुञ् । ५ । ३ । ४५ इति धमुजः पाक्षिकत्वेन नात्र तस्य प्रसक्तिः ॥ ३३ ॥
•
सन्देहापनोदाय 'ते' इति पदं व्याचष्टे - ते तत्पदवाच्याः । गुणाः । इति बोद्धव्यम् । अथ माधुर्यादीनां प्रत्येकं स्वरूपं निर्देष्टुमुपक्रान्त आह-तत्रेत्यादि ।
तत्र त्रिप्रकारेषु गुणेषु मध्ये इत्यर्थः । ३५ वित्तद्रवीभावमयश्चित्तस्य सहृदयहृदयस्येति यावत्तस्यैव तत्रोपपत्तेः, द्रवीभाव द्रवरूपेणेवावस्थानमिति स एवेति तथोक्तः । द्रवीभूयते इति द्रवीभावस्तन्मयः । अद्रवस्य द्रव इवावस्थानं द्रवी । एवं सहृदयहृदयस्य यो द्रव इव प्रत्ययस्तत्स्वरूप इति भावः । वत्त्वं च साक्षाद् द्रवत्वानुपपत्तेः । इति - अभूततद्भावे च्विः । स्वार्थे च मयट् । ह्लाद आहादो दुःखाशबलितानन्दानुभवः । माधुर्यम् । इतीति शेषः । उच्यते मार्मिकैरिति शेषः । अत्रायम्भावः-चित्तमनुसन्धानात्मकयुत्तिमदन्तःकरणम् । द्रवः पुनर्देषादिजन्यकाठिन्याद्यभावः । स च रसानुभबावसरे सहृदयानामेव । तेषां हि रसानुभवस्य सम्भवात् । अथादः सुखसम्बलितप्रतीतिः। तथा च- समस्तद्वेषादिजन्यका